Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• मधुमतीभूमिलाभे दिव्यामन्त्रणादि •
१८२३
असङ्गश्चाऽस्मयश्चैव स्थितावुपनिमन्त्रणे । बीजं पुनरनिष्टस्य प्रसङ्गः स्यात् किलाऽन्यथा ।। १९ ।।
असङ्गश्चेति । उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यस्रीरसायनाद्युपढौकनेन भोगनिमन्त्रणे असङ्गश्चाऽस्मयश्चैव स्थितौ बीजम् । 'सङ्गकरणे पुनर्विषय े प्रवृत्तिप्रसङ्गात् स्मयकरणे च कृतकृत्यमात्मानं मन्यमानस्य समाधावुत्साहभङ्गात् ।
अत्र योगसूत्रभाष्यं तु यदाऽस्यैवं भवति 'क्लेशकर्मक्षये सत्त्वस्याऽयं विवेकप्रत्ययो धर्मः, सत्त्वञ्च हेयपक्षे न्यस्तं पुरुषश्चाऽपरिणामी शुद्धोऽन्यः सत्त्वादि ति एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते तदैतेषां गुणानां मनसि कर्म-क्लेश-विपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां अप्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः = कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुषः ← (यो.भा.३/५०) इत्थं वर्तते । इत्थञ्च सकलसिद्धिगोचरविकल्पस्याऽपि त्याज्यतैव । प्रकृते → त्यक्त्वा सर्वविकल्पांश्च स्वात्मस्थं निश्चलं मनः । कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवाऽनलः । । ← ( का .गी.) इति कावषेयगीतावचनं त्यक्तसर्वविकल्पश्च स्वात्मस्थं निश्चलं मनः । कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवाऽनलः ।। ← ( ब्र.पु. ) इति ब्रह्मपुराणवचनं च स्मर्तव्यम्।।२६/१८।।
सम्प्रति कैवल्यसाधने सम्प्रवृत्तस्य योगिनः प्रत्यूहसम्भवे तन्निराकरणकारणं समाधौ च स्थित्युपायमुपदर्शयति- ‘असङ्गे’ति । उक्तसमाधिस्थस्य = मधुमतीभूमिं साक्षात्कुर्वतः सत्त्वगुणविशुद्धिमनुपश्यद्भिः देवैः महेन्द्रादिभिः दिव्यस्त्री - रसायनाद्युपढौकनेन आदिशब्दात् यान - कल्पवृक्षादिग्रह: 'भो ! इहाऽऽस्यताम्, इह रम्यताम्, कमनीयोऽयं भोगः, कमनीयेयं कन्या, दिव्यरसायनमिदं जरा - मृत्यू बाधते, वैहायसमिदं यानम्, अमी कल्पद्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूलाश्च अप्सरसः, दिव्ये श्रोत्र-चक्षुषी, वज्रोपमः कायः, स्वगुणैः सर्वमिदमुपार्जितमायुष्मता प्रतिपद्यताम्, इदमक्षयमजरममरस्थानं देवानां प्रियमि'त्येवं भोगनिमन्त्रणे क्रियमाणे सति 'घोरेषु संसाराऽङ्गारेषु पच्यमानेन मया जन्ममरणाऽन्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशी योगप्रदीपः । तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धाऽऽलोकः कथमनया विषयमृगतृष्णया वञ्चितः तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्याम् । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य' इत्येवं निश्चितमतेः समाधिं भावयतः असङ्गः, अस्मयश्च स्थितौ समाधिस्थितौ स्वरूपाऽवस्थितौ वा बीजम् । सङ्गकरणे पुनः पुनर्विषयप्रवृत्तिप्रसङ्गात् 'एवमहं देवानामपि प्रार्थनीय' इति स्मयकरणे च कृतकृत्यं सुस्थितं च आत्मानं मन्यमानस्य समाधौ उत्साहभङ्गात् । तथा च मृत्युना
=
ગાથાર્થ :- ઉપનિમંત્રણ થવા છતાં અસંગ અને અસ્મય- આ બન્ને સ્વરૂપસ્થિરતાને વિશે કારણ छे. जाडी तो परेजर इरीथी अनिष्टनो प्रसंग खावे. (२६ /१८)
ટીકાર્થ :- ઉપરોક્ત સમાધિમાં રહેલા યોગીને દેવો વગેરે દિવ્ય અપ્સરાઓ, રસાયણો વગેરે આપીને ભોગસુખનું નિમંત્રણ આપે તો પણ તેના પ્રત્યે અસંગ-અનાસક્તભાવ અને વિસ્મયઅભાવ રહે તો તે બન્ને સ્વરૂપમાં અવસ્થાન કરવાનું કારણ બને છે. જો તેમાં સંગ આસક્તિ કરે તો ફરી ફરી વિષયોના ભોગવટાની પ્રવૃત્તિ થાય. તથા વિસ્મય કરે - અભિમાન કરે તો પોતાની જાતને કૃતકૃત્ય
१. हस्तादर्शे ' ... समाधिस्थदेवैः' इत्यशुद्धः पाठः । २.
Jain Education International
=
हस्तादर्शे 'गकरणे ' इति त्रुटितः पाठः । ३. हस्तादर्शे '...षयवृत्ति...' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354