Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१८१८
• आमर्शादिलब्धिस्फोरणम् . द्वात्रिंशिका-२६/१५ जायते । न ह्यस्य रूपमग्निर्दहति, न वाऽऽपः क्लेदयन्ति, न वा वायुः शोषयतीति । तदिदमुक्तं"ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्चेति” (यो.सू.३-४५) ।।१५।। . सकलविषयसंयमफलवत्त्वज्ञापनायेति (त.वै.३/४६) वाचस्पतिमिश्रः । मण्डलब्राह्मणोपनिषदि. तु → तालुमूलोज़भागे महाज्योतिर्विद्यते। तद्दर्शनादणिमादिसिद्धिः - (मं.बा.१/३) इत्येवमणिमादिसिद्ध्युपायः प्रदर्शितः । योगशिखोपनिषदि खेचरीयोगमाहात्म्यनिरूपणाऽवसरे → अणिमादिकमैश्वर्यमचिरादेव जायते 6 (यो.शि.२/७) इति यदुक्तं तदप्यत्र यथातन्त्रमनुयोज्यम् । रामगीतायां तु → अणिमा महिमा मूर्तेर्गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वमिन्द्रियश्रुतशक्तिभिः ।। गुणाऽसङ्गो वशित्वञ्चेत्येवमष्टविभूतयः । - (रा.गी.१६।३८-३९) इत्येवमणिमादिविभूतयो दर्शिता इत्यवधेयम् । → अणिमा महिमा चैव लधिमा गरिमा तथा । प्राप्तिः प्राकाश्यमीशित्वं वशित्वं चाऽष्टसिद्धयः ।। - (मान.१०/८) इति मानसोल्लासे सुरेश्वराचार्यः । __ भागवतेऽपि → अणिमा महिमा चैव लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतिदृष्टेषु शक्तिप्रेरणमीशिता ।। गुणेष्वसङ्गो वशिता यत्कामः तदवस्यति - (भाग.११/१५-४-५) इत्येवं अणिमादिनिर्देशो लभ्यते । ___योगसारसङ्ग्रहे → स्वेच्छयाऽणुपरिमितशरीरो भवतीत्यणिमा । एवं महिमा । लघिमा तु गुरुतरशरीरोऽपि तूलादिवल्लघुर्भवति येनाऽऽकाशादिषु सञ्चरति । इन्द्रियैः प्राप्तिस्तु भूमिष्ठ एवाऽगुल्या चन्द्रमसं स्पृशतीत्यादिरूपा। प्राकाम्यं च श्रुतदृष्टेषु स्वर्गादिषु जलादिषु च गत्यप्रतिबन्धः । ईशिता च शक्तीनां भूत-भौतिकानां स्वेच्छया प्रेरणम् । वशिता = भूत-भौतिकानां शक्तिप्रतिबन्धसामर्थ्य स्वस्य च तदवशत्वम् । यत्रकामाऽवसायित्वसंज्ञा त्वष्टमी सिद्धिः, विषस्याऽपि स्वेच्छयाऽमृतीकरणसामर्थ्यममृतस्याऽपि विषीकरणसामर्थ्यमित्यादिरूपा - (यो.सा.सं.३/पृष्ठ-५८) इत्येवमणिमाद्यष्टसिद्धयो व्याख्याताः । → अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, ईशित्वं, वशित्वं, यत्रकामावसायित्वं चाष्टावैश्वर्यगुणाः । तेषामणिमा-महिमा-लघिमानः त्रयः शारीराः । प्राप्त्यादयः पञ्च ऐन्द्रियाः - (दे.स्मृ. २४१२-१३-१४) इति तु देवलस्मृतौ ।।
तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकास्तु → संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तप्रहीणार्त्त-रौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति । तद्यथा- आमभॊषधित्वं विप्रुडौषधित्वं सर्वौषधित्वं शापाऽनुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानं अणुत्वम् । अणिमा विसच्छिद्रमपि प्रविश्याऽऽसीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिभूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखर-भास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमज्जेदुन्मज्जेच्च
(त.सू.१०/७ भा.) इति निरूपयन्ति ।
योगशास्त्रवृत्तौ श्रीहेमचन्द्रसूरयः → अणुत्वं = अणुशरीरविकरणम्, येन विसच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि भुङ्क्ते । महत्त्वं = मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि શોષણ કરી શકતો નથી. તેથી તો યોગસૂત્ર ગ્રંથમાં કહેલ છે કે – “ભૂતવિજયથી અણિમાદિ લબ્ધિઓ પ્રગટે છે. કાયસંપત્તિ મળે છે તથા કાયાના ગુણધર્મોનો નાશ થતો નથી.” ૯ (૨૬/૧૫)
વિશેષાર્થ:-અણિમાદિઆઠલબ્ધિઓમાંથી પ્રારંભની ચારલબ્ધિઓસ્થૂલભૂત સંયમના કારણે મળે છે. સ્વરૂપસંયમના કારણે પ્રાકામ્ય લબ્ધિ, અન્વયસંયમના લીધે ઈશવલબ્ધિ, સૂક્ષ્મસંયમના લીધે વશિત્વલબ્ધિ, અર્થવત્વસંયમના લીધેયત્રકામાવસાયિત્વલબ્ધિ પ્રગટેછે. આવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354