Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• अणिमादिस्पृहा आत्मज्ञानप्रतिबन्धिका
१८०३
एताश्च समाधेः प्रकर्षं गच्छतः सतो विघ्नाः (= समाधिविघ्नाः), हर्ष - विस्मयादिकरणेन तच्छिथिलीकरणात्। व्युत्थाने = व्यवहारदशायां च समाध्युत्साहजननाद् विशिष्टफलदायकत्वाच्च सिद्धयः ।
·
स्पर्शाऽधिगमः । आदर्शाद् दिव्यरूपसंवित् । आस्वादाद् दिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमिति । एतानि नित्यं जायन्ते ← (यो.सू. भा. ३/३६) परं तत्त्वज्ञानी तत्र नोपलिप्यते । तदुक्तं शिवधर्मोत्तरे → पद्मपत्रं यथा तोयैः स्वस्थैरपि न लिप्यते । शब्दादिविषयाम्भोभिस्तद्वज्ज्ञानी न लिप्यते ।। ← (शि.ध. ) इति ।
कदाचिदात्मविषयसंयमे प्रवृत्तः तत्प्रभावादमूरर्थान्तरसिद्धीरधिगम्य कृतार्थम्मन्यः संयमाद् विरमेदत आह- एताश्च अनन्तरोदिताः फलविशेषाः प्रकर्षं गच्छतः सतः समाधेः अपवर्गेकमुख्यफलस्याऽसम्प्रज्ञातसमाधेः विघ्नाः = उपद्रवाः, हर्ष-विस्मयादिकरणेन = प्रमोदाऽऽश्चर्यकुतूहलौत्सुक्य-मद- पराऽभिभव-कीर्त्तिस्पृहादिविधानेन तच्छिथिलीकरणात् समाधिप्रकर्षविघटनात् । अत एव निरालम्बोपनिषदि → अणिमाद्यष्टैश्वर्याऽऽशासिद्धसङ्कल्पः = बन्धः ← (निरा.६) इत्युक्तम् । तदुक्तं योगतत्त्वोपनिषदि अपि → एते विघ्ना महासिद्धेर्न रमेत् तेषु बुद्धिमान् ← ( यो त ७६ ) इति । अणिमादिसिद्धिरतित्यागेनाऽवद्यपरिहाराद् मुक्तिसुखोपलम्भे ताभिर्न किञ्चिदपि प्रयोजनं परमार्थतो विद्यते । तदुक्तं महाकालसंहितायां गुह्यकान्युपनिषदि विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते । सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने !? ।। ← ( गु. का. ८४ ) इति । प्रत्युताऽणिमादिसिद्धितृष्णातो मोक्षाऽवाप्तौ महाविघ्नमुप-. तिष्ठते । तदुक्तं रामगीतायां अपि
मोक्षस्य बहवः शास्त्रे प्रोच्यन्ते प्रतिबन्धकाः । अणिमादीच्छया तुल्यः प्रतिबन्धो न कश्चन ।। यस्याऽणिमादिसिद्धीच्छा लेशमात्राऽपि वर्तते । कल्पकोट्याऽपि तस्याऽऽत्मज्ञानसिद्धिर्न सेत्स्यति ।। पापानां महतां ज्ञानप्रतिबन्धकता यथा । तथाऽणिमादिसिद्धीनामतः सिद्धिमतिं त्यजेत् ।।
=
← (रा.गी. १६/२९,३०,३७ ) इति । युक्तञ्चैतत् अभिसंहिततापत्रयाऽऽत्यन्तिकोपशमरूपपरमपुरुषार्थः योगी खलु कथं तत्प्रत्यनीकासु सिद्धिषु रज्येत ? केवलं व्यवहारदशायां = व्युत्थानदशायां समाध्युत्साहजननात् = 'अस्ति खलु मम योगाभ्यासफलमद्भुतमित्येवमष्टाङ्गिकयोगमार्गगोचरवीर्योल्लासाऽऽधानात् विशिष्टफलदायकत्वाच्च सिद्धयः = पुरुषार्था उच्यन्ते । व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते, जन्मदुर्गत इव द्रविणकणिकामपि द्रविणसम्भारम् । एतेन अणिमादिपदं प्राप्य राजते राजयोगतः ← (यो.शि. १ / १३८) इति योगशिखोपनिषद्वचनमपि व्याख्यातम् । परं शीघ्रमोक्षैककामिना शुकदेवमार्गगामिना योगिना तु समाहितचित्तेन स्वयमेवोपनताभ्योऽपि ताभ्यो विरन्तव्यम् । न ह्यात्मसाक्षात्कारमन्तरेण सिद्धिकोट्याऽपि कृतकृत्यता समस्ति । ततश्च ज्ञानगर्भवैराग्याऽनुविद्धयोगाऽभ्यासपरतया योगिना भाव्यम् । तदुक्तं रामसंयमथी प्रतिज्ञान, श्रावशज्ञान, वेहनाज्ञान, आदर्शज्ञान, आस्वादृज्ञान, वार्ताज्ञान उत्पन्न थाय छे. ' ← આ બધી લબ્ધિઓ પ્રકૃષ્ટ બનતી સમાધિમાં વિઘ્નરૂપ જ છે. કારણ કે દિવ્ય રૂપ-૨સ-ગંધ વગેરેના અનુભવથી હર્ષ-વિસ્મય વગેરે થવાથી સમાધિ શિથિલ થઈ જાય છે. તેમ છતાં વ્યુત્થાન દશામાં વ્યવહારમાં આ સિદ્ધિ કહેવાય છે. કારણ કે દિવ્ય રૂપ-રસ-સ્વાદ વગેરેનો અનુભવ થવાથી યોગીને સમાધિને મેળવવા માટે ઉત્સાહ ઉત્પન્ન થાય છે. તથા તેનાથી વિશિષ્ટ ફળ પણ યોગીને મળે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354