Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 281
________________ १७७४ • निकाचितानां भोगनाश्यत्वम् • द्वात्रिंशिका-२५/३१ नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपदृत्तिलाभस्याऽप्यनुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् ।।३१।। । तेषां पातञ्जलानां अपि अनन्तकालप्रचितानां कर्मणां नानाशरीरोपभोगनाश्यत्वकल्पनं = एकभवीय-समकालीन विभिन्नदेहकृतभोगजन्यध्वंसप्रतियोगित्वकल्पनं मोहः = अज्ञानं एव वर्तते । दर्शितरीत्या तावददृष्टानां = तावतां नाश्यानां कर्मणां युगपद् = समकालं वृत्तिलाभस्य = स्वविपाकोपधायकवृत्तिलाभस्य अपि अनुपपत्तेः = असम्भवात् । 'कारणसाम्राज्यादेव योगिकर्मणां युगपद्वृत्तिलाभोऽपि नानुपपन्नः' इति चेत् ? ननु तथापि 'तत्त्वज्ञानादेव तावददृष्टानां युगपद्वृत्तिलाभ' इति देवानांप्रियस्याऽभिमतम् । तदेव च कथं तत्प्रतिबन्धकाऽदृष्टक्षयं विना ? न च तत्क्षयोऽपि भोगादेव, अतत्त्वज्ञभोगस्य तदर्जकत्वात् । अपि चाऽध्यवसायविशेषादेव विचित्राऽदृष्टक्षयोपपत्तौ कायव्यूहादिकल्पनमप्रामाणिकमेवेति व्यक्तं (अ.म.प.१०१ वृत्ति) अध्यात्ममतपरीक्षावृत्तौ । प्रकृते → व्यक्ते ब्रह्मोपयोगे तु कामवृत्तिर्न तिष्ठति । तीव्र निकाचितं कर्म प्रारब्धं नैव नश्यति ।। - (अ.गी.१८३) इति पूर्वोक्तं(पृ.१३००) अध्यात्मगीतावचनमप्यनुसन्धेयम् । यथोक्तं द्वादशारनयचक्रे अपि श्रीमल्लवादिसूरिभिः → सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मनः पुरुषात्मनैकीभूतस्योदयोपशम-क्षयोपशमक्षया अवस्थाः सापेक्षा भवन्ति, मदनफलाद्वमनवत् भस्मपटलाच्छनाग्निवत्, दरविध्याताऽवच्छन्नज्वलनवत्, तृणदाहवद्वा ( (द्वा.न.अर-४, पृ.४८७) इति । ननु केवलज्ञानमेवाऽशेष भोगमुदीर्य कायव्यूहमहिम्नोपस्थाप्य कर्मक्षयक्षममस्तु इति चेत् ? मैवम्, अबोद्धृदशाप्रसङ्गात्, एवं हि शूकरादिभोग्यं कर्म क्षपयितुं शूकरादिशरीरमिवैकिन्द्रियादिशरीरभोग्यं ज्ञानावरणं क्षपयितुमेकेन्द्रियादिशरीरमपि परस्य तत्त्वज्ञानी परिगृह्णीयात् । तथा च तद्वदेवाऽबोद्धृत्वप्रसङ्गः । 'अज्ञानं न भोग्यं सुख-दुःखाऽनन्यतरत्वादिति न प्रसङ्ग' इति चेत्, न, 'जात्यायु गास्तद्विपाकः' (यो.सू. २/१३) इति सूत्रयता योगाऽऽचार्येण कर्मफलमात्रस्य भोग्यत्वाऽतिदेशात् । 'तत्त्वज्ञानप्रतिबन्धककर्मनाशादेव कैवल्योत्पत्ते ऽयं प्रसङ्ग' इति चेत् ? स एव कुतो जातः ? 'विविदिषा-शम-दमादिसहकृतयत्याश्रमोचिताऽऽचारादिति चेत् ? तर्हि यथा पूर्व शरीराऽपेक्षभोगं विनैव ततोऽदृष्टविशेषनाशस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि तत एव स किमिति नाऽद्रियते किं कायव्यूहादिकल्पनाक्लेशेनेति (न्या.खं.खा.गा.७९/पृ. પરંતુ ગ્રંથકારશ્રી કહે છે કે પાતંજલ વિદ્વાનો અનંત કાળથી ભેગા કરેલા કર્મોને અનેક શરીરથી ભોગવીને જ ખતમ કરવાની જે કલ્પના કરે છે તે પણ તેઓની મૂઢતા જ છે. કારણ કે તેટલા બધા કર્મોનો એકીસાથે વિપાકઉદય થવો પણ અસંભવ છે. કૂતરા, ભૂંડ, બિલાડા, દેવ, નરક વગેરે ભવોમાં ભોગવી શકાય તેવા, જુદા-જુદા સમયે બાંધેલા, જુદા જુદા દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવ-ભવમાં ઉદયમાં આવવા નિર્માયેલા વિચિત્ર કર્મોનો વિપાકોદય એકીસાથે કઈ રીતે સંભવે ? એ લાખ ડોલરનો ગંભીર પ્રશ્ન પાતંજલ વિદ્વાનો માટે વિચારણીય જ બની રહે છે. સહ નિકાચિત ર્ક્સ ભોગવવાથી જ રવાના થાય • જૈન છે તેમ છતાં ગ્રંથકાર શ્રીમદ્જી કહે છે કે “કર્મો ભોગવવાથી જ નાશ પામે'- તેવો નિયમ બાંધવાના ...... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354