Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 282
________________ • वैयाकरण- बृहज्जाबालीयादिमतनिरासः • १७७५ ६७९) अधिकं न्यायखण्डखाद्ये । इति हेतोः निरुपक्रमकर्मणामेव = निकाचितत्वेनोपक्रमानर्हाणामेव कर्मणां भोगेकनाश्यत्वं केवलोपभोगजन्यध्वंसप्रतियोगित्वं आश्रयणीयम् । एतेन भोगेन मोक्षमाप्नुयात् ← (का.की.२) इति कामराजकीलितोद्धारोपनिषद्वचनमपि व्याख्यातम्, असङ्गभावेन स्वभूमिकौचित्यतो निकाचितकर्मफलभोगाऽपेक्षया तदुपपत्तेः । निकाचितत्वव्याख्या विशेषावश्यकभाष्यवृत्ती → गाढताऽध्यवसायेन बद्धत्वादपवर्तनादिकरणाऽयोग्यतां नीतं निकाचितमुच्यते ← (वि.आ.भा.२५१३ वृ.) इत्येवं श्रीहेमचन्द्रसूरिभिः रूढर्थत आवेदिता । व्युत्पत्त्यर्थपुरस्सरं विस्तरतः तद्व्याख्या तु 'कच बन्धने', नितरां कच्यते स्वयमेव बन्धमायाति कर्म जीवस्य तथाविधसंक्लिष्टाऽध्यवसायपरिणतस्य तत्प्रयुक्ते जीव एव तथाऽऽनुकूल्येन भवनात् ततः प्रयोक्तृव्यापारे णिञ्' (श्रीमल. आ. ६ - ५ ) । ततो निकाच्यतेऽवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा 'कच बन्धने' इति चौरादिकोऽप्यस्ति, ततो निकाच्यतेऽवश्यवेद्यतया निबध्यते यया कर्म सा निकाचना जीववीर्यपरिणतिः ← ( क.प्र.गा. २/ पृ. १७) इत्येवं कर्मप्रकृतिवृत्तौ श्रीमलयगिरिचरणैः दर्शितेत्यवधेयम् । प्रकृतग्रन्थकृतोऽपि कर्मप्रकृतिवृत्तावेवमेवाऽभिप्रायः । अत एव त्रिषष्टिशलाकापुरुषचरित्रे अपि नाऽलं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अप ← (त्रि.श.१०/६/४२२) इत्युक्तम् । अयमत्राशयः- अध्यवसायवैचित्र्यात् प्रथमत एव जीवा द्विप्रकारं कर्म बध्नन्ति, शिथिलपरिणामतया फलं प्रत्यनियतस्वरूपं सोपक्रमम्, अत्यन्तदृढपरिणामतयाऽवन्ध्यसामर्थ्यञ्च निरुपक्रमं निकाचिताऽपराभिधानम् । सोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रतीकारसहत्वात् प्रायश्चित्तादिलक्षणपरिशुद्धाज्ञायोगनाश्यत्वम् । तदुक्तं उपदेशपदे अणिययसहावमेयं सोवक्कमकम्मुणो सरूवं तु । परिसुद्धाऽऽणाजोगो एत्थ खलु होइ सफलो त्ति ।। ← (उप.पद. ३४० ) इति । वस्तुतः अपूर्वकरणभाविधर्मसंन्यासयोगेन निकाचितकर्मक्षय इति योगमाहात्म्यद्वात्रिंशिकायां ( द्वा. द्वा. २६/२४) वक्ष्यते । धर्मसंन्यासयोग - प्रायश्चित्त-भोग- तपः- तत्त्वज्ञानादीनामेकशक्तिमत्त्वेनैव कर्मनाशकता, लाघवादित्यवोचम भानुमतीनाम्यां न्यायालोकटीकायाम् । निकाचितानामपि कर्मणां तपसाऽपि नाश्यतेति वक्ष्यतेऽग्रिमद्वात्रिंशिकायाम् ( द्वा. द्वा. २६ / २४ पृ. १८३३) । वैयाकरणास्तु → ‘शब्दब्रह्मणि निष्णातः परं ब्रह्मादि गच्छति' ← (मै.७/२२, त्रिपु.५/१७,ब्र.बिं. १७, म.भा.शांति.२७०) इति मैत्रायण्युपनिषत् - त्रिपुरातापिन्युपनिषद् ब्रह्मबिन्दूपनिषद्-महाभारतादिवचनात् शब्दाSनुशासनशास्त्रस्य निःश्रेयससाधनत्वं साधयन्ति । तदुक्तं वाक्यपदीये भर्तृहरिणा तद् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविधं प्रचक्षते ।। ← ( वा. प. १/१४) इति । तदुक्तं पातञ्जलमहाभाष्ये अपि एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति' ← (पा.म.भा. १/१/१) इति । ततश्च मुमुक्षुणा अन्यत् सर्वं परिहृत्य शब्दानुशासने एव कार्त्स्न्येन यतितव्यमित्याहुः, तन्न, अन्तःकरणस्य मलिनत्वे शतशोऽपि सहस्रशोऽपि वा सम्यक्शब्दप्रयोगे सुराબદલે ‘નિકાચિત કર્મો ભોગવવાથી જ નાશ પામે' તેવો નિયમ સ્વીકારવો વધુ વ્યાજબી છે. જે કર્મો હઠીલા હોય, નિકાચિતપણે બાંધેલા હોય, સ્વવિપાકોદય દેખાડ્યા વિના રવાના થાય તેમ ન જ હોય Jain Education International For Private & Personal Use Only www.jainelibrary.org =

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354