________________
१७७०
ज्ञान-कर्मसमुच्चयसमर्थनम्
द्वात्रिंशिका - २५/३१
भवदागमेनाऽपि
=
नैयायिकसम्मतेन भगवद्गीताभिधानशास्त्रेणाऽपि सिद्धत्वात् । → ज्ञानमभ्यस्यमानं तु तथा दहति संसृतिम् ← (बृ.परा. १२ / ३३४) इति बृहत्पराशरस्मृतिवचनं ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ← ( म.भा. शांति २१०/४५) इति महाभारतवचनं ज्ञानिनः सर्वपापानि जीर्यन्ते नाऽत्र संशयः ← (लि.पु. १/८६/११८) इति लिङ्गपुराणवचनं ज्ञानाग्निसर्वकर्माणि भस्मसात् कुरुते यथा। तप्ताऽयोबिन्दुवद् भक्तिर्विनाशयति सर्वशः ।। ← (शां.सं.५ / ४/२/७ ) इति शाण्डिल्यसंहितावचनं, → यथा वह्निर्महान् दीप्तः शुष्कमार्द्रञ्च निर्दहेत् । तथा शुभाशुभं कर्म ज्ञानाग्निर्दहते क्षणात् ।। ← (शि. धर्मो.) इति शिवधर्मोत्तरवचनं, उपपापानि बोधाग्निर्भस्मसात् कुरुतेऽथवा । प्रारब्धानीति विद्धि त्वं नान्यथा कपिपुङ्गव ! ।। ← ( रा.गी. १० / २४ ) इति च रामगीतावचनमप्यत्र स्मर्तव्यम् । तदुक्तं शम्भुगीतायां अपि
प्रारब्धं सञ्चितं कल्याः ! आगामीति प्रभेदतः । प्रोच्यते त्रिविधं कर्म कर्मतत्त्वविशारदैः ।।
तत्र ज्ञानाऽग्निना कर्म सञ्चितं दह्यते ध्रुवम् । ← (शं.गी. ६ । ४२,४७ ) इति ।
पुण्य-पापयोर्ज्ञाननाश्यतायां
द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् । प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ।। ← (ग.गी. ३।४५ ) इति गणेशगीतावचनमपि साक्षि वर्तते । → अहं ब्रह्मेति विज्ञानात् कल्पकोटिशताऽर्जितम् । सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्मवत् ।। ← (अध्या. ५० ) इति 'अध्यात्मोपनिषद्वचनम् विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् ← (पै.४/ ११) इति पैङ्गलोपनिषद्वचनं च प्रकृते भावनीयम् । प्रारब्धकर्मणां नाशो भोगादेव प्रजायते ← (शं.गी. ६ । ५२) इति शम्भुगीतावचनं तुं निकाचितकर्माऽपेक्षयाऽनुयोज्यम् ।
वस्तुतो ज्ञान-कर्मोभयनाश्यता कर्मणां द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानञ्च राघव !← (यो.वा.) इति भवदभिमतयोगवाशिष्ठवचनादपि सिध्यत्येव । एतेन द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर ! ← (शां. १/४१) इति शाण्डिल्योपनिषद्वचनमपि व्याख्यातम् । योगविहीनेन न ज्ञानेन विमुक्तता ← ( रा.गी. ३ / ४८ ) इति रामगीतावचनमप्यत्र संवदति । साङ्ख्यादीनामपि तत्त्वतो ज्ञान-क्रियाभ्यामेव क्लेशोच्छेदोऽभिमतः । इत्थमेव
क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ।। अनिमित्तनिमित्तेन स्वधर्मेणाऽमलाऽऽत्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ।। ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणाऽऽत्मसमाधिना ।। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवाऽरणिः ।। ← (क.दे.सं. ३ /२०-२३) इति कपिल - देवहूतिसंवादसङ्गतेः ।
इत्थञ्च मुक्तौ ज्ञानकर्मणोस्तुल्यवत्समुच्चयबोधकाऽऽगमेन ज्ञानवत् चारित्रस्याऽपि हेतुताया अवर्जनीयत्वात् । न च “ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन” (भ.गी. ४ / ३७ ) इति भगवद्गीता - वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्म मिथ्याज्ञानवासनाऽभावान्नादृष्टोत्पादकमिति न क्वाऽपि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचाऽऽवश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्यकर्मनाशे पृथग्धेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः । सम्मतश्चायमर्थः, “ तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम्” ।। ( महोपनिषद् - ५ / १८५) इत्यादिवाशिष्ठग्रन्थादिनापि । १. अयं अध्यात्मोपनिषद्ग्रन्थः तन्त्रान्तरीयः, न तु जैनतन्त्रसत्क इत्यवधेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org