Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 329
________________ १८२० • मधुप्रतीकसिद्धि समर्थनम् • द्वात्रिंशिका-२६/१७ अन्वयाऽर्थवत्त्वे प्रागुक्तलक्षणे । तेषां (=ग्रहणादीनां) यथाक्रमं संयमादिन्द्रियाणां जयो भवति । तदुक्तं- “ग्रहण-स्वरूपाऽस्मिताऽन्वयार्थवत्त्वसंयमादिन्द्रियजयः” (यो.सू.३-४७) इति । ततः = इन्द्रियजयाद् मनोजवः = शरीरस्य मनोवदनुत्तमगतिलाभः विकरणभावश्च कायनैरपेक्ष्येणेन्द्रियाणां वृत्तिलाभः । प्रकृतेः = प्रधानस्य जयः सर्ववशित्वलक्षणो भवति । तदुक्तं"ततो मनोजवित्वं विकरणभावः प्रधानजयश्च" (यो.सू.३-४८) ।।१६।। स्थितस्य सत्त्व-पुरुषाऽन्यता ख्यातौ च केवलम् । सार्वज्यं सर्वभावानामधिष्ठातृत्वमेव च ।।१७।। प्रकृतेन्द्रियजये योगसूत्रसंवादमाह- 'ग्रहणे'ति । अत्र मणिप्रभावृत्तिः → शब्दः षड्जादिः, स्पर्शः शीतादिः, रूपं पीतादिः, रसः मधुरादिः, गन्धः सुरभ्यादिरिति । सामान्यविशेषात्मकशब्दादिगोचराः पञ्च वृत्तयः कार्याः । श्रोत्रादीन्द्रियाणां ग्रहणानि प्रथमं रूपम् । प्रकाशकत्वं स्वरूपं तेषां द्वितीयम् । अस्मितालक्षणसात्त्विकाऽहङ्कारः कारणं तेषां तृतीयम् । अन्वयार्थवत्त्वे चतुर्थ-पञ्चमे व्याख्याते । तेषु पञ्चस्विन्द्रियरूपेषु संयमादिन्द्रियजयो भवति (यो. सू.३/४७ म.प्र.) इत्येवं वर्तते । प्रकृते योगसूत्रभाष्यं तु → सामान्यविशेषात्मा शब्दादिर्ग्राह्यः । तेषु इन्द्रियाणां वृत्तिः = ग्रहणम् । न च तत्सामान्यमात्रग्रहणाऽऽकारम्, कथमनालोचितः स विषयविशेष इन्द्रियेण मनसा वाऽनुव्यवसीयेत? इति । स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्य-विशेषयोः अयुतसिद्धाऽवयवभेदाऽनुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपमस्मितालक्षणोऽहङ्कारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थं रूपं व्यवसायात्मकाः प्रकाश-क्रिया-स्थितिशीला गुणा येषामिन्द्रियाणि साहङ्काराणि परिणामः । पञ्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति । पञ्चस्वेतेष्विन्द्रियरूपेषु यथाक्रमं संयमः तत्र तत्र जयं कृत्वा पञ्चमरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः (यो.भा.३/४७) इत्थं वर्तते । इन्द्रियजयात् किं भवति ? इत्याशङ्कायामाह- इन्द्रियजयात् मनोजव इति । सिद्धित्रितये योगसूत्रसंवादमाह- 'तत' इति । अत्र राजमार्तण्डवृत्तिः → शरीरस्य मनोवदनुत्तमगतिलाभः = मनोजयित्वम्। कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभः = विकरणभावः सर्ववशित्वं = प्रधानजयः । एताः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति । ताश्चाऽस्मिन् शास्त्रे 'मधुप्रतीका' इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदते, एवं प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः + (यो.सू.३/४८ रा.मा.) मधुप्रतीकाः = मधुतुल्या इत्यर्थः । योगसुधाकरे तु → अणिमाद्याः प्रधानजयाऽन्ताः सिद्धयोऽस्मिन् शास्त्रे मधुप्रतीकाः सङ्गीयन्ते + (यो.सुधा.३/४५) इत्युक्तम् ।।२६/१६।। त एते ज्ञान-क्रियारूपैश्चर्यहेतवः संयमाः साक्षात् पारम्पर्येण च स्वसिद्ध्युपसंहारसम्पादितश्रद्धाद्वारेण સંયમ કરવાથી ઈન્દ્રિયવિજય પ્રાપ્ત થાય છે.” ૯ ઈન્દ્રિયો ઉપર વિજય મળવાથી મનની જેમ શરીરને સર્વશ્રેષ્ઠ ગતિનો લાભ થાય છે. તથા કાયાથી નિરપેક્ષપણે ઈન્દ્રિયોની વૃત્તિ થવા સ્વરૂપ વિકરણભાવનો લાભ થાય છે. તથા પ્રધાનતત્ત્વ = પ્રકૃતિ ઉપર વિજય પ્રાપ્ત થાય છે. અર્થાત બધા પદાર્થો ઉપર ઈન્દ્રિયવિજયી યોગી કાબુ મેળવે છે. તેથી યોગસૂત્રમાં પતંજલિ મહર્ષિએ કહેલ છે કે – “ઈન્દ્રિયવિજયથી દેહ મનોવેગયુક્ત થાય છે, ઈન્દ્રિયોને વિકરણભાવ = દેહ निरपेक्षवृत्ति भणे छ. तथा प्रधान = प्रकृति तत्व ५२ वि४५ मणे छ.' 6 (२६/१६) ગાથાર્થ :- માત્ર પ્રકૃતિ અને પુરુષની ભેદખ્યાતિમાં રહેલા યોગીને સર્વજ્ઞતા અને સર્વ ભાવોનું मधिष्ठातृत्व मणे छे. (२६/१७) १. हस्ताद” 'पुरुषाः न्याता...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354