Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 343
________________ १८३४ • इदानीन्तनप्रायश्चित्तफलमीमांसा • द्वात्रिंशिका-२६/२४ २०४६) इति वचनात् । सोऽपूर्वकरणोदयं उत्तमं योगं धर्मसंन्यासलक्षणं अभिप्रेत्य, न तु यत्किञ्चित्तप इति द्रष्टव्यम् । तत्त्वमत्रत्यं अध्यात्मपरीक्षादौ विपञ्चितम् ।।२४।। अणियाणस्स विहिए तवस्स तवियस्स किं पसंसामो ?। किज्जइ जेण विणासो निकाईयाणं पि कम्माणं ।। - (त.क.१०) इति तपःकुलकवचनमपि स्मर्तव्यम् । सः = निकाचितकर्मक्षयः अपूर्वकरणोदयं = अपूर्वकरणाऽभिधानाऽष्टमगुणस्थानकभाविनं धर्मसंन्यासलक्षणं उत्तमं योगं = सामर्थ्ययोगं अभिप्रेत्य ज्ञेयः; न तु यत्किञ्चित् तपः अभिप्रेत्य इति । एतेन → तीव्रेण तपसा पुनः निकाचितान्यपि कर्माण्युपक्रम्यन्त एव 6 (वि.आ.भा.२०४६ वृ.) इति विशेषावश्यकभाष्यवृत्तिवचनमपि व्याख्यातम् । ननु निकाचितं नाम भोगं विना क्षपणाऽयोग्यम् । तस्य कथं तपसा क्षयः इति चेत् ? न, उपशमनादिकरणान्तराऽविषयस्यैव नितरां बद्धस्य निकाचिताऽर्थत्वात् । तादृशस्य च कर्मणो दृढतरप्रायश्चित्तपरिशीलनोदिताध्यवसायातिरेकप्रसूतैकश्रेण्यारोहौपयिकाऽपूर्वकरणगुणस्थानजनिताऽपूर्वाध्यवसायैः स्थितिघातादिभिरेव परिक्षयसम्भव इत्येवं अध्यात्ममतपरीक्षावृत्तौ = अध्यात्मपरीक्षादौ (गा.१०१) ग्रन्थकृता अत्रत्यं तत्त्वं विपञ्चितं एकोत्तरशततमगाथाविवरणे । तदुक्तं श्रीहरिभद्रसूरिभिरपि प्रायश्चित्तविधिप्रतिपादके पञ्चाशके → एएण पगारेणं संवेगाऽइसयजोगओ चेव । अहिगयविसिट्ठभावो तहा तहा होइ नियमेण ।। तत्तो तब्विगमो खलु अणुबंधावणयणं व होज्जाहि । जइय अपुव्वकरणं जायइ सेढीय विहियकला ।। एवं निकाइआण वि कम्माणं भणियमेत्थ खवणंति । तंपि य जुज्जइ एयं तु भावियव्वं अओ एयं ।। 6 (पञ्चा.१६/३३-३४-३५)। अत्र पञ्चाशकवृत्तौ → एवं = अनेनैव न्यायेनाऽपूर्वकरणश्रेणिजननरूपेण निकाचितानामपि = उपशमनादिकरणान्तराऽविषयत्वेन नितरां बद्धानामपि, आस्तामनिकाचितानां कर्मणां ज्ञानावरणादीनां भणितं = उक्तं आगमे 'तवसा उ निकाइआणं पि' (वि.आ.भा. २०४६) इति वचनात् । अत्र = प्रायश्चित्तरूपशुभभावे क्षपणं = सर्वथा क्षयो भवति, अनिकाचितक्षपणं तु निर्विचारमिति ‘अपि च'शब्दार्थः, युज्यते = सङ्गच्छते । ततश्च एवं तु = एवमेव कर्मबन्धकर्मानुबन्धाऽपनयनहेतुत्वेनैव भावनीयं = पर्यालोचनीयं अतः = निकाचितकर्मबन्धक्षपणहेतुत्वाच्छुभभावरूपं प्रायश्चित्तम् - (पञ्चा.१६/३५ वृत्ति) इति व्याख्यानादुन्नीयते यत् तादृशाऽध्यवसायविशेषरूपस्य द्वितीयापूर्वकरणस्य शुक्लध्यानाख्यस्य वा तीव्रतपसो निकाचितकर्मक्षयहेतुत्वं । ततश्च निकाचितकर्मक्षयकृते कायव्यूहकल्पनं 'पद्भ्यां पलायितुं पारयमाणो नैव जानुभ्यां रंहितुमर्हतीति न्यायेनाऽसङ्गतमेव । यथा चैतत् तथा भावितमेव पूर्वं क्लेशहानोपायद्वात्रिंशिकायां (द्वा.द्वा.२५/३१ पृ.१७६८) इति नेह पुनः तन्यते । __ नन्वेवमिदानीन्तनप्रायश्चित्तानामपूर्वकरणमकुर्वतां कथं निकाचितकर्मक्षपकत्वम् इति चेत् ? इदानीन्तनचारित्रस्य मोक्षजनकत्वमिव साक्षान्न कथञ्चित्, परम्परया तु तद्वदेव सम्भवीति सम्भावय । જણાવેલ છે તે અપૂર્વકરણ વખતે આઠમા ગુણસ્થાનકે ઉદયમાં આવનાર ઉત્તમ ધર્મસંન્યાસયોગને આશ્રયીને સમજવું. પણ ગમે તે તપને આશ્રયીને ન સમજવું. –આ બાબત ધ્યાનમાં રાખવી. આ બાબતમાં વિસ્તારથી તાત્ત્વિક વાતને જાણવી હોય તો ગ્રંથકારશ્રીએ બતાવેલ અધ્યાત્મમતપરીક્ષા વગેરે ગ્રંથની ટીકા જોવી.કારણ કે ત્યાં આ બાબતનું વિસ્તારથી પ્રતિપાદન ગ્રંથકારશ્રીએ કરેલ છે.(૨૬/૨૪) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354