Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 283
________________ १७७६ • भस्मधारणात्क्लेशोच्छेदप्रवादमूलद्योतनम् • द्वात्रिंशिका-२५/३१ भाण्डधावने इव कृतेऽपि तच्छुद्ध्यसम्भवेनाऽपवर्गाऽसम्भवात्, शब्दानुशासनाऽभ्यासविकलानामपि जडभरतादीनां मुक्तिश्रवणाच्चेति दिक् । केचित्तु रक्तादिशुद्धिक्रमेण चक्रादिशुद्धिद्वारा द्वैतेच्छा-ब्रह्मानन्दसमुल्लास-निदानादिषोडशदशालाभतः क्लेशमुक्तिमुपपादयन्ति । तदुक्तं शम्भुगीतायां → आर्यजातौ क्रमाद् नूनं शुद्धिः शोणित-शुक्रयोः । पीठशुद्धेः समुत्पत्तौ परमाऽस्ति सहायिका ।। अध्यात्मलक्ष्यद्वारैव चक्रशुद्धिर्यथाक्रमम् । लभ्यते नाऽत्र सन्देहो विद्यते पितरो ! ध्रुवम् ।। अतो वर्णाश्रमा धर्माः प्रवृत्तेः रोधकाः तथा । निवृत्तेः पोषकाः सन्तः संशुद्धिं पीठ-चक्रयोः ।। समुत्पादयितुं नूनं पराः सन्ति सहायकाः । नाऽत्र कश्चन सन्देहो विद्यते हे स्वधाभुजः !।। 6 (शं.गी.५/१०९-११२) इत्यादि । तत्तु स्थूलनैगमनयाऽभिप्रायेण जीवविशेषानाश्रित्य कर्मक्लेशहानोपायतयाऽत्र सङ्गच्छत इत्यवधेयं समाकलितनानातन्त्ररहस्यैः मध्यस्थधीधनैः । __ बृहज्जाबालीयास्तु भस्मधारणादेः क्लेशहानोपायत्वमामनन्ति । तदुक्तं बृहज्जाबालोपनिषदि → भस्मच्छन्नः संसारान्मुच्यते । भस्मशय्याशयानः तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते, न स पुनरावर्तते - (बृ.जा.७/७) इति, → भस्मधारणादेव मुक्तिर्भवति - (बृ.जा.७/२) इति, → भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् । भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ।। (बृ.जा.५/१८) इति च । तदसत्, केवलादेव भस्मधारणान्मोक्षाऽभ्युपगमे सर्वैरेव यत्र कुत्रचिज्जन्मनि भस्मधारणेन अद्याऽवधि यावत् सर्वेषां जीवानां मोक्षाऽऽपत्तेः । एतेन → तिर्यक् तिस्रो रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति । तस्मात् तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय - (काला.१) इति कालाग्निरुद्रोपनिषद्वचनमपि प्रत्याख्यातम्, तत्त्वज्ञान-यम-नियमादिवैफल्यप्रसङ्गाच्च । एतेन तत्त्वज्ञानयम-नियमादिसहिताद् भस्मधारणान्मुक्तिरिति निरस्तम्, विशेषणेनैव कार्योदयसम्भवात् भस्मधारणस्याऽन्यथासिद्धत्वात् । एतेन → तेनाऽधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ।। (बृ.जा. ५/७) ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः । तेषां नाऽस्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।। - (बृ.जा. ५/९) इति बृहज्जाबालोपनिषद्वचने अपि निरस्ते, अन्वय-व्यतिरेकव्यभिचारदर्शनात् । वस्तुतस्तु प्रथमतीर्थकरनिर्वाणाऽनन्तरं तच्छरीरकुण्डाग्निभस्मनो वन्दनीयत्वादिबुद्ध्या तापसैर्ग्रहणाद् धारणाच्च 'भस्मधारणान्मुक्तिः' इति प्रवादप्रसिद्धिरवगन्तव्या । तदुक्तं दर्शनरत्नरत्नाकरे → अथ च ते भरतेन काकिणीरत्नेनाऽड्किताः श्राद्धा देवान् प्राहुः ‘किमप्यस्मानर्पयध्वं यूयम्' इति तैः स्वामिभक्त्याऽत्यन्तमत्यन्तमभ्यर्थिताः सुरास्तान् प्रति तं कृशानुं दत्तवन्तस्ते च तं स्वसदनेषु नीत्वा निर्वातस्थाने स्थापयित्वा घृतादिभिर्नित्यं पूजयन्ति, तत्प्रभृति तेऽग्निहोत्रिण इति प्रसिद्धिमुपागताः । ते च श्रावकाः તો તેવા કર્મોનો કેવળ ભોગવવાથી નાશ થાય - આવું માનવામાં બધું સંગત થઈ જાય છે. બાકીના ઢીલા-પોચા કર્મ-અનિકાચિત કર્મોનો તો જ્ઞાન-ક્રિયાના વિવેકસભર સમન્વયથી જ નાશ કરીને સાધકે ઝડપથી મુક્તિ સાધી લેવી જોઈએ. આવું જણાવવાનો અહીં ગ્રંથકારશ્રીનો આશય છે. (૨પ/૩૧) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354