SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ • वाममार्गीयमुक्तिमार्गस्योन्मादकारित्वम् • १७७७ स्वामिकुण्डाग्निनेक्ष्वाकुकुण्डशेषसाधुकुण्डकृशानुं विध्यातावुज्जीवयन्ति स्म, शेषं श्रमणकुण्डपावकं त्विक्षाकुकुण्डकृशानुना, शेषयतिकुण्डवह्निस्तु न कुत्रचित् सङ्क्रमति । अयं विधिरद्यापि प्रवर्त्तते ब्राह्मणेषु । कैश्चित्तु तद्भस्म वंदितं तत्प्रभृत्यभूवन भस्मविभूषणास्तापसाः - (द.र.र.४/३ पृ.४४९) इति । एतेन → भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् - (शिवो.५/१२) इति शिवोपनिषदुक्तिबीजमपि व्याख्यातम् । वृषभलाञ्छनतया पशुपतित्वेनाऽप्यादिमतीर्थकृत्प्रसिद्धिर्जाता । एतेन → सर्वज्ञ ईशः पशुपतिः । तज्ज्ञानं केनोपायेन जायते ? पुनः स तमुवाच 'विभूतिधारणादेव' - (जाबा. पृष्ठ.१) इति जाबाल्युपनिषद्वचनमपि व्याख्यातम्, वृषभपतिमीशं प्रति बहुमानादिप्रदर्शनपरत्वात् तस्य । एतेन → भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैः ? - (सि.शि.२६) इति सिद्धान्तशिखोपनिषद्वचनं व्याख्यातम् । ___यत्तु सरस्वतीरहस्योपनिषदि → यां विदित्वाऽखिलं बन्धं निर्मथ्याऽखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सरस्वती ।। - (स.रह.९) इत्युक्त्या सरस्वतीज्ञानस्य सकलक्लेशहानोपायत्वं दर्शितं तदसत्, सत्क्रियाशून्यस्य ज्ञानस्य सकलक्लेशनाशकत्वाऽसम्भवात् । किञ्च सरस्वतीज्ञानादपवर्गसिद्धान्तः → नान्यः पन्था दुःखविमुक्तिहेतुः सर्वेषु भूतेषु गणेशमेकम् । विज्ञाय तं मृत्युमुखात् प्रमुच्यते - (हेर.८/९) इति हेरम्बोपनिषद्वचनात् सत्प्रतिपक्षितो जायते । वस्तुतस्त्वर्थवादपरतयैव तद् व्याख्येयम् । एतेन → य इमां हेरम्बोपनिषदमधीते स सर्वान् कामान् लभते । स सर्वपापैः मुक्तो भवति - (हेर.१५) इति हेरम्बोपनिषद्वचनमपि अर्थवादपरतया व्याख्यातमवसेयम् । यच्च → वैकुण्ठस्थानादुत्पन्नं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं ममाऽङ्गे प्रतिदिनमालिप्तं, गोपिभिः प्रक्षालनाद् गोपीचन्दनमाख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थाऽन्तःस्थितं चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति - (वासु.१) इति वासुदेवोपनिषदि कथितं तच्च भगवद्भक्ति-समर्पणमहिमादिपरतयाऽवगन्तव्यं तन्त्रान्तरनीत्या, न तु विधिवादपरतया, अन्यथा यम-नियमादिविधिवाक्यवैयाऽऽपत्तेरिति दिक् । ___ शाक्तास्तु मद्य-मांस-मैथुनाद्युपभोगेन मुक्तिं वर्णयन्ति । तदुक्तं कालिकोपनिषदि → योषित्प्रियकरो भगोदकेन तर्पणं, तेनैव पूजनं कुर्यात् । सर्वदा कालिकारूपमात्मानं विभावयेत् । स सर्वदा योषिदासक्तो भवेत् । स सर्वहत्यां तरति तेन मधुदानेन । अथ पञ्चमकारेण सर्वमायादिविद्यां पशु-धन-धान्यं सर्वेशत्वं च कवित्वं च । नाऽन्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय - (कालि.२) इति । तदसत्, मद्य-मांस-मैथुनादेः निर्लज्जत्व-गृद्धि-हिंसाद्याक्षेपकतया सदोषत्वस्य पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वा.द्वा.७/४-२४ पृ.४५०-५०६) महता प्रबन्धेन व्यवस्थापितत्वात् । વિશેષાર્થ:- સંચિત કર્મોને ખપાવવા કાયવૂહની કલ્પના કરવાના બદલે જૈનદર્શને કેવલી મુઘાતની પ્રક્રિયા જણાવેલી છે. તે એકદમ નિર્દોષ છે. તેમાં ઉપરોક્ત દોષોને કોઈ અવકાશ રહેતો નથી. કેવલી સમુદ્ધાતનું સ્વરૂપ આવશ્યકનિર્યુક્તિ, પ્રવચનસારોદ્ધાર, દ્વિતીય કર્મગ્રન્થટીકા વગેરેમાં વિસ્તારથી બતાવેલ છે. જિજ્ઞાસુએ તેનું સ્વરૂપ ત્યાંથી જાણી લેવું. બાકીની વિગત ટીકાર્યમાં જ સ્પષ્ટ કરેલી છે.(૨૫/૩૧) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy