Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• 'ज्ञानयोगः तपः शुद्धम्' मीमांसा •
प्रवृत्तिस्तु तत्र कर्मबन्ध-कर्माऽनुबन्धाऽपनयनार्थितयैवेति नाऽनुपपत्तिः । एतेन तद्भवयोग्यनिकाचितकर्मणो भोगादेव क्षये किमर्थं तत्र प्रवृत्तिः ? इत्यपास्तम्, निकाचितानामपि बहुकालस्थितीनां ज्ञानावरणीयादीनां क्षयाय तत्र प्रवृत्तेरिति ( अ.प.वृ. १०१/पृ.२८६) अध्यात्मपरीक्षावृत्तौ व्यक्तमुक्तं ग्रन्थकृता ।
१८३५
तदुक्तं अध्यात्मसारेऽपि आत्मनिश्चयाऽधिकारे
कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् ।। अज्ञानी तपसा जन्मकोटिभिः कर्म यन्नयेत् । अन्तं ज्ञानतपोयुक्तः तत् क्षणेनैव संहरेत् ।। ज्ञानयोगस्तपः शुद्धमित्याहुर्मुनिपुङ्गवाः । तस्मान्निकाचितस्याऽपि कर्मणो युज्यते क्षयः || यदिहाऽपूर्वकरणं श्रेणिः शुद्धा च जायते । ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् ।।
← (अ.सा. १८/१६१-१६४ ) इति । तत्रैव च योगाधिकारे ग्रन्थकृता
ज्ञानयोगः तपः शुद्धमाऽऽत्मरत्येकलक्षणम् । इन्द्रियाऽर्थोन्मनीभावात् स मोक्षसुखसाधकः ।। न परप्रतिबन्धोऽस्मिन् अल्पोऽप्येकात्मवेदनात् । शुभं कर्माऽपि नैवाऽत्र व्याक्षेपायोपजायते ।। ← (अ.सा.१५/५-६) इत्येवं ज्ञानयोगस्वरूपमावेदितम् । प्रकृते संज्ञानयोगघटितं शमिनां तपोऽपि श्रेण्याश्रयादिह निकाचितकर्महन्तृ । बाह्यं तपः परमदुश्चरमाचरध्वमाध्यात्मिकस्य तपसः परिबृंहणार्थम् ।। ← ( न्या. खं. ९८ ) इति न्यायखण्डखाद्यकारिकाऽपि स्मर्तव्या ।
प्रकृते द्वितीयाऽपूर्वकरणकालीनधर्मसंन्यासाऽभिधानसामर्थ्ययोग-प्रातिभज्ञानाभ्यां सम्भूय निकाचितघातिकर्मनाशकत्वमवसेयम् । एतेन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ← (भ.गी. ४ /३७) इति पूर्वोक्तं(पृ.१७६९) भगवद्गीतावचनमपि व्याख्यातम्, ज्ञानपदस्य विद्याऽपराऽभिधान-प्रातिभज्ञानपरत्वात् ।
एतेन विद्या तु तत्त्वज्ञानम्, साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचराऽतिक्रान्तत्वात् तत्त्वज्ञानविषयाऽनन्तात्मकैकपरमार्थस्य ← ( द्वा.न. च. भाग - १ पृष्ठ. ३००) इति द्वादशारनयचक्रवचनमपि व्याख्यातम्। तद्वृत्तौ श्रीसिंहसूरिगणिक्षमाश्रमणाः → आगमाऽभ्यासात् तु सम्यग्दर्शन-ज्ञान-चारित्रतपोविशेषविशेषिताऽविद्यस्य सर्वभावविषया विद्या स्वयमेव सर्वात्मनैवोपावर्तते, नाऽविद्यमाना कुतश्चिदानीयते । सा चाऽनागमविकल्पा ← ( द्वा.न.च.वृ. पृष्ठ. ३०१ ) इति व्याचक्षते ।
ततश्च घातिकर्मविगमेनाऽऽत्मा सर्वज्ञः सम्पद्यते । तदा तुरीयं चैतन्यमभिव्यज्यते । तत् पुनः तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्यवस्थाविलक्षणं आत्मस्वतत्त्वम् । स एव परमात्मा विमुक्तः सर्वज्ञो व्याख्यातः ← ( द्वा.न.च.भाग - १ पृष्ठ २१९) इति द्वादशारनयचक्रे श्रीमल्लवादिसूरयः । तुरीयावस्था पुनरेकस्वरूपैव विशुद्धत्वात् । अथवा साऽपि स्वरूपसामर्थ्यात् सर्वात्मनैवाऽनेकधा विपरिवर्तते, तद्यथा जं जं जे जे भावे परिणमइ पओग-वीससादव्वं । तं तह जाणाति जिणो अपज्जवे जाणणा नत्थि ।। ← ( आ.नि. ७९४ ) इति आवश्यकनिर्युक्तिसंवादेन श्रीसिंहसूरिगणिक्षमाश्रमणैः द्वादशारनयचक्रवृत्तौ दर्शितमित्यवधेयम् ।
केवलज्ञानोत्तरमघातिकर्मणां क्षयः समुद्घात- चरमशुक्लध्यानद्वयरूपाऽवस्थाविशिष्टज्ञानरूपयोगादेवाऽवगन्तव्यः । इदमेवाऽभिप्रेत्य शास्त्रवार्तासमुच्चये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354