________________
• ज्ञानस्य कर्मनाशकत्वम् •
१७६९
कर्मणां ज्ञानयोगनाश्यताया “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" (भगवद्गीता - ४ / ३७) इति भवदागमेनाऽपि सिद्धत्वात् ।
इति शङ्खस्मृतिवचनमपि व्याख्यातम् । प्रायश्चित्तविधानं तु, गां चेद् हन्यात्, तस्याश्चर्मणाऽऽर्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रं तप्तकृच्छ्रं वा तिष्ठेत् ← ( व .ध.शा. १८) इत्यादिना वशिष्ठधर्मशास्त्रे, → क्रव्यादांश्च मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णगाम् ।। ← (गौ.ध.सू.२/१) इत्यादिना गौतमधर्मसूत्रे, टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा । एषां वधे नरः कुर्यादकरात्रमभोजनम् ।। ← ( सं . स्मृ. १४८) इत्यादिना च संवर्त्तकस्मृतौ प्रसिद्धमेवेति पूर्वोक्तं (पृ. ४८५ ) स्मर्तव्यम् ।
यत्तु गड्गेशेन तत्त्वचिन्तामणी
प्रायश्चित्तादीनाञ्च फलप्रतिबन्धकत्वमेव ← (त. चिं. शब्दखण्डअपूर्ववाद पृ. ४१४ ) इत्युक्तं तन्न, दुरितानुच्छेदे तच्छक्त्यविघटने वा कथमपि फलप्रतिबन्धानुपपत्तेः, प्रायश्चित्तस्याऽऽत्मशुद्धिकारकत्वेन दुरितनाशकत्वेन च प्रसिद्धेश्च । तत्र तु बलाका- टिट्टिभौ वाऽपि, शुक-पारापतावपि । अटीनवकघाती च शुध्यतेऽनक्तभोजनात् ।। ← (परा.स्मृ. ६/३३-पृ.२३३) इत्यादिना पराशरस्मृती, चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ← ( म.भा. शां. १६५ / ६९),तपसैव सुतप्तेन नरः पापात् प्रमुच्यते ← ( म. भा. शांति. १६१ / ६ ) इत्यादिना महाभारते → प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ← ( वा. रा. १८/३५ ) इत्यादिना वाल्मीकिरामायणे च प्रसिद्धमेव । पूर्वं पूर्वं सेवाद्वात्रिंशिकायामपि ( द्वा. द्वा. १२/१९/८६५) देवलस्मृति - वायुपुराणादिसंवादेन तपसः पापनाशकत्वमुक्तमिहानुसन्धेयम् । ततश्च कर्मणां भोगैकनाश्यत्वराद्धान्तस्तु बाधित एव । अतः प्रायश्चित्तवत्तत्त्वज्ञानस्याऽपि कर्मनाशकत्वं सम्भवति । न च तस्याऽऽगामिकर्माऽनुत्पाद एव सामर्थ्यमिति तत्त्वज्ञानात्कायव्यूहकल्पना शास्त्रकृतामिति शङ्कनीयम्, यतः तत्त्वज्ञानस्याऽऽगामिकर्मानुत्पाद इव सञ्चितकर्मनाशेऽपि सामर्थ्यं यथा भाविशीतस्पर्शाऽनुत्पादसमर्थस्योष्णस्पर्शस्य पूर्वशीतस्पर्शनाशेऽपीति कायव्यूहाऽकरणेऽपि नाऽनिर्मोक्षप्रसङ्गः । तदुक्तं सम्मतितर्कटीकायां यदेवाऽऽगामिकर्मप्रबन्धे समर्थं सम्यग्ज्ञानादि तदेव सञ्चितक्षयेऽपि परिकल्पयितुं युक्तम् ← (सं.त. का. १ पृ.६३०) इति । भिद्यते हृदयग्रन्थिः ' (मुण्डकोपनिषद् २/२/८, अन्नपूर्णोपनिषद् - ४ / ३१, योगशिखोपनिषद् -५/४५, महोपनिषत्-४/८२, सरस्वतीरहस्योपनिषद् -५६) इत्यत्रापि तत्त्वज्ञानस्याऽदृष्टादिनाशकत्वं प्रतीयते' ← (आ.त.वि.दी.पृ.) इति आत्मतत्त्वविवेकस्य बौद्धाधिकारदीधितौ रघुनाथशिरोमणिभिः प्रतिपादितम् ।
एतेन आत्मनो वै शरीराणि बहूनि मनुजेश्वर ! | प्राप्य योगबलं कुर्यात् तैश्च कृत्स्नां महीं चरेत् ।। भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यः तेजोगणानिव । । ← (म.भा.१२/३००/२७-२८) इति महाभारतोक्तिः निरस्ता, दृष्टत्यागाददृष्टाऽभ्युपगमाऽऽपाताच्च । अनेन → ‘तपःप्रभावादेव तत्त्वज्ञानाऽनुत्पादेऽपि कायव्यूहसम्भवादिति' ← (त. चि. ईश्वरानुमाने पृ. १९३) तत्त्वचिन्तामणिकृदुक्तं निरस्तम्, व्यर्थकल्पनागौरवात् ।
कर्मणां ज्ञानयोगनाश्यतायाः 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!' (भ.गी. ४ / ३७ ) इति
વળી, ભગવદ્ગીતામાં પણ જણાવેલ છે કે ‘હે અર્જુન ! જ્ઞાનાગ્નિ સર્વ કર્મોને ભસ્મીભૂત કરે છે.' આથી ‘કર્મો જ્ઞાનયોગથી નાશ પામે છે’- એવું તમારા શાસ્ત્રના આધારે પણ સિદ્ધ થાય છે.
१. हस्तादर्श 'भगवदा...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org