Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१८०८
पञ्चविधवायुस्वरूपद्योतनम्
द्वात्रिंशिका - २६/१३
संयमेन वशीकारान्निरावरणस्याऽग्नेरूर्ध्वगत्वात् धाम तेजः तरणिप्रतापवदवभासमानमाविर्भवति, येन योगी ज्वलन्निव प्रतिभाति । यदुक्तं- “समानजयाज्ज्वलनः (म्) ” ( यो.सू.३-४०) ।
"
=
उदानस्य कृकाटिकादेशादाशिरोवृत्तेर्जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वसिद्धेः अबादिना व्यवस्थितस्येति । 'समं सर्वनाडीषु रसानां सञ्चरणात्समानः प्राणभेदः' (भा.ग.३/४० वृ.) इति भावागणेशः । ' आहृदयाद् आनाभिस्थितः = समानः' (यो. सुधा. ३/४० ) इति योगसुधाकरोक्तिः । योगचूडामण्युपनिषदि तु समानो नाभिदेशे ← (यो. चूडा. २४) इत्युक्तम् । → सर्वगात्रेषु सर्वव्यापी = समानः ← (शां. १/१५) इति तु शाण्डिल्योपनिषदि श्रूयते । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि अपि → समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः ← (त्रि.शि.८० ) इति । जाबालदर्शनोपनिषदि अप → समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ← ( जा. द. ४ / २९) इत्युक्तम् । योगसूत्रसंवादमाह - 'समाने 'ति । ‘नाभिनिकटस्थाऽग्निव्यापिनः समानस्य वशीकाराद् अग्नेः ज्वलनं भवति येन ज्वलन्निव दृश्यते' (म.प्र. ३ /४०) इति मणिप्रभाकृत् । जितसमान: तेजस उपध्मानं कृत्वा ज्वलति ← (यो. भा. ३/४०) इति योगसूत्रभाष्यकारः । 'उपध्मानं उत्तेजनं कृत्वा ज्वलति = सतीवत् स्वशरीरं दहती 'ति ( यो. वा. ३/४०) योगवार्तिककृत् । मैत्रायण्युपनिषदि योऽयं स्थविष्ठो धातुरन्नस्यापाने प्रापयति अणिष्ठो वाऽङ्गेऽङ्गे समानयत्येष वाव स समानसंज्ञा ← (मैत्रा.२/५) इत्येवं समानाख्यवायुस्वरूपमावेदितम् । → स्वयं प्रातिष्ठते मध्ये तु समानः । एवं ह्येतद्भुतमन्नं समं नयति ← (प्रश्नो ३ । ५) इति प्रश्नोपनिषदुक्तिः । तथा रसाद्यूर्ध्वनयनादूर्ध्वगतिप्रदत्वाच्चोर्ध्वसञ्चारी प्राणाऽवान्तरभेद उदान उच्यते । तदुक्तं मैत्रायण्युपनिषदि योऽयं पीताऽशितमुद्गिरति निगिरतीति वैष वाव उदान: ← (मैत्रा . २ / ६) इति । योगचूडामण्युपनिषदि तु उदानः कण्ठमध्यगः ← ( यो. चू. २४ ) इत्युक्तम् । शाण्डिल्योपनिषदि तु → सर्वसन्धिस्थ उदानः पाद-हस्तयोः ← ( शां. १/१५ ) इत्येवं तल्लक्षणमुक्तमित्यवधेयम् । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि अपि उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि ← ( त्रि.शि.८० ) इति । जाबालदर्शनोपनिषदि अपि उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ← ( जा. द. ४ / २९) इत्युक्तम् । → तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ← (प्रश्नो ३ । ९) इत्यादिकं प्रश्नोपनिषदो विज्ञेयम् । → या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वंगा सुषुम्नाऽऽख्या नाडी, तयैकयोर्ध्वः सन् उदानो वायुरापादतलमस्तकवृत्तिः ← (प्र.उप.भा. ३ / ७) इति प्रश्नोपनिषद्भाष्ये उदानवायुस्वरूपमवर्णि शङ्कराचार्येण । → देहस्योन्नयनादिकमुदानकर्म ← ( शां. १ / ३ ) इति तु शाण्डिल्योपनिषत्कारः । तस्य उदानस्य कृकाटिकादेशाद् आशिरोवृत्तेः संयमविशेषेण जयात् । तत्त्ववैशारद्यां वाचस्पतिमिश्रस्तु અગ્નિ ઉપરનું વાયુનું આવરણ દૂર થાય છે. તેથી નિરાવરણ બનેલ અગ્નિ ઊર્ધ્વગતિ કરે છે. તેના કારણે યોગીના શરીરમાં સૂર્યપ્રકાશની જેમ ચમકતું તેજ પ્રગટે છે. તેના લીધે યોગી જાણે સળગતા હોય તેવા લાલચોળ લાગે છે. માટે જ યોગસૂત્રમાં જણાવેલ છે કે → ‘સમાન વાયુના જયથી અગ્નિ જેવા લાલચોળ થવાય છે.’ ગળાની ઘંટી ગલઘંટી સ્થળથી (=ડોક અને માથાની સંધિના પાછલા ભાગથી) માંડીને મસ્તક સુધી વ્યાપીને રહેલો વાયુ ઉદાન કહેવાય છે. ઉદાન વાયુના જયથી બીજા વાયુનો પ્રતિરોધ થવાથી
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
•
•
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354