Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 306
________________ • मनःस्थयापायकथनम् . १७९७ षोळयो (=क्षुत्तुडव्ययः) भवति। घण्टिकाश्रोतःप्लावनात्तृप्तिसिद्धेः । तदुक्तं- 'कण्ठकूपे क्षुत्पिपासानिवृत्तिः' (यो.सू.३-३०) । कूर्मनाड्यां कण्ठकूपस्याऽधस्ताद्वर्तमानायां संयमात् अचापलं भवति, मनःस्थैर्यसिद्धेः । तदुक्तं- "'कूर्मनाड्यां स्थैर्यमिति” (यो.सू.३-३१) ।। ____ मूर्धज्योतिर्नाम गृहाऽभ्यन्तरस्य मणेः प्रसरन्ती प्रभेव कुम्भिकादौ प्रदेशे, हृदयस्थ एव सात्त्विकः प्रकाशो ब्रह्मरन्ध्र सम्पिण्डितत्वं भजन् तत्र (= मूर्धज्योतिषि) संयमाच्च सिद्धानां दर्शनं = गर्ताकारः प्रदेशः यत्र प्राणादेः सङ्घर्षात् क्षुत्पिपासादयः प्रादुर्भवन्ति तत्र संयमात् साक्षात्कृते कृतसंयमस्य योगिनः क्षुत्तृषोः = बुभुक्षा-पिपासयोः व्ययः = उपरमो भवति, घण्टिकाश्रोतःप्लावनात् = घण्टिकाऽधस्तात् स्रोतसा धार्यमाणात् भावितात् ततः तृप्तिसिद्धेः । तदुक्तं योगसूत्रे पतञ्जलिना ‘कण्ठकूप' इति । अत्र योगसूत्रभाष्यं → जिह्वाया अधस्तात् तन्तुः । ततोऽधस्तात् कण्ठः । ततोऽधस्तात् कूपः तत्र संयमात् क्षुत्पिपासे न बाधेते (यो.सू.भा.३/३०) इत्थं वर्तते । जिह्वा-ऽधःस्थस्य तन्तोः मूलादारभ्य उरःपर्यन्तं छिद्रं = कण्ठकूपः = कूपाऽऽकारश्छिद्रमिति विज्ञानभिक्षुः।। ___मनःस्थैर्यसिद्धौ योगसूत्रसंवादमाह- 'कूर्मेति । अत्र राजमार्तण्डवृत्तिः → कण्ठकूपस्याऽधस्ताद् या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः - (रा.मा. ३/३१) इत्येवं वर्तते । 'कुण्डलीसर्पवदवस्थिततया कूर्माकारं हृदयपुण्डरीकाख्यं नाडीचक्रम्' (भा.ग.३/३१ वृ.) इति भावागणेशः । तदुक्तं शाण्डिल्योपनिषदि अपि → कण्ठकूपे क्षुत्पिपासानिवृत्तिः । कूर्मनाड्यां स्थैर्यम् - (शां.१/६९) इति । सिद्ध्यन्तरमाह- 'मूर्धे'ति । 'मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते' (त.वै.३/३२) इति वाचस्पतिमिश्रः । 'शिरःकपालमध्ये अन्तश्छिद्रं = छिद्रस्याऽन्तः प्रभास्वरं स्वप्रकाशकं ज्योतिरस्ती'ति योगवार्तिके विज्ञानभिक्षुः (यो.वा.३/३२) । 'शिरःकपालयोः छिद्रं ब्रह्मरन्ध्राऽऽख्यं सुषुम्नायोगाद् भास्वरं मूर्धज्योतिः' (यो.सुधा.३/ ३२) इति योगसुधाकरे सदाशिवेन्द्रः । 'शिरःकपाले यत् छिद्रं ब्रह्मरन्ध्राख्यं सुषुम्नायोगात् हृदयस्थात् चित्तमणिप्रभायोगाच्च भास्वरं मूर्धज्योतिः' (म.प्र.३/३२) इति मणिप्रभाकृत् । છે. તેને વિશે સંયમ કરવાથી ભૂખ-તરસ રવાના થાય છે. કારણ કે કંઠકૂપસંયમથી ગળામાં રહેલી ઘંટિકા શ્રોતનું પ્લાવન ઝરણ થવાથી તૃપ્તિ થઈ જાય છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે – “કંઠકૂપમાં સંયમ કરવાથી ભૂખ-તરસ રવાના થાય છે.” ૯ કંઠકૂપની નીચેના ભાગમાં કૂર્મ નાડી રહેલી છે. તેને વિશે સંયમ કરવાથી મનની ચપળતા દૂર થાય છે. કારણ કે કૂર્મનાડી સંયમથી મનની સ્થિરતા સિદ્ધ થાય છે. તેથી योगसूत्रमा ४८ छ ? → 'दूर्भनाम संयम ४२वाथी भनमा स्थैर्य उत्पन्न थाय छे.' - ઘરની અંદર જ રહેલા મણિની પ્રભા જેમ કુંભિકા (= કુંભ રાખવાનું સ્થાન = પાણીયારા) વગેરે સ્થાનમાં ચોતરફ ફેલાય છે તેમ હૃદયના જ ભાગમાં રહેલો સાત્ત્વિક પ્રકાશ ફેલાતો-ફેલાતો બ્રહ્મરન્દ્રમાં ભેગો થાય તે મૂર્ધજ્યોતિ કહેવાય છે. બ્રહ્મજ્યોત, મસ્તકજ્યોત વગેરે નામથી પણ તે ઓળખાય છે. તેને વિશે સંયમ કરવાથી સિદ્ધોનું દર્શન થાય છે - એમ કહેવાયેલ છે. કહેવાનો ભાવ એ છે કે સ્વર્ગ અને પૃથ્વીની વચ્ચે રહેલા १. हस्तादर्श 'कू' वर्णो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354