Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१५७६
• हरि-हर-बुद्ध-जिनादिशब्दानामेकार्थता • द्वात्रिंशिका-२३/१५ वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्ताऽवगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं- “प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ।।” (यो.दृ.स.१०४) ।।१५।। तदुक्तं बुद्धपर्यायशब्दनिरूपणे अमरकोशे → सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान् मारजिल्लोकजित् जिनः ।। - (अ.को.१/४/२५) इति । तदुक्तं अन्यत्राऽपि → शौद्धोदनिः दशबलो बुद्धः शाक्यः तथागतः सुगतः । मारजिदद्वयवादी समन्तभद्रो जिनश्च तुल्यार्थाः ।। - (ललितविस्तरापञ्जिकायां उद्धृतश्लोकः- पृ.६०) इति।
निरतिशयगुणवत्त्वावगाहनं विनैव बाह्यवैभव-चित्तचमत्कारजननशक्त्याद्यवलम्बनकदृष्टिरागादितः तत्तद्देवप्रतिपत्तौ तु नैव मुख्यसर्वज्ञभक्तिः सम्भवति, गुणवत्ताऽवगाहनेनैव = दोषाऽसम्पृक्ताऽनुत्तरस्पृहणीयतमगुणगणविषयकत्वेनैव तस्याः = तत्तद्देवप्रतिपत्तेः भक्तित्वात् = मुख्यसर्वज्ञभक्तित्वात् । इदमेवाऽभिप्रेत्य . लोकतत्त्वनिर्णये श्रीहरिभद्रसूरिभिः → यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ।। 6 (लो.त.नि.४०) इत्युक्तमिति पूर्वोक्तं(पृ.२१५) अत्रानुसन्धेयम् । यथोक्तं तैरेव योगदृष्टिसमुच्चये → 'प्रतिपत्ति'रिति । तद्वृत्तिस्त्वेवम् → प्रतिपत्तिः ततः तस्य = सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वज्ञं मुख्यमेव इति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धेः - (यो.दृ.स.१०४ वृत्ति.) इति । तदुक्तं योगप्रदीपेऽपि → शङ्करो वा जिनेशो वा यो यस्याऽभिमतः सदा । एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते ।। ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताऽम्बरैस्तथा । रुद्रस्तपस्विभिर्दृष्ट एष एव निरञ्जनः ।। जिनेन्द्रो जल्प्यते जैनैः बुद्धः कृत्वा च सौगतैः । कौलिकैः कोल आख्यातः स एवाऽयं सनातनः ।। स्फटिको बहुरूपः स्याद्यथैवोपाधिवर्जितः । स तथा दर्शनैः षड्भिः ख्यात एकोऽप्यनेकधा ।।
6 (यो.प्र.२४,३३-३५) इति । समयसुन्दरोपाध्यायेनापि कल्याणमन्दिरस्तोत्रवृत्तौ → केनाऽपि हरिः केनाऽपि हरः प्रोच्यते परं त्वमेव स वीतरागः - (क.मं. १८ वृत्तिः) इत्युक्तम् । प्रकृते च → यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः, सोऽयं मे विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ।। (सुभाषितरत्नमाला-१३१) इति परोक्तिरप्यवश्यमनुसन्धया ।।२३/१५।। જ કહેવાય. કારણ કે સર્વજ્ઞ જ સર્વોત્કૃષ્ટગુણસંપન્ન હોય. ઉપાસ્ય તત્ત્વનો સર્વોત્કૃષ્ટ ગુણસંપન્નત્વરૂપે स्वी.१२ (= तस्याः) ४२वो त मति छ. योगष्टिसभुश्ययम ४९॥वेस छ, 'सर्वश५९॥थी. સર્વ સર્વજ્ઞો એક જ હોવાના કારણે જેટલા અન્યદર્શનીઓ છે તે બધાએ પણ સામાન્યથી તો તે મુખ્ય मे ४ सर्वशनो आश्रय ४ो छ - ॥ प्रभारी नियनो स्वी१२ (न्यायगतिः) ४ श्रेष्ठ छे.'(२३/१५)
વિશેષાર્થ :-પ્રાયઃ સર્વ આસ્તિક દર્શનકારો સર્વજ્ઞમાં માને છે. તથા જેનામાં સર્વજ્ઞપણાના લક્ષણો હોય તે બધા સર્વજ્ઞ છે. એમ પણ માને છે. આથી સર્વજ્ઞને માનવામાં હેતુ સર્વજ્ઞપણું છે. કોઈ અમુક જ સર્વજ્ઞ છે એમ નહિ. કિંતુ જેમાં જેમાં સર્વજ્ઞપણું હોય તે બધા સર્વજ્ઞ છે, પછી ભલે તેમનામાં નામભેદ હોય. જેમ કે જેમાં જેમાં જીવનું લક્ષણ/ચૈતન્ય દેખાય તે બધા જીવ સ્વરૂપે એક જ છે. તેમ જે જે પુરુષમાં સર્વજ્ઞપણું હોય તે તે બધા જ પુરુષો સર્વજ્ઞપણાથી એક જ છે. આથી અન્ય દર્શનીઓએ પણ સામાન્યથી મુખ્ય જે સર્વજ્ઞ છે તેનો જ સ્વીકાર કર્યો છે. બુદ્ધ, શંકર, જિનેશ્વર વગેરે નામ જુદા-જુદા હોવા છતાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org