Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 270
________________ • अर्थसमाजसिद्धत्वस्वरूपोपदर्शनम् • अन्यत् समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं चरमत्वं नाऽर्थवत् ज्ञानजन्यतावच्छेदकं, 'आर्थादेव समाजात्तदुपपत्तेः । १७६३ = न तत्त्व कत्वात् । तदुक्तं उदयनाचार्येण किरणावल्यां व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ।। ← ( किर. द्रव्यत्वसिद्ध पृ. ९६) । = = ननु माऽस्तु चरमत्वस्य जातित्वम्, सखण्डोपाधित्वं तु सोपाख्यतया स्यादिति चेत् ?, मैवम्, समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं सखण्डोपाधिरूपं चरमत्वं न = नैव तत्त्वज्ञानजन्यताSवच्छेदकं स्यात्, आर्थादेव समाजात् नानासामग्रीबलादेव तदुपपत्तेः चरमदुःखे तादृशचरमत्वसङ्गतेः । यदुःखोत्पादानन्तरं दुःखान्तरसामग्री नास्ति तस्यैव दुःखस्याऽनायासेन चरमत्वमुपपत्स्यते । चरमत्वनिरुक्तौ अचरमदुःखवारणाय प्रागभावाऽसमानकालीनत्वग्रहणम्, चैत्रीयचरमदुःखस्याऽपि सर्वमुक्त्यनभ्युपगमे यज्ञदत्तदुःखप्रागभावसमानकालीनत्वेनाऽसम्भववारणाय समानाधिकरणेति पदम् । चैत्रीयचरमदुःखेऽपि स्वसमानाधिकरणदुःखध्वंससमानकालीनत्वेन पुनरसम्भववारणाय 'प्रागिति पदम् । परं दुःखान्तरजननसामग्रीविरहेणैव चरमदुःखे स्वसमानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वं सम्पद्यते इति न तत्र तत्त्वज्ञानस्य प्रयोजकत्वम् । इत्थमर्थसमाजसिद्धत्वेन चरमत्त्वस्य तत्त्वज्ञानकार्यताऽनवच्छेदकत्वमेव । अर्थसमाजसिद्धत्वं च स्वघटकतत्तद्धर्मावच्छिन्नोत्पादकसामग्रीसमुदायसिद्धत्वं स्वप्रयोजकसामग्रीप्रयोज्यतत्तद्धर्माऽवच्छिन्नघटितत्वं वा बोध्यम् । ततश्च घटत्वं यदि किञ्चिद्धर्माऽवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकं न स्यात्, कार्यमात्रवृत्ति न स्यादिति तर्कस्याऽऽपाद्यकोटावखण्डत्वप्रवेशे सत्येव व्याप्तिमूलकतया तस्य चाऽत्र प्रवृत्त्यसम्भवात् । अनन्यथासिद्धत्वे सतीति वाऽऽपाद्यकोटौ विशेषणम् । कार्येतराऽवृत्तित्वमाकस्मिकत्वञ्च तस्यान्यथैवोपपन्नं न कार्यताऽवच्छेदकत्वं साधयतीत्याशयः । यत्तु तत्त्वचिन्तामणिकृता दुःखान्तरध्वंसस्याऽयत्नसाध्यत्वेऽपि तादृशदुःखध्वंसस्य मिथ्याज्ञानोच्छेदद्वारा पुरुषप्रयत्नाऽधीनतत्त्वज्ञानसाध्यत्वात् । तथाहि तत्त्वज्ञानात्सवासनमिथ्याज्ञानाऽभावे दोषानुत्पत्तौ प्रवृत्त्यभावेऽदृष्टानुत्पत्तौ जन्माभावे तादृशदुःखध्वंसो भवति ← (त.चिं. अनुमानखण्ड भाग२ /मुक्तिवाद पृष्ठ-१५७) इति गदितं तन्न चारु, यतः चरमदुःखे उत्पन्ने तद्ध्वंसः तदनुभवादेव भविष्यति, तदनुत्पादे च तत्त्वज्ञानादपि न स्यादिति । एतेन प्रतियोगिवत् तत्त्वज्ञानस्याऽपि तद्धेतुत्वाद् तुल्यवदुभयोरपि कारणत्वात् तेन विना तदनुत्पत्तेः ← (त. चिं. अनु. भाग-२/मु.वा.पृ.१५७) इति तत्त्वचिन्तामणिकृद्वचनमपि निरस्तम्, अन्त्यदुःखे उपान्त्यदुःखस्यैव हेतुत्वेन तस्य तत्त्वज्ञानेनोत्पादयितुमशक्यतया तस्य तत्रान्यथासिद्धत्वात् । न हि नानासमग्रीसमुपनिपातसमनन्तरसमुपजाते कार्ये यद् वैशिष्ट्यं यस्य कस्याऽपि कार्यतावच्छेदकं भवितुमर्हति । * સખંડ ઉપાધિરૂપ ચરમત્વનો સ્વીકાર વ્યર્થ જૈન अन्यत्. । वणी, उपरोक्त सांडर्थना भयना सीधे नैयायिङ सोझे यरमत्वने अति३५ मानवाना पहले सड ઉપાધિસ્વરૂપ માને કે સમાનાધિકરણ દુઃખપ્રાગભાવનું અસમાનકાલીનત્વ એટલે ચરમત્વ માને તો તેવું માનવામાં કોઈ અર્થ સરતો નથી. કારણ કે તે અર્થસમાજથી જ સંગત થઈ જવાના લીધે તત્ત્વજ્ઞાનનું કાર્યતાઅવચ્છેદક બની શકતું નથી. તથા કાર્યગત તમામ ગુણધર્મોને જો કાર્યતાઅવચ્છેદક તરીકે માન્ય કરવામાં આવે તો १. मुद्रितप्रतौ 'अर्था...' इत्यशुद्धः पाठः । हस्तादर्शप्रत्यन्तरे 'अर्थो' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354