________________
१७७६
• भस्मधारणात्क्लेशोच्छेदप्रवादमूलद्योतनम् • द्वात्रिंशिका-२५/३१ भाण्डधावने इव कृतेऽपि तच्छुद्ध्यसम्भवेनाऽपवर्गाऽसम्भवात्, शब्दानुशासनाऽभ्यासविकलानामपि जडभरतादीनां मुक्तिश्रवणाच्चेति दिक् ।
केचित्तु रक्तादिशुद्धिक्रमेण चक्रादिशुद्धिद्वारा द्वैतेच्छा-ब्रह्मानन्दसमुल्लास-निदानादिषोडशदशालाभतः क्लेशमुक्तिमुपपादयन्ति । तदुक्तं शम्भुगीतायां → आर्यजातौ क्रमाद् नूनं शुद्धिः शोणित-शुक्रयोः । पीठशुद्धेः समुत्पत्तौ परमाऽस्ति सहायिका ।। अध्यात्मलक्ष्यद्वारैव चक्रशुद्धिर्यथाक्रमम् । लभ्यते नाऽत्र सन्देहो विद्यते पितरो ! ध्रुवम् ।। अतो वर्णाश्रमा धर्माः प्रवृत्तेः रोधकाः तथा । निवृत्तेः पोषकाः सन्तः संशुद्धिं पीठ-चक्रयोः ।। समुत्पादयितुं नूनं पराः सन्ति सहायकाः । नाऽत्र कश्चन सन्देहो विद्यते हे स्वधाभुजः !।।
6 (शं.गी.५/१०९-११२) इत्यादि । तत्तु स्थूलनैगमनयाऽभिप्रायेण जीवविशेषानाश्रित्य कर्मक्लेशहानोपायतयाऽत्र सङ्गच्छत इत्यवधेयं समाकलितनानातन्त्ररहस्यैः मध्यस्थधीधनैः । __ बृहज्जाबालीयास्तु भस्मधारणादेः क्लेशहानोपायत्वमामनन्ति । तदुक्तं बृहज्जाबालोपनिषदि → भस्मच्छन्नः संसारान्मुच्यते । भस्मशय्याशयानः तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते, न स पुनरावर्तते - (बृ.जा.७/७) इति, → भस्मधारणादेव मुक्तिर्भवति - (बृ.जा.७/२) इति, → भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् । भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ।। (बृ.जा.५/१८) इति च । तदसत्, केवलादेव भस्मधारणान्मोक्षाऽभ्युपगमे सर्वैरेव यत्र कुत्रचिज्जन्मनि भस्मधारणेन अद्याऽवधि यावत् सर्वेषां जीवानां मोक्षाऽऽपत्तेः । एतेन → तिर्यक् तिस्रो रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति । तस्मात् तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय - (काला.१) इति कालाग्निरुद्रोपनिषद्वचनमपि प्रत्याख्यातम्, तत्त्वज्ञान-यम-नियमादिवैफल्यप्रसङ्गाच्च । एतेन तत्त्वज्ञानयम-नियमादिसहिताद् भस्मधारणान्मुक्तिरिति निरस्तम्, विशेषणेनैव कार्योदयसम्भवात् भस्मधारणस्याऽन्यथासिद्धत्वात् । एतेन → तेनाऽधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ।। (बृ.जा. ५/७) ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः । तेषां नाऽस्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।। - (बृ.जा. ५/९) इति बृहज्जाबालोपनिषद्वचने अपि निरस्ते, अन्वय-व्यतिरेकव्यभिचारदर्शनात् ।
वस्तुतस्तु प्रथमतीर्थकरनिर्वाणाऽनन्तरं तच्छरीरकुण्डाग्निभस्मनो वन्दनीयत्वादिबुद्ध्या तापसैर्ग्रहणाद् धारणाच्च 'भस्मधारणान्मुक्तिः' इति प्रवादप्रसिद्धिरवगन्तव्या । तदुक्तं दर्शनरत्नरत्नाकरे → अथ च ते भरतेन काकिणीरत्नेनाऽड्किताः श्राद्धा देवान् प्राहुः ‘किमप्यस्मानर्पयध्वं यूयम्' इति तैः स्वामिभक्त्याऽत्यन्तमत्यन्तमभ्यर्थिताः सुरास्तान् प्रति तं कृशानुं दत्तवन्तस्ते च तं स्वसदनेषु नीत्वा निर्वातस्थाने स्थापयित्वा घृतादिभिर्नित्यं पूजयन्ति, तत्प्रभृति तेऽग्निहोत्रिण इति प्रसिद्धिमुपागताः । ते च श्रावकाः તો તેવા કર્મોનો કેવળ ભોગવવાથી નાશ થાય - આવું માનવામાં બધું સંગત થઈ જાય છે. બાકીના ઢીલા-પોચા કર્મ-અનિકાચિત કર્મોનો તો જ્ઞાન-ક્રિયાના વિવેકસભર સમન્વયથી જ નાશ કરીને સાધકે ઝડપથી મુક્તિ સાધી લેવી જોઈએ. આવું જણાવવાનો અહીં ગ્રંથકારશ્રીનો આશય છે. (૨પ/૩૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org