________________
१७७४
• निकाचितानां भोगनाश्यत्वम् • द्वात्रिंशिका-२५/३१ नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपदृत्तिलाभस्याऽप्यनुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् ।।३१।। ।
तेषां पातञ्जलानां अपि अनन्तकालप्रचितानां कर्मणां नानाशरीरोपभोगनाश्यत्वकल्पनं = एकभवीय-समकालीन विभिन्नदेहकृतभोगजन्यध्वंसप्रतियोगित्वकल्पनं मोहः = अज्ञानं एव वर्तते । दर्शितरीत्या तावददृष्टानां = तावतां नाश्यानां कर्मणां युगपद् = समकालं वृत्तिलाभस्य = स्वविपाकोपधायकवृत्तिलाभस्य अपि अनुपपत्तेः = असम्भवात् । 'कारणसाम्राज्यादेव योगिकर्मणां युगपद्वृत्तिलाभोऽपि नानुपपन्नः' इति चेत् ? ननु तथापि 'तत्त्वज्ञानादेव तावददृष्टानां युगपद्वृत्तिलाभ' इति देवानांप्रियस्याऽभिमतम् । तदेव च कथं तत्प्रतिबन्धकाऽदृष्टक्षयं विना ? न च तत्क्षयोऽपि भोगादेव, अतत्त्वज्ञभोगस्य तदर्जकत्वात् । अपि चाऽध्यवसायविशेषादेव विचित्राऽदृष्टक्षयोपपत्तौ कायव्यूहादिकल्पनमप्रामाणिकमेवेति व्यक्तं (अ.म.प.१०१ वृत्ति) अध्यात्ममतपरीक्षावृत्तौ ।
प्रकृते → व्यक्ते ब्रह्मोपयोगे तु कामवृत्तिर्न तिष्ठति । तीव्र निकाचितं कर्म प्रारब्धं नैव नश्यति ।। - (अ.गी.१८३) इति पूर्वोक्तं(पृ.१३००) अध्यात्मगीतावचनमप्यनुसन्धेयम् । यथोक्तं द्वादशारनयचक्रे अपि श्रीमल्लवादिसूरिभिः → सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मनः पुरुषात्मनैकीभूतस्योदयोपशम-क्षयोपशमक्षया अवस्थाः सापेक्षा भवन्ति, मदनफलाद्वमनवत् भस्मपटलाच्छनाग्निवत्, दरविध्याताऽवच्छन्नज्वलनवत्, तृणदाहवद्वा ( (द्वा.न.अर-४, पृ.४८७) इति ।
ननु केवलज्ञानमेवाऽशेष भोगमुदीर्य कायव्यूहमहिम्नोपस्थाप्य कर्मक्षयक्षममस्तु इति चेत् ? मैवम्, अबोद्धृदशाप्रसङ्गात्, एवं हि शूकरादिभोग्यं कर्म क्षपयितुं शूकरादिशरीरमिवैकिन्द्रियादिशरीरभोग्यं ज्ञानावरणं क्षपयितुमेकेन्द्रियादिशरीरमपि परस्य तत्त्वज्ञानी परिगृह्णीयात् । तथा च तद्वदेवाऽबोद्धृत्वप्रसङ्गः । 'अज्ञानं न भोग्यं सुख-दुःखाऽनन्यतरत्वादिति न प्रसङ्ग' इति चेत्, न, 'जात्यायु गास्तद्विपाकः' (यो.सू. २/१३) इति सूत्रयता योगाऽऽचार्येण कर्मफलमात्रस्य भोग्यत्वाऽतिदेशात् । 'तत्त्वज्ञानप्रतिबन्धककर्मनाशादेव कैवल्योत्पत्ते ऽयं प्रसङ्ग' इति चेत् ? स एव कुतो जातः ? 'विविदिषा-शम-दमादिसहकृतयत्याश्रमोचिताऽऽचारादिति चेत् ? तर्हि यथा पूर्व शरीराऽपेक्षभोगं विनैव ततोऽदृष्टविशेषनाशस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि तत एव स किमिति नाऽद्रियते किं कायव्यूहादिकल्पनाक्लेशेनेति (न्या.खं.खा.गा.७९/पृ.
પરંતુ ગ્રંથકારશ્રી કહે છે કે પાતંજલ વિદ્વાનો અનંત કાળથી ભેગા કરેલા કર્મોને અનેક શરીરથી ભોગવીને જ ખતમ કરવાની જે કલ્પના કરે છે તે પણ તેઓની મૂઢતા જ છે. કારણ કે તેટલા બધા કર્મોનો એકીસાથે વિપાકઉદય થવો પણ અસંભવ છે. કૂતરા, ભૂંડ, બિલાડા, દેવ, નરક વગેરે ભવોમાં ભોગવી શકાય તેવા, જુદા-જુદા સમયે બાંધેલા, જુદા જુદા દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવ-ભવમાં ઉદયમાં આવવા નિર્માયેલા વિચિત્ર કર્મોનો વિપાકોદય એકીસાથે કઈ રીતે સંભવે ? એ લાખ ડોલરનો ગંભીર પ્રશ્ન પાતંજલ વિદ્વાનો માટે વિચારણીય જ બની રહે છે.
સહ નિકાચિત ર્ક્સ ભોગવવાથી જ રવાના થાય • જૈન છે તેમ છતાં ગ્રંથકાર શ્રીમદ્જી કહે છે કે “કર્મો ભોગવવાથી જ નાશ પામે'- તેવો નિયમ બાંધવાના ...... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org