Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 339
________________ १८३० • सदसत्प्रवृत्तिनिवृत्तितः संयमकारणता • द्वात्रिंशिका-२६/२२ वृत्त्यसन्निवृत्तिभ्यां (=सदसत्प्रवृत्तिविनिवृत्तितः) तथाविधक्षयोपशमाद्याधानद्वारैव बीजं न तु तत् तद्विषयज्ञानप्रणिधानादिरूपः, अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वाद्विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः । कुशलप्रवर्त्तनाऽकुशलनिवर्त्तनाभ्यां तथाविधक्षयोपशमाद्याधानद्वारैव = दर्शितसिद्ध्युपधायकक्षयोपशमोदयादिसम्पादनद्वारेणैव बीजं = हेतुं, न तु तत्तद्विषयज्ञानप्रणिधानादिरूपः = अतीताऽनागतादिगोचरज्ञानोद्देश्यकधारणा-ध्यान-समाध्यैक्यलक्षणः, मरणादिज्ञानस्य कथञ्चित् तत्तद्विषयज्ञानप्रणिधानरूपसंयमसाध्यत्वेऽपि अनन्तविषयकज्ञानस्य प्रतिविषयं संयमाऽसाध्यत्वात् । न चौघतः सर्वविषयकज्ञानप्रणिधानरूपसंयमसाध्यत्वमनन्तविषयकज्ञानस्य स्यादिति वाच्यम्, अपसिद्धान्तापातात् । यदपि 'क्षण-तत्क्रमयोः संयमाद् विवेकजं ज्ञानं' (यो.सू.३/५२) 'तारकं सर्वविषयं सर्वथाविषयमक्रम चेति विवेकजं ज्ञानं' (यो.सू. ३/५४) इति पतञ्जलिनोक्तं तदपि न सम्यक्, अन्यगोचरसंयमेनाऽपरगोचरज्ञानोपधानाऽसम्भवात्, सम्भवे वा सूर्यसंयमात् ताराव्यूहादिगोचरमपि ज्ञानं स्यादिति तदर्थं ‘चन्द्रे ताराव्यूहज्ञानम्' (यो.सू.३/२७) इत्यादिसूत्रकदम्बकमनर्थकं स्यात् । एतेन → क्षण-तत्क्रमसाक्षात्कारादखिलपरिणाम-तत्क्रमसाक्षात्कारद्वारा सर्ववस्तूनामन्योऽन्यव्यावृत्ततया स्वरूपाऽवधारणं भवति - (यो.वा. ३/५२) इति योगवार्तिककृद्विज्ञानभिक्षुवचनं निराकृतम्, क्षणस्याऽतीन्द्रियत्वेनाऽसर्वज्ञस्य क्षण-तत्क्रमसाक्षात्काराऽसम्भवात् । यत्तु पतञ्जलिना → सत्त्वपुरुषाऽन्यताख्यातिमात्रस्य सर्वभावाऽधिष्ठातृत्वं सर्वज्ञातृत्वं च' (यो.सू. ३/४९) इत्युक्तं तत्तु स्यादपि, कर्मप्रकृत्यात्मगोचरकाष्ठाप्राप्तभेदविज्ञानस्य भिन्नग्रन्थ्यादिगतस्याऽसङ्गसाक्षिभावमात्रविश्रान्तस्य सार्वज्यबीजत्वसम्भवात् । सर्वभावाऽधिष्ठातृत्वन्तु सार्वग्यसिद्ध्युत्तरमेव, ‘जहा जहा तं भगवया दिटुं तहा तहा तं विपरिणमिस्सति' (व्या.प्र.१/४/४१) इति पूर्वोक्त(पृ.२४५, २५६) व्याख्याप्रज्ञप्तिवचनाऽनुसारिनयाऽभिप्रायेणाऽवगन्तव्यम् । वस्तुतस्तु विहिताऽनुष्ठानप्रणिधानमात्रसंयमेनैव = सर्वज्ञविहितनिषिद्ध-प्रवृत्तिनिवृत्तिगोचरश्रद्धादिपरिपुष्टविशुद्धप्रणिधानमात्रलक्षणसंयमेनैव प्रागुक्त(द्वा.द्वा.६/५ भाग-२ पृ.३८६)तत्त्वसंवेदनज्ञानप्रसूतेन मोहक्षयात्= कृत्स्नमोहसङ्क्षयात् तदनन्तरभाविसकलज्ञानावरणक्षयेनैव तदुपपत्तेः = अनन्तगोचरसाक्षात्कारस्य सङ्गतेः । उक्तसिद्धिषु पातञ्जलाऽभिमतसंयमस्य व्यतिरेकव्यभिचारोऽपि स्फुट एव, तथाविधरसायनाधुपभोगेन सामान्यमनुष्यस्याऽप्यन्तर्धान-रूपपरिवर्तनादिकं सम्भवति, पादलेपादिनाऽपि जलोपरि भूमाविवाऽस्खलितવર્યાન્તરાય કર્મના ક્ષયોપશમ વગેરેને લાવવા દ્વારા જ કારણ બની શકે છે. તે તે વિષયોનું જ્ઞાન મેળવવાના પ્રણિધાનરૂપ સંયમ કાંઈ ઉપરોક્ત સિદ્ધિઓનું કારણ બનતું નથી. કારણ કે પાતંજલ સિદ્ધાન્ત મુજબ ત્રણ કાળના અનંત વિષયોનું જ્ઞાન ધારણા-ધ્યાન-સમાધિની એકાગ્રતાસ્વરૂપ સંયમથી સાધી શકાતું નથી. આનું પણ કારણ એ છે કે સૈકાલિક-સર્વક્ષેત્રીય દરેકે દરેક વિષયો ઉપર ધારણા-ધ્યાન-સમાધિની એકાગ્રતારૂપ સંયમ અલ્પજીવી માણસ ક્યારેય પણ કરી ન શકે. તથા અનંત કાળ સુધી કોઈ માણસ જીવી શકે નહિ. હા, માત્ર શાસ્ત્રવિહિત અનુષ્ઠાનોને વિશે પ્રણિધાન કરવા સ્વરૂપ સંયમથી જ મોહનીય કર્મનો ક્ષય થવાથી અનન્ત વિષયોનું સ્પષ્ટ જ્ઞાન થઈ શકે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354