Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१७७२
• केवलिसमुद्घाते कायव्यूहभ्रमः • द्वात्रिंशिका-२५/३१ मनोऽन्तरप्रवेशादिकल्पने गौरवाच्च । चेत् ? तत्किं सौभरेः युगपद् नानाशरीरकरणतः पञ्चाशत्कलत्रग्रहण-पञ्चाशदधिकशतपुत्रोत्पादनादिपरिग्रहाऽऽरम्भादिजनितपापार्जनं विष्णुपुराणे (अंश-४ अध्याय-२) न श्रुतम् ? यथाकथञ्चित् कायव्यूहकरणेऽपि तत्तद्भोगजनितपापं तु वर्धेत एव, न तु मूलतः क्षीयेत । मूलतः कृत्स्नकर्मक्षयकृते त्ववश्यं योग एवाऽऽश्रयितव्यः । . ___ यत्तु तत्त्वचिन्तामणिकृता → 'कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञानव्यापारत्वादिति' - (त.चि.ईश्वरा.पृ.१९५) गदितं तन्न चारु, न हि भोगः तत्त्वज्ञानव्यापार इति श्रुतौ श्रुतम्, तेन विनाऽपि तदुत्पत्तेः । तदुक्तं किरणावलीरहस्ये मथुरानाथेनाऽपि 'तत्त्वज्ञानस्य भोगाऽजनकतया भोगस्य तद्द्वारत्वाऽसम्भवात्' (कि.रह.पृ.४५) इति । उपभोगादेव कर्मक्षये स्वीक्रियमाणे तु नरकादौ चारित्राऽभावेन अपरकर्मनिमित्तव्यापारात् प्रचुरतरकर्माऽर्जने अनिर्मोक्षप्रसङ्गाच्च । तदिदमभिप्रेत्य श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः → जइ याऽणुभूइओ च्चिय खविज्जए कम्मं नन्नहाऽणुमयं ?। तेणाऽसंखभवज्जियनाणागइकारणत्तणओ ।। नाणाभवाणुभवणाऽभावा एगमि पज्जएण वा । अणुभवओ बंधाओ मुक्खाऽभावो स चाऽणिट्ठो ।। (श्रा.प्र.१९८/१९९) इत्युक्तम् ।।
किञ्चैवं नरकादिदुःखजनकब्रह्महत्यादिप्रयोजकाऽदृष्टसत्त्वे योगिनां नारकब्रह्मघातकशरीरपरिग्रहोऽपि स्यादिति महद्वैशसम् । 'तादृशाऽदृष्टविरह एव तत्त्वज्ञानोत्पत्ति'रिति चेत् ? शूकरादिशरीरोत्पादकाऽदृष्टाऽसत्त्व एव तत्त्वज्ञानोत्पत्तिरित्यपि किमिति न रोचयेः ? 'तत्त्वज्ञानजन्यशूकरादिवैलक्षण्यात् नायं दोष' इति चेत्, तर्हि तत्त्वज्ञानाऽदृष्टजन्यतावच्छेदिकयोः जात्योः साङ्कर्यम् । कथं च तत्त्वज्ञानेन कायव्यूहजननेऽप्यनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्यनानाफलजननं कथं च तद्विना शूकरादिशरीरोपभोग्यचरमफलं विनाऽदृष्टनाशः, कथं च तमन्तरेण मोक्षोत्पत्तिरिति विचारणीयमायुष्मता । 'शूकरादिशरीरोपभोग्यमप्यदृष्टफलं योगिनां स्वायुर्नियतमेव तत्कल्प्यत' इति चेत् ? तर्हि लाघवात् तदनुपभोग्यमेव । तच्च भवोपग्राह्यदृष्टचतुष्टयाख्यं, तत्राप्यायुषः कर्मत्रयस्याऽधिकस्थितिकत्वे तत्समीकरणार्थं भगवतः केवलिसमुद्घातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न भवति, केवलिसमुद्घात एव च परेषां कायव्यूहभ्रमस्तदालम्बनेनैव चेश्वरस्य सर्वावेशप्रतिपादिका श्रुतिरिति (न्या.खं.खा.गा.७४/पृ.६६४) व्यक्तमुक्तं विद्वत्सभाशृङ्गारेण ग्रन्थकृता न्यायखण्डखाद्ये ।
किञ्च → युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् + (न्या.सू.१/१/१६) इति न्यायसूत्रेण युगपन्नानाशरीराऽवच्छेदेन नानाऽनुभवोत्पत्तिसङ्गतिकृते युगपन्नानाशरीरेषु मनोऽन्तरप्रवेशोऽभ्युपगन्तव्यः । तच्चेत् मनः अणुः तर्हि तन्नाशाऽनुपपत्तिः, सावयवत्वे च तज्जनक-नाशकादि मार्गणीयम् । બહાર કાઢી નાંખવામાં આવે તો પણ યોગીની પાસે મન તો એક જ હોવાથી તથા તે મન માનવદેહ સાથે સંલગ્ન હોવાથી નવા ભૂંડ, કૂતરા, બિલાડા વગેરેના શરીરમાં તો તે મન નહિ રહે. મન વિના તો ભૂંડ વગેરે શરીરથી કઈ રીતે કર્મફળ ભોગવી શકાય? કારણ કે ભોગનો અર્થ છે સુખ કે દુઃખનો માનસ સાક્ષાત્કાર. મન જ ન હોય તો માનસ સાક્ષાત્કાર સ્વરૂપ ભોગ કઈ રીતે સંભવી શકે ?
તથા યોગજઅદષ્ટના પ્રભાવે કાયવૂહગત ભંડ-કૂતરા વગેરે તમામ શરીરોમાં નવા-નવા અનેક મનનો પ્રવેશ કરવાની કલ્પના કરવામાં આવે તો તો મહાગૌરવ દોષ આવશે. કારણ કે એકી સાથે બે જ્ઞાન તો
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org