________________
• वैयाकरण- बृहज्जाबालीयादिमतनिरासः •
१७७५
६७९) अधिकं न्यायखण्डखाद्ये । इति हेतोः निरुपक्रमकर्मणामेव = निकाचितत्वेनोपक्रमानर्हाणामेव कर्मणां भोगेकनाश्यत्वं केवलोपभोगजन्यध्वंसप्रतियोगित्वं आश्रयणीयम् । एतेन भोगेन मोक्षमाप्नुयात् ← (का.की.२) इति कामराजकीलितोद्धारोपनिषद्वचनमपि व्याख्यातम्, असङ्गभावेन स्वभूमिकौचित्यतो निकाचितकर्मफलभोगाऽपेक्षया तदुपपत्तेः । निकाचितत्वव्याख्या विशेषावश्यकभाष्यवृत्ती → गाढताऽध्यवसायेन बद्धत्वादपवर्तनादिकरणाऽयोग्यतां नीतं निकाचितमुच्यते ← (वि.आ.भा.२५१३ वृ.) इत्येवं श्रीहेमचन्द्रसूरिभिः रूढर्थत आवेदिता । व्युत्पत्त्यर्थपुरस्सरं विस्तरतः तद्व्याख्या तु 'कच बन्धने', नितरां कच्यते स्वयमेव बन्धमायाति कर्म जीवस्य तथाविधसंक्लिष्टाऽध्यवसायपरिणतस्य तत्प्रयुक्ते जीव एव तथाऽऽनुकूल्येन भवनात् ततः प्रयोक्तृव्यापारे णिञ्' (श्रीमल. आ. ६ - ५ ) । ततो निकाच्यतेऽवश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा 'कच बन्धने' इति चौरादिकोऽप्यस्ति, ततो निकाच्यतेऽवश्यवेद्यतया निबध्यते यया कर्म सा निकाचना जीववीर्यपरिणतिः ← ( क.प्र.गा. २/ पृ. १७) इत्येवं कर्मप्रकृतिवृत्तौ श्रीमलयगिरिचरणैः दर्शितेत्यवधेयम् । प्रकृतग्रन्थकृतोऽपि कर्मप्रकृतिवृत्तावेवमेवाऽभिप्रायः ।
अत एव त्रिषष्टिशलाकापुरुषचरित्रे अपि नाऽलं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अप ← (त्रि.श.१०/६/४२२) इत्युक्तम् । अयमत्राशयः- अध्यवसायवैचित्र्यात् प्रथमत एव जीवा द्विप्रकारं कर्म बध्नन्ति, शिथिलपरिणामतया फलं प्रत्यनियतस्वरूपं सोपक्रमम्, अत्यन्तदृढपरिणामतयाऽवन्ध्यसामर्थ्यञ्च निरुपक्रमं निकाचिताऽपराभिधानम् । सोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रतीकारसहत्वात् प्रायश्चित्तादिलक्षणपरिशुद्धाज्ञायोगनाश्यत्वम् । तदुक्तं उपदेशपदे अणिययसहावमेयं सोवक्कमकम्मुणो सरूवं तु । परिसुद्धाऽऽणाजोगो एत्थ खलु होइ सफलो त्ति ।। ← (उप.पद. ३४० ) इति ।
वस्तुतः अपूर्वकरणभाविधर्मसंन्यासयोगेन निकाचितकर्मक्षय इति योगमाहात्म्यद्वात्रिंशिकायां ( द्वा. द्वा. २६/२४) वक्ष्यते । धर्मसंन्यासयोग - प्रायश्चित्त-भोग- तपः- तत्त्वज्ञानादीनामेकशक्तिमत्त्वेनैव कर्मनाशकता, लाघवादित्यवोचम भानुमतीनाम्यां न्यायालोकटीकायाम् । निकाचितानामपि कर्मणां तपसाऽपि नाश्यतेति वक्ष्यतेऽग्रिमद्वात्रिंशिकायाम् ( द्वा. द्वा. २६ / २४ पृ. १८३३) ।
वैयाकरणास्तु → ‘शब्दब्रह्मणि निष्णातः परं ब्रह्मादि गच्छति' ← (मै.७/२२, त्रिपु.५/१७,ब्र.बिं. १७, म.भा.शांति.२७०) इति मैत्रायण्युपनिषत् - त्रिपुरातापिन्युपनिषद् ब्रह्मबिन्दूपनिषद्-महाभारतादिवचनात् शब्दाSनुशासनशास्त्रस्य निःश्रेयससाधनत्वं साधयन्ति । तदुक्तं वाक्यपदीये भर्तृहरिणा तद् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविधं प्रचक्षते ।। ← ( वा. प. १/१४) इति । तदुक्तं पातञ्जलमहाभाष्ये अपि एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति' ← (पा.म.भा. १/१/१) इति । ततश्च मुमुक्षुणा अन्यत् सर्वं परिहृत्य शब्दानुशासने एव कार्त्स्न्येन यतितव्यमित्याहुः, तन्न, अन्तःकरणस्य मलिनत्वे शतशोऽपि सहस्रशोऽपि वा सम्यक्शब्दप्रयोगे सुराબદલે ‘નિકાચિત કર્મો ભોગવવાથી જ નાશ પામે' તેવો નિયમ સ્વીકારવો વધુ વ્યાજબી છે. જે કર્મો હઠીલા હોય, નિકાચિતપણે બાંધેલા હોય, સ્વવિપાકોદય દેખાડ્યા વિના રવાના થાય તેમ ન જ હોય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=