________________
८ अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ९ स्वावरणक्षयोपशमलक्षणयोग्यता हि प्रतिनियतमर्थ व्यवस्थापयति १० कारणस्यच परिच्छेद्यत्वे करणादिना व्यभिचारः ११ सामिप्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् १२ सावरणत्वे करणजन्यत्वे च प्रतिबन्धसंभवात्
तृतीयसमुद्देश. १ परोक्षमितरत् २ प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्वानुमानागमभेदम् ३ संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः ४ सदेवदत्तो यथा ५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्सदृशं तद्विलक्षणं
तत्प्रतियोगीत्यादि. ६ यथा स एवायं देवदत्तः,
गो सदृशो गवयः, गो विलक्षणो महिषः, इदमस्माहूरम्, वृक्षोयमित्यादिः, ७ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः इदमस्मिन्सत्येव
भवत्यसति न भवत्येवेति च ८ यथामावेव धूमस्तदाभावे न भवत्येवेतिच ९ साधनात्साध्यविज्ञानमनुमानम् १० साध्याविनाभावित्वेन निश्चितो हेतुः ११ सहक्रमभावनियमोऽविनाभावः १२ सहचारिणोप्प्यव्यापकयोश्च सहभावः १३ पूवोत्तरचारिणोः कार्यकारणयोश्चक्रमभावः १४ तर्कात्तनिर्णयः १५ इष्टमबाधितमसिद्ध साध्यम् १६ संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथास्यादित्यसिद्धपदम् १७ अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं माभूदितीष्टाबाधितवचनम्