Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 278
________________ • कायव्यूहापाकरणम् • नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः कायव्यूहाऽनुपपत्तेः, नयवादास्तु तपः-संयम-ज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते । तदुक्तं विशेषावश्यकभाष्ये → “तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दज्जुसुआणं पुण णिव्वाणं संजमो चेव” । । ← (वि.आ.भा. २६२१) इति व्यक्तं अष्टसहस्रीतात्पर्यविवरणे ( अ. स.वि.१/६/पृ.११४) । युक्ततरञ्चैतद्, नानाभूमिकारूढमुमुक्षूणामिष्टोपायताग्राहकनयवैविध्यप्रदर्शनमन्तरेणाऽभ्रान्त-निष्कम्प-शीघ्रफलोपस्थापकोचितप्रवृत्त्यनुपपत्तेः, परीक्षकाणां निष्कम्पप्रवृत्तौ सर्वनयसमूहजन्येष्टोपायत्वग्रहस्यैव हेतुत्वाद्, अंशे तद्विसंवादेऽपि सामग्रीहेतुत्वग्रहे कस्याऽप्यविवादात् । अत एव 'तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहु' (आ.नि.१६३७, द.वै.नि.१/१५० ) इति आवश्यकनिर्युक्तौ दशवैकालिकनिर्युक्तो च फलितार्थकथनं भगवतां चरण-गुणयोः स्थित उभयत्र समपक्षपातः गुणशब्देन ज्ञान-दर्शनयोर्ग्रह इति प्रमाणार्पणायां व्याख्यानमित्यधिकं ( न्या. खं. खा. १२ पृ. १०६) न्यायखण्डखाद्ये अवसेयम् । किञ्च कर्मणां भोगैकनाश्यत्वे प्रायश्चित्तादिविधिरपि व्यर्थः स्यात् । तदुक्तं रामगीतायां → भोगेनैव विनाशश्चेत् प्रायश्चित्तवचो वृथा ← ( रा.गी. १०/१८) इति । 'अवश्यमेव भोक्तव्यमिति तु प्रदेशोदयाऽपेक्षयाऽस्माभिरप्यभ्युपगम्यत एव । अत एव न तत्कृते कायव्यूहाऽऽवश्यकताऽस्मन्मते । एतेन न य अवेदयित्ता अस्थि हु मोक्खो ← (प्र.व्या. १/१) इति प्रश्नव्याकरणसूत्रवचनं कडाण कम्माण न मुक्खु अत्थि ← ( उत्त.४ / ३) इति उत्तराध्ययनसूत्रवचनं, → पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता ← (द.वै. चू. १ ) इति च दशवैकालिकचूलिकावचनं व्याख्यातम् । ततश्च ब्रह्मसूत्रे भोगेन त्वितरे क्षपयित्वा सम्पद्यते ← ( ब्र. सू. ४/१/१९) इति यदुक्तं तत्र इतरपदेन निकाचितकर्मग्रहणमेव सङ्गच्छते इत्यवधेयम् । किञ्च नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः = शूकरादिदेहोत्पादाऽसङ्गतेः कायव्यूहाऽनुपपत्तेः, मनुष्यशरीरस्य मनुष्येतरशरीरविरोधित्वात्, अन्यथा स्वर्गजनकाऽदृष्टवतो यज्वनः तदानीमेव स्वर्गीयशरीरोपग्नहप्रसङ्गात् । न च तददृष्टस्य तदानीमलब्धवृत्तिकत्वान्नैवमिति वाच्यम्, तर्हि तत्त्वज्ञानिनोऽपि नानाविधाऽदृष्टानां युगपदलब्धवृत्तिकत्वान्न कायव्यूहसम्भवः । एतेन 'यौगपद्यञ्च कायानां तज्जनककर्मस्वभावात् तपःस्वभावाद् वेति' (त. चि. अनुमानखण्ड-भा. २ ईश्वरानुमाने पृ. १९३) इति तत्त्वचिन्तामणिकारवचनं निराकृतम्, औदारिकदेहं प्रति एकजीवकर्तृकौदारिकशरीरान्तरस्य प्रतिबन्धकत्वात् । देवादीनां तु वैक्रियशरीरादिकर्मोदयमहिम्नैवैकदा नानाशरीरोपपत्तेः । इयमेवाऽभिप्रेत्य त्रिषष्टिशलाकापुरुषचरित्रे हेमचन्द्रसूरिभिः नैसर्गिकी हि भवति घुसदां कामरूपिता ← (त्रि.श.पु. १ । ३ । ८५ ) इत्युक्तम् । एतेन सर्वं कर्म भोगजन्यनाशप्रतियोगि कर्मत्वात् भुक्तभुज्यमानकर्मवदिति कालीपदशर्मवचनं निराकृतम्, प्रायश्चितादिनाश्ये कर्मणि बाधात् । अथ तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षयः सम्भवेत्, सौभरिप्रभृतिमहर्षीणां कायव्यूहश्रवणादिति વળી, બીજી મહત્ત્વની વાત તો એ છે કે યોગી પાસે મનુષ્ય શરીર જ્યાં સુધી હાજર હોય ત્યાં સુધી ભૂંડ, કૂતરા, બિલાડા વગેરેના શરીરોને ધારણ કરી ન શકાય. એક શરીર બીજા શરીરને ધારણ કરવામાં પ્રતિબંધક છે. માટે કાયવ્યૂહ અસંગત છે. જો યોગજ-કર્મજન્ય હોવાથી તેવા શરી૨ને પ્રતિબધ્યકોટિમાંથી Jain Education International For Private & Personal Use Only १७७१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354