Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 305
________________ १७९६ द्वात्रिंशिका -२६/९ • नाभिचक्रसंयमफलद्योतनम् • तद्गतिज्ञानं" (यो.सू.३ - २८ ) । नाभिचक्रे शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूते संयमात् वर्ष्मणः कायस्य व्यूहस्य रस- मल- नाड्यादीनां स्थानस्य गतिर्भवति । तदुक्तं- “नाभिचक्रे कायव्यूहज्ञानं" (यो.सू. ३- २९ ) ।।८।। क्षुत्तृड्व्ययः `कण्ठकूपे कूर्मनाड्यामचापलम् । मूर्धज्योतिषि सिद्धानां दर्शनं च प्रकीर्तितम् ।।९।। गले कूप इव (= कण्ठकूपे) कूपो गर्ताकार : प्रदेशस्तत्र संयमात् क्षुत्तृज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते । इयं तारा अयं ग्रह इयता कालेनाऽमुं राशि इदं नक्षत्रं इदं कालज्ञानमस्य फलमित्युक्तं भवति ← (रा.मा. ३ / २८ ) इति । एतेन ज्ञानम् । चन्द्रे चित्तसंयमात् ताराव्यूहज्ञानम् । ध्रुवे तद्गतिदर्शनम् ← (शां. १ / ६९) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । यास्यती 'ति सर्वं जानाति । सूर्ये चित्तसंयमाद् भुवन बाह्याः सिद्धीः प्रोक्ताः । अधुनाऽऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते- 'नाभिचक्रे' इति । शरीरमध्यवर्ति नाभिसंज्ञकं यत् षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहः विशिष्टरस-मल-धातु-नाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति - नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतम् । अतः तत्र कृताऽवधानस्य समग्रसन्निवेशो यथावदाभाति ← ( रा.मा.३/२९) इति राजमार्तण्डे भोजः । योगवार्तिके विज्ञानभिक्षुः तु शरीरमध्यवर्ति नाभिकन्दरूपं चक्रं कदलीमूलवदादावुत्पन्नं यतः शाखा - पल्लवादिवत् शिरः पादादिकमवयवजातमूर्ध्वमधश्चाऽऽविर्भवति । तस्मिन्नाभिचक्रे संयमात् साक्षात्कृते कायस्थपदार्थव्यूहं वात-पित्त-त्वग -ऽसृगादिरूपं साक्षात्क्रियते ← (यो. वा.३/२९) इत्याचष्टे । वराहोपनिषदि तु परवत् संस्थिता नाड्यो नानावर्णाः समीरिताः । परमध्यं तु यत् स्थानं नाभिचक्रं तदुच्यते ।। ← ( वरा. ५/२८) इत्येवं तल्लक्षणमुक्तम् । योगशिखोपनिषदि तु → विलम्बिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता । तत्र नाड्यः समुत्पन्नाः तिर्यगूर्ध्वमधोमुखाः । । तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् । ← (यो. शि. ५/२०-२१) इत्युक्तमित्यवधेयम् । यथोक्तं शाण्डिल्योपनिषदि अपि नाभिचक्रे कायव्यूहज्ञानम् ← ( शां. १ / ६९ ) इति ।।२६ / ८ ।। सिद्ध्यन्तरमाह- 'क्षुदि'ति । कण्ठे = गले = जिह्वामूले जिह्वातन्तोः अधस्तात् कूप इव कूपः થાય છે.' ← તથા શરીરના તમામ અંગોની રચનાનું મૂળભૂત તત્ત્વ નાભિચક્ર કહેવાય છે. તે શરીરની મધ્યમાં રહેલ છે. તે નાભિચક્રને વિશે સંયમ કરવાના કારણે શરીરની રસવાહિની, મલવાહિની વગેરે નાડીઓના સ્થાનનું જ્ઞાન થાય છે. તેથી યોગસૂત્ર ગ્રન્થમાં કહેલ છે કે → ‘નાભિચક્રને વિશે સંયમ કરવાથી કાયવ્યૂહનું नाडीस्थाननुं ज्ञान थाय छे.' ← ( २६/८) = = = = * योगइन : ભૂખાદિનો નાશ, મનની સ્થિરતા અને સિદ્ધદર્શન # ગાથાર્થ :- કંઠકૂપનું સંયમ કરવાથી ભૂખ-તરસ રવાના થાય છે. સૂર્યનાડીનું સંયમ કરવાથી મનની ચંચળતા દૂર થાય છે. મૂર્ધજ્યોતિને વિશે સંયમ કરવાથી સિદ્ધોનું દર્શન થાય તેમ કહેવાયેલ છે.(૨૬/૯) ટીકાર્થ ઃ- ગળામાં કૂવા જેવો ખાડાના આકારવાળો ભાગ હોય છે તે કંઠકૂપ = કંઠકૂવો કહેવાય १. हस्तादर्शे 'व्यूहस्य रस' इति नास्ति । २ हस्तादर्शे 'कूपकण्ठे' इति पदव्यत्यासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354