Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 336
________________ • तारकज्ञानमीमांसा • १८२७ तारकमिति । तच्च विवेकजं ज्ञानं तारयत्यगाधात्संसारपयोधेर्योगिनमित्यान्वर्थिक्या संज्ञया तारकं उच्यते। तथा सर्वविषयं सर्वाणि तत्त्वानि महदादीनि विषयो यस्य तत्तथा। तथा सर्वथा = सर्वैः प्रकारैः सूक्ष्मादिभेदैविषयो यस्य तच्च तदक्रमं च ( विषयाऽक्रम) निःशेषनानाऽवस्थापरिण'तव्यर्थिकभावग्रहणे क्रमरहितं चेति कर्मधारयः। इत्थं चाऽस्य संज्ञा-विषय-स्वभावा व्याख्याताः। विवेकजज्ञानस्यैकमुदाहरणं प्रदर्शितम् । इदानीं सहेतुकं विवेकजज्ञानस्य मोक्षोपयोगमाह- 'तारकमि'ति। तच्च उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं विवेकजं ज्ञानं सर्वविषयादिरूपमिति सर्वत्र दोषदर्शनमूलकवैराग्यद्वारा अगाधात् संसारपयोधेः योगिनं पुरुषतत्त्वावगाहिज्ञानोपेतं तारयति । __ केचित्तु तारकफलतयाऽमनस्कयोगमामनन्ति । तदुक्तं अद्वयतारकोपनिषदि → तारक एव लक्ष्यममनस्कफलप्रदं भवति - (अद्व.पृष्ठ.२) इति । ननु सर्वविषयमित्यनेनैव सर्वथाविषयत्वावबोधात् ‘सर्वथाविषये'ति पौनरुक्त्यापन्नमिति चेत् ? अत्रोच्यते, प्राक् तत्तत्संयमात् सर्वज्ञतोक्ता। सा च न निःशेषज्ञता किन्तु प्रकारमात्रविषया, यथा 'रसवत्यां निष्पन्नैः सर्वैः व्यञ्जनैर्भुक्तमि'ति । अत्र हि यावन्तो व्यञ्जनप्रकाराः तैर्भुक्तमिति गम्यते, न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दः, यथा 'पात्रस्थैः सर्वैः व्यञ्जनैरुपनीतं सर्वमन्नं प्राशकेन भुक्तमि'ति । अत्र हि स्वरूपतः प्रकारतश्च निःशेषं भुक्तमिति गम्यते । तद्वदिदं क्षणक्रमसम्बन्धसंयमजं विवेकज्ञानं सर्ववस्तुस्वरूपविषयं सर्वप्रकारविषयञ्च निःशेषावगाहीति द्योतनान्न पौनरुक्त्यम् । स्वभावान्तरमस्याऽऽह- 'निःशेषनानाऽवस्थापरिणतव्यर्थिकभावग्रहणे = कृत्स्ना अतीताऽनागतवर्तमानाऽध्वपरिणताः शान्तोदिताऽव्यपदेश्यधर्मिरूपा ये भावाः तेषां साक्षात्कारे क्रमं नापेक्षत इति क्रमरहितम् । एकक्षणोपारूढं सर्वमेकदा कान्येन विषय इति भावः । यत्तु योगसुधाकरे सदाशिवेन्द्रेण → अक्रम नाम भाव्यपि विद्यमानत्वेन पश्यति + (यो.सुधा.३/५४) इत्युक्तं तदसत्, एवं सति तस्य विपर्ययत्वप्रसङ्गात्, अन्यथाऽवस्थितस्याऽन्यथा ग्रहणात् । सर्वसमूहालम्बनकं करतलगतामलकवद् युगपत् प्रातिस्विकरूपेण साक्षात्करोतीत्यर्थस्यैव सूत्रकृदभिमतत्वात् । इत्थं च दर्शितरीत्या अस्य विवेकजज्ञानस्य संज्ञा-विषय-स्वभावाः = तारकाऽभिधान-निःशेषाऽर्थविषयाऽक्रमग्रहणस्वभावा व्याख्याताः । तदुक्तं योगसूत्रे पतञ्जलिना 'तारकमि'ति । सम्पूर्ण सूत्रं त्वेवम् → तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ટીકાર્ય - તે વિવેકજન્ય જ્ઞાન અગાધ સંસાર સાગરથી યોગીને તરાવે છે. માટે તે તારકજ્ઞાન કહેવાય છે. “તારક' એવી સંજ્ઞા તે કારણસર સાર્થક સંજ્ઞા બને છે. તારક જ્ઞાનના વિષય તરીકે મહદ્ વગેરે તમામ તત્ત્વો છે. તથા તારક જ્ઞાન પોતાના વિષયને સૂક્ષ્મ-સ્કૂલ-વ્યવહિત આદિ તમામ પ્રકારે જાણે છે. તેમ જ એકી સાથે તમામ વિષયોનો બોધ કરે છે. કારણ કે તમામ વિવિધ અવસ્થારૂપે પરિણત એવા આર્થિક ભાવોનો નિશ્ચય કરવામાં તારકજ્ઞાન ક્રમશૂન્ય છે. અર્થાત્ એકીસાથે તમામ ભાવોની તે-તે અવસ્થારૂપે જાણકારી તારકજ્ઞાનથી પ્રાપ્ત થાય છે. આ રીતે વિવેકજન્ય જ્ઞાનની સંજ્ઞા, વિષય અને સ્વભાવથી વ્યાખ્યા થઈ ગઈ. વિવેકજન્ય જ્ઞાનની સંજ્ઞા છે તારકજ્ઞાન. તેનો વિષય છે ત્રણ કાળના તમામ અવસ્થારૂપે પરિણમેલા તમામ પદાર્થો. તથા તેનો સ્વભાવ છે ક્રમ વિના તમામનો બોધ કરવો. १. मुद्रितप्रतौ ...णतत्वत आ(णता)र्थिक...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354