________________
• कायव्यूहापाकरणम् •
नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः कायव्यूहाऽनुपपत्तेः,
नयवादास्तु तपः-संयम-ज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते । तदुक्तं विशेषावश्यकभाष्ये → “तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दज्जुसुआणं पुण णिव्वाणं संजमो चेव” । । ← (वि.आ.भा. २६२१) इति व्यक्तं अष्टसहस्रीतात्पर्यविवरणे ( अ. स.वि.१/६/पृ.११४) ।
युक्ततरञ्चैतद्, नानाभूमिकारूढमुमुक्षूणामिष्टोपायताग्राहकनयवैविध्यप्रदर्शनमन्तरेणाऽभ्रान्त-निष्कम्प-शीघ्रफलोपस्थापकोचितप्रवृत्त्यनुपपत्तेः, परीक्षकाणां निष्कम्पप्रवृत्तौ सर्वनयसमूहजन्येष्टोपायत्वग्रहस्यैव हेतुत्वाद्, अंशे तद्विसंवादेऽपि सामग्रीहेतुत्वग्रहे कस्याऽप्यविवादात् । अत एव 'तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहु' (आ.नि.१६३७, द.वै.नि.१/१५० ) इति आवश्यकनिर्युक्तौ दशवैकालिकनिर्युक्तो च फलितार्थकथनं भगवतां चरण-गुणयोः स्थित उभयत्र समपक्षपातः गुणशब्देन ज्ञान-दर्शनयोर्ग्रह इति प्रमाणार्पणायां व्याख्यानमित्यधिकं ( न्या. खं. खा. १२ पृ. १०६) न्यायखण्डखाद्ये अवसेयम् ।
किञ्च कर्मणां भोगैकनाश्यत्वे प्रायश्चित्तादिविधिरपि व्यर्थः स्यात् । तदुक्तं रामगीतायां → भोगेनैव विनाशश्चेत् प्रायश्चित्तवचो वृथा ← ( रा.गी. १०/१८) इति ।
'अवश्यमेव भोक्तव्यमिति तु प्रदेशोदयाऽपेक्षयाऽस्माभिरप्यभ्युपगम्यत एव । अत एव न तत्कृते कायव्यूहाऽऽवश्यकताऽस्मन्मते । एतेन न य अवेदयित्ता अस्थि हु मोक्खो ← (प्र.व्या. १/१) इति प्रश्नव्याकरणसूत्रवचनं कडाण कम्माण न मुक्खु अत्थि ← ( उत्त.४ / ३) इति उत्तराध्ययनसूत्रवचनं, → पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता ← (द.वै. चू. १ ) इति च दशवैकालिकचूलिकावचनं व्याख्यातम् । ततश्च ब्रह्मसूत्रे भोगेन त्वितरे क्षपयित्वा सम्पद्यते ← ( ब्र. सू. ४/१/१९) इति यदुक्तं तत्र इतरपदेन निकाचितकर्मग्रहणमेव सङ्गच्छते इत्यवधेयम् ।
किञ्च नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः = शूकरादिदेहोत्पादाऽसङ्गतेः कायव्यूहाऽनुपपत्तेः, मनुष्यशरीरस्य मनुष्येतरशरीरविरोधित्वात्, अन्यथा स्वर्गजनकाऽदृष्टवतो यज्वनः तदानीमेव स्वर्गीयशरीरोपग्नहप्रसङ्गात् । न च तददृष्टस्य तदानीमलब्धवृत्तिकत्वान्नैवमिति वाच्यम्, तर्हि तत्त्वज्ञानिनोऽपि नानाविधाऽदृष्टानां युगपदलब्धवृत्तिकत्वान्न कायव्यूहसम्भवः ।
एतेन 'यौगपद्यञ्च कायानां तज्जनककर्मस्वभावात् तपःस्वभावाद् वेति' (त. चि. अनुमानखण्ड-भा. २ ईश्वरानुमाने पृ. १९३) इति तत्त्वचिन्तामणिकारवचनं निराकृतम्, औदारिकदेहं प्रति एकजीवकर्तृकौदारिकशरीरान्तरस्य प्रतिबन्धकत्वात् । देवादीनां तु वैक्रियशरीरादिकर्मोदयमहिम्नैवैकदा नानाशरीरोपपत्तेः । इयमेवाऽभिप्रेत्य त्रिषष्टिशलाकापुरुषचरित्रे हेमचन्द्रसूरिभिः नैसर्गिकी हि भवति घुसदां कामरूपिता ← (त्रि.श.पु. १ । ३ । ८५ ) इत्युक्तम् । एतेन सर्वं कर्म भोगजन्यनाशप्रतियोगि कर्मत्वात् भुक्तभुज्यमानकर्मवदिति कालीपदशर्मवचनं निराकृतम्, प्रायश्चितादिनाश्ये कर्मणि बाधात् ।
अथ तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयः सम्भवेत्, सौभरिप्रभृतिमहर्षीणां कायव्यूहश्रवणादिति વળી, બીજી મહત્ત્વની વાત તો એ છે કે યોગી પાસે મનુષ્ય શરીર જ્યાં સુધી હાજર હોય ત્યાં સુધી ભૂંડ, કૂતરા, બિલાડા વગેરેના શરીરોને ધારણ કરી ન શકાય. એક શરીર બીજા શરીરને ધારણ કરવામાં પ્રતિબંધક છે. માટે કાયવ્યૂહ અસંગત છે. જો યોગજ-કર્મજન્ય હોવાથી તેવા શરી૨ને પ્રતિબધ્યકોટિમાંથી
Jain Education International
For Private & Personal Use Only
१७७१
www.jainelibrary.org