Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 328
________________ • इन्द्रियजयहेतुवर्णनम् • १८१९ संयमाद् ग्रहणादीनामिन्द्रियाणां जयस्ततः । मनोजवो 'विकरणभावश्च प्रकृतेर्जयः ।।१६।। संयमादिति । ग्रहणादयो ग्रहणस्वरूपाऽस्मिताऽन्वयाऽर्थवत्त्वानि । तत्र ग्रहणं = इन्द्रियाणां विषयाऽभिमुखी वृत्तिः । स्वरूपं = सामान्येन प्रकाशकत्वम्। अस्मिता = अहङ्कारानुगमः । लघुतरशरीरता । गुरुत्वं = वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैः दुःसहता । प्राप्तिः = भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्वताग्र-प्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यं = अप्सु भूमाविव प्रविशतो गमनशक्तिः तथा अप्सु इव भूमावुन्मज्जन-निमज्जने । ईशित्वं = त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं = सर्वजीववशीकरणलब्धिः । अप्रतिघातित्वं = अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्धानं = अदृश्यरूपता । कामरूपित्वं = युगपदेव नानाकाररूपविकरणशक्तिः - (यो.शा.१/८ वृ.) इत्येवमणिमादिस्वरूपमुपदर्शितवन्तः । इत्थमेव तदनुसारेण शब्दशः प्रवचनसारोद्धारवृत्तौ तत्त्वज्ञानविकाशिन्यां (प्र.सारो.१४९५ वृ.) श्रीसिद्धसेनसूरिभिः तत्स्वरूपमवर्णि इत्यवधेयम् । ___ बौद्धानामपि सम्मतमिदम् । मज्झिमनिकाये आकाक्ष्यसूत्रे → आकर्खय्य चे, भिक्खवे, भिक्खुअनेकविहितं इद्धिविधं पच्चनुभवेय्यं-एकोपि हुत्वा बहुधा अस्सं, बहुधापि हुत्वा एको अस्स; आविभावं, तिरोभावं; तिरोकुटुं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छेय्यं, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करेय्यं, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छेय्यं, सेय्यथापि पथवियं; आकासेपि पल्लङ्घन कमेय्यं, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिम-सूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसेय्यं परिमज्जेय्यं; याव ब्रह्मलोकापि कायेन वसं वत्तेय्य'न्ति 6 (म.नि.११६६८) इत्यादिकं यदुक्तं तदत्राऽनुसन्धेयम् । साश्रव-सोपधिकानार्यसिद्धिगोचरः पूर्वोक्तः (द्वा.द्वा.२६/११/पृ.१८०४) दीघनिकायसंवादोऽप्यत्र स्मर्तव्यः । तत्त्वसङ्ग्रहपञ्जिकायां (त.सं.३२०५ पं.) कमलशीलेनापि अणिमाद्यष्टविधैश्वर्यमवर्णीत्यवधेयम् । चित्तस्य स्वाऽऽयत्तत्वमेतादृशीनामृद्धीनामुपाय इति सौगतमतम् । तदुक्तं संयुत्तनिकाये → चित्तस्मिं वसीभूतम्हि इद्धिपाद सुभाविता - (सं.नि.१/५/५) इति ।।२६/१५।। __ ग्राह्यसंयमस्य सिद्धय उक्ताः । सम्प्रति ग्रहणसंयमस्योच्यन्ते- 'संयमादिति । तत्र = ग्रहणादिषु पञ्चसु मध्ये ग्रहणं = गृहीतिः = इन्द्रियाणां विषयाऽभिमुखी वृत्तिः = आलोचनं विषयाऽऽकारपरिणामविशेषः चिन्ताऽवधारणाऽभिमान-संशयरूपाद् अन्तःकरणानामसाधारणवृत्तिचतुष्काद् विलक्षणो दर्शन-स्प निनामा । यद्यपि सोऽपि स्मरणाऽनुरोधेनाऽन्तःकरणस्यैव तथापि चक्षुराधुपष्टम्भेनैव भवतीति कृत्वा दर्शनादिः चक्षुरादीनामुच्यते (यो.वा.३/४७ पृष्ठ-३७५) इति योगवार्तिके विज्ञानभिक्षुः । अन्वयार्थवत्त्वे द्वे प्रागुक्तलक्षणे पञ्चदशमकारिकाव्याख्यादर्शितरूपे । तत्पवैशाहीमा वायस्पतिभिश्र९॥छ. (२६/१५) ગાથાર્થ :- પ્રહણ વગેરેનું સંયમ કરવાથી ઈન્દ્રિયો ઉપર વિજય પ્રાપ્ત થાય છે. તથા તેનાથી મનોગતિ મળે છે. તથા વિકરણભાવ અને પ્રકૃતિનો જય પ્રાપ્ત થાય છે. (૨૬/૧૬) ટીકાર્ય - ગ્રહણ, સ્વરૂપ, અસ્મિતા, અન્વય અને અર્થવત્ત્વ-આ પાંચનો સંયમ કરવાથી યથાક્રમ શ્રોત્રાદિ પાંચેય ઈન્દ્રિયો ઉપર વિજય પ્રાપ્ત થાય છે. તેમાં ગ્રહણ એટલે ઈન્દ્રિયોની વિષયાભિમુખી વૃત્તિ. સ્વરૂપ એટલે સામાન્યથી પ્રકાશકતા. અહંકારનો અનુગમ એટલે અસ્મિતા. અન્વય અને અર્થવત્ત્વ-આ બેની વ્યાખ્યા પૂર્વે ૧૫ મી ગાથાની म. २८. छ. तथा योगसूत्रम छ ? → 'As!, १३५, अस्मिता, अन्वय भने अर्थक्त्वने विशे १. हस्तादर्श 'विकरणां...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354