Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 277
________________ १७७० ज्ञान-कर्मसमुच्चयसमर्थनम् द्वात्रिंशिका - २५/३१ भवदागमेनाऽपि = नैयायिकसम्मतेन भगवद्गीताभिधानशास्त्रेणाऽपि सिद्धत्वात् । → ज्ञानमभ्यस्यमानं तु तथा दहति संसृतिम् ← (बृ.परा. १२ / ३३४) इति बृहत्पराशरस्मृतिवचनं ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ← ( म.भा. शांति २१०/४५) इति महाभारतवचनं ज्ञानिनः सर्वपापानि जीर्यन्ते नाऽत्र संशयः ← (लि.पु. १/८६/११८) इति लिङ्गपुराणवचनं ज्ञानाग्निसर्वकर्माणि भस्मसात् कुरुते यथा। तप्ताऽयोबिन्दुवद् भक्तिर्विनाशयति सर्वशः ।। ← (शां.सं.५ / ४/२/७ ) इति शाण्डिल्यसंहितावचनं, → यथा वह्निर्महान् दीप्तः शुष्कमार्द्रञ्च निर्दहेत् । तथा शुभाशुभं कर्म ज्ञानाग्निर्दहते क्षणात् ।। ← (शि. धर्मो.) इति शिवधर्मोत्तरवचनं, उपपापानि बोधाग्निर्भस्मसात् कुरुतेऽथवा । प्रारब्धानीति विद्धि त्वं नान्यथा कपिपुङ्गव ! ।। ← ( रा.गी. १० / २४ ) इति च रामगीतावचनमप्यत्र स्मर्तव्यम् । तदुक्तं शम्भुगीतायां अपि प्रारब्धं सञ्चितं कल्याः ! आगामीति प्रभेदतः । प्रोच्यते त्रिविधं कर्म कर्मतत्त्वविशारदैः ।। तत्र ज्ञानाऽग्निना कर्म सञ्चितं दह्यते ध्रुवम् । ← (शं.गी. ६ । ४२,४७ ) इति । पुण्य-पापयोर्ज्ञाननाश्यतायां द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् । प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ।। ← (ग.गी. ३।४५ ) इति गणेशगीतावचनमपि साक्षि वर्तते । → अहं ब्रह्मेति विज्ञानात् कल्पकोटिशताऽर्जितम् । सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत् ।। ← (अध्या. ५० ) इति 'अध्यात्मोपनिषद्वचनम् विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् ← (पै.४/ ११) इति पैङ्गलोपनिषद्वचनं च प्रकृते भावनीयम् । प्रारब्धकर्मणां नाशो भोगादेव प्रजायते ← (शं.गी. ६ । ५२) इति शम्भुगीतावचनं तुं निकाचितकर्माऽपेक्षयाऽनुयोज्यम् । वस्तुतो ज्ञान-कर्मोभयनाश्यता कर्मणां द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानञ्च राघव !← (यो.वा.) इति भवदभिमतयोगवाशिष्ठवचनादपि सिध्यत्येव । एतेन द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर ! ← (शां. १/४१) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । योगविहीनेन न ज्ञानेन विमुक्तता ← ( रा.गी. ३ / ४८ ) इति रामगीतावचनमप्यत्र संवदति । साङ्ख्यादीनामपि तत्त्वतो ज्ञान-क्रियाभ्यामेव क्लेशोच्छेदोऽभिमतः । इत्थमेव क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ।। अनिमित्तनिमित्तेन स्वधर्मेणाऽमलाऽऽत्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ।। ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणाऽऽत्मसमाधिना ।। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवाऽरणिः ।। ← (क.दे.सं. ३ /२०-२३) इति कपिल - देवहूतिसंवादसङ्गतेः । इत्थञ्च मुक्तौ ज्ञानकर्मणोस्तुल्यवत्समुच्चयबोधकाऽऽगमेन ज्ञानवत् चारित्रस्याऽपि हेतुताया अवर्जनीयत्वात् । न च “ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन” (भ.गी. ४ / ३७ ) इति भगवद्गीता - वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्म मिथ्याज्ञानवासनाऽभावान्नादृष्टोत्पादकमिति न क्वाऽपि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचाऽऽवश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्यकर्मनाशे पृथग्धेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः । सम्मतश्चायमर्थः, “ तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम्” ।। ( महोपनिषद् - ५ / १८५) इत्यादिवाशिष्ठग्रन्थादिनापि । १. अयं अध्यात्मोपनिषद्ग्रन्थः तन्त्रान्तरीयः, न तु जैनतन्त्रसत्क इत्यवधेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354