Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१२२६ ॥
Jain Education Internat
'' इत्यादिगाथायां सिद्धसुखे यत् पुरुषोदाहरणमुक्तम्, तत्राह --
'तेसिं सिद्धत्तं पिव सोक्खमसाहारणं तओऽणुवमं । देसोवणयाओ पुण पुरिसोदाहरणमक्खायं ॥ ३१८३ ॥ सुगमा ॥ ३१८३ ॥
जैइवा संसारे च्चिय होज्ज तयं किंत्थ मोक्खचिंताए । तव्विहमच्चंतसुहं जत्थ व सोक्खेण संसारो ? ॥ ३१८४॥ यदि पुनः संसारेऽपि कस्यापि सर्वथा तत् सिद्धसुखसदृशं सुखं भवेत्, तत् किमत्र मोक्षचिन्तया, तत्सुखस्येहापि प्राप्तेः ९ । अथवा, यत्र तद्विधं सिद्धसुखप्रकारमात्यन्तिकं सुखं प्राप्यते स केन हेतुना संसारो भण्यते १ ननु मोक्ष एवासौ न चैवम् । तस्माद् देश साम्येनैव पुरुषोदाहरणं द्रष्टव्यमिति ।। ३१८४ ॥
तस्माद् निरुपममेव सिद्धिसुखमिति दर्शयन्नाह -
अतुलमणन्नसरिसयं निव्वाणं निव्वुई परं सोक्खं । अन्नेसिं निव्वाणं दीवरस व सव्वहा नासो ॥ ३१८५ ॥ अतुलमनन्यसदृशं निर्वाणं निर्वृतिः परं प्रकर्षप्राप्तं सौख्यमुच्यते, न पुनस्तस्य दृष्टान्तः कोऽप्यस्तीति भावः । अन्येषां तु तेन दीपस्येव जीवस्य सर्वथा नाशो निर्वाणमुच्यत इति, सर्वथा नष्टे प्रदीपे निर्वाणशब्दरूढेजवस्य सर्वथा नाशो निर्वाणमन्येषामभिप्रेतम् ।। ३१८५ ।।
युक्तिं च तेऽत्र प्राहु:--
जैं च तणु-कम्मसंतइनासो बीयंकुराण वा मोक्खो । अन्नो न य संताणी संताणाओ तओ नासो ॥ ३१८६ ॥ जं नारगाइभावो भवो व न य नारगाइओ भिन्नो। कोई जीवो तो नारगाइनासम्म तन्नासो ॥ ३१८७ ॥
१ तेषां सिद्धत्वमिव सौख्यमसाधारणं ततोऽनुपमम् । देशोपनयात् पुनः पुरुषोदाहरणमाख्यातम् ॥ ३१८३ ॥
यदि वा संसार एव भवेत् तत् किमन्त्र मोक्षचिन्तया । तद्विधमनन्तसुखं यत्र वा सौख्येन संसारः ? ॥ ३१८४ ॥ ३ अतुलमनन्यसदृशकं निर्वाणं निर्वृतिः परं सौख्यम् । अन्येषां निर्वाणं दीपस्येव सर्वथा नाशः ॥ ३१८५ ॥
४ यच्च तनु कर्मसंततिनाशो बीजा-ऽङ्कुरयोरिव मोक्षः । अन्यो न च संतानी संतानात् ततो नाशः ॥ ३१८६ ॥ यद् नारकादिभावो भव एव न च नारकादितो भिन्नः । कोऽपि जीवस्ततो नारकादिनाशे तनाशः ॥ ३१८७ ॥
For Personal and Private Use Only
68584sapp SARK
बृहद्वृत्तिः॥
॥। १२२६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160