Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 348
________________ • भरत- मेरुदेवाप्रबन्धोपवर्णनम् • १८३९ भरतो भरतक्षोणीं भुञ्जानोऽपि महामतिः । तत्कालं योगमाहात्म्याद् बुभुजे केवलश्रियम् । । ३१ । । पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ।। ३२ ।। केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौति- 'भरत' इति । निगदसिद्धोऽयं श्लोकः । भरतचक्रिणः केवलज्ञानोपलब्धिप्रक्रिया तु योगलक्षणद्वात्रिंशिकायां ( द्वा. द्वा. १० / २२ भाग - ३ पृ. ७१६) जम्बूद्वीपप्रज्ञप्तिसंवादद्वारा दर्शितैवेति न पुनरुच्यते । तदुक्तं वैराग्यकल्पलतायां अपि षट्खण्डसाम्राज्यभुजोऽपि वश्या यत्केवलश्रीर्भरतस्य जज्ञे । न याति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भितं तत् ।। ← ( वै.क.ल. १ । २५४ ) इति । भारतस्य महासम्राट् भरतो राज्यभोग्यपि । आत्मोपयोगतो जातः केवली गृहसंस्थितः । । ← (अध्या.गी. १६९) इति अध्यात्मगीतावचनमप्यत्र स्मर्तव्यम् । एवमेव → आत्मयोगस्य सामर्थ्यमपूर्वं हि विलोक्यते । भरतर्षिर्येन संप्राप्तः केवलज्ञानभास्करम् ।। आत्मसामर्थ्ययोगेन, संप्राप्य केवलश्रियम् । प्रख्यातपूर्ण आषाढो, धन्यो धन्यतमेषु च ।। कूर्मापुत्रो गृहे तिष्ठन्, केवलज्ञानमाप्तवान् । आत्मदृष्टिप्रभावोऽयं केन वारयितुं क्षम ।। ← (आ.द.गी.२०-२२) इति आत्मदर्शनगीतावचनमप्यत्र न विस्मर्तव्यम् । नवरं भरतचरित्रं → अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो भरताधिपः ।। ← (यो.शा. १/१० ) इति योगशास्त्रश्लोकस्य वृत्तितो यद्वा आवश्यकनिर्युक्तिवृत्तितोऽवसेयम् ।।२६ / ३१।। ननु युक्तं भरतस्य पूर्वजन्माऽर्जितयोगसमृद्धिबलक्षपिताऽशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयः, अत एवाऽक्षपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान् स कथमनन्तकालप्रचितशुभाऽशुभकर्मनिर्मूलनमनुभवेत् ? इत्याशङ्कायां योगशास्त्रकारिकामेवाऽऽवेदयति- 'पूर्वमिति । परमानन्दनन्दिता शरीरेन्द्रियान्तःकरणाद्यगोचराऽवचनीयाऽग्रेसर - रमणीयाऽऽनन्दप्रमुदिता पूर्वं जातु अप्राप्तधर्माऽपि मरुदेवा योगप्रभावतः = काल-भवितव्यतादिपरिपाकवशोपलब्धसामर्थ्ययोगमाहात्म्यतः परं पदं प्राप । → मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नाऽनुभूतवती किं पुनर्मानुषत्वम् ? तथापि योगबलसमृद्धेन शुक्लध्यानाऽग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात् कृतवती । यदाह 'जह एगा છે. પણ જૈનદર્શન જે યોગને બતાવે છે, તે યોગ તો પરદર્શનીના ભગવાન ઉપર પણ ઉપકાર કરવાની ક્ષમતા ધરાવે છે. આટલો જૈનદર્શન અને જૈનેતરદર્શનમાં ફરક છે. (૨૬/૩૦) ૢ ભરતચક્રીને યોગથી કેવલજ્ઞાનપ્રાપ્તિ ગાથાર્થ :- ભરતક્ષેત્રને ચક્રવર્તીના અધિકારથી ભોગોને ભોગવનાર મહાપ્રાજ્ઞ એવા ભરત મહારાજાએ પણ યોગના માહાત્મ્યથી તત્કાલ કેવલજ્ઞાનરૂપી લક્ષ્મીને મેળવી-અનુભવી. (૨૬/૩૧) વિશેષાર્થ :- ઋષભદેવ ભગવાનના પુત્ર અને આરિસા મહેલમાં અશુચિ ભાવનાથી કેવલી થનારા ભરત ચક્રવર્તીનું ચરિત્ર ત્રિશષ્ટિશલાકાપુરુષ ચરિત્ર, યોગશાસ્ત્ર ટીકા, આવશ્યકનિર્યુક્તિ ચૂર્ણિ વગેરેમાં પ્રસિદ્ધ હોવાથી અમે અહીં જણાવતા નથી. (૨૬/૩૧) = # મરુદેવા માતાનો મોક્ષ યોગમૂલક * ગાથાર્થ :- પૂર્વે કદાપિ ધર્મ ન પામવા છતાં પણ યોગના પ્રભાવથી ૫૨માનંદથી આનંદિત થયેલા મરૂદેવા માતાએ મોક્ષ પદને પ્રાપ્ત કર્યું. (૨૬/૩૨) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354