Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१६३२
• विशुद्धभोगस्य प्रमादबीजत्वाभावः •
द्वात्रिंशिका -२४/६
धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ।। ६ ।।
धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य (पुष्प) शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । ण हि मण्णदि जो एवं णत्थि विसेसो त्ति पुण्ण-पावाणं । हिंडदि घोरमपारं संसारं मोहसंछण्णो ।। ← (प्र.सा. १/७४-७७ ) इति गदितम् । तदुक्तं भावप्राभृते अपि सद्दहदि य पत्तेदि य रोचेदि च तह पुणो वि फासेदि । पुण्णं भोयणिमित्तं, ण हु सो कम्मक्खयणिमित्तं ।। ← (भा.प्रा. ८४) इति । प्रकृते परदव्वरओ बज्झदि, विरओ मुच्चेइ विविहकम्मेहिं । एसो जिणउवएसो समासदो बंध-मुक्खस्स ।। ← (मो. प्रा. १३) इति मोक्षप्राभृतवचनमपि यथागममनुयोज्यम् । धम्मस्स फलं मोक्खो ← (द.वै.नि. २६५ ) इति दशवैकालिकनियुक्तिवचनं तु संज्ञानयोगलक्षणतात्त्विकधर्माऽपेक्षयाऽवगन्तव्यं, न तु पुण्यलक्षणद्रव्यधर्माऽपेक्षयेति ध्येयम् ।। २४ / ५ ।।
स्थिरादृष्टिसम्पन्नयोगिपरिभाव्यमानं प्रकृतमेव समर्थयति- 'धर्मादिति । तथाप्रमादविधानात् = अविरत्यादिजन्यपञ्चविधप्रमादाऽऽक्षेपात् तस्य च पापबन्धे कारणत्वात् । शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं = अत्यन्ताऽनभिष्वङ्ग-निर्व्याजपरार्थकरणव्यसनाद्यनुविद्धाऽध्यवसायनिबद्धप्रबलनिरवद्यपुण्यप्रसूतस्य, अत एवाऽनासक्तभावेन भुज्यमानस्य, स्वक्षयद्वारा प्रतिबन्धकाभावविधया विशुद्धधर्मोपधायकस्य, इन्द्रियार्थसम्बन्धजन्यसुखानुभवात्मकस्य भोगस्य व्यवच्छेदार्थं जीवननिर्वाह-संयमयात्रानिर्वाहाद्यौपयिकाहार-वस्त्र-पात्रादिभोगोपयोगयोः वा निराकरणार्थं प्रायोग्रहणम् । न च शुद्धधर्माऽऽक्षेपकभोगस्य कथं नाऽनर्थनिमित्तत्वमिति शङ्कनीयम्, तस्य = विशुद्धधर्माऽऽक्षेपकस्य भोगस्य प्रमादबीजत्वाऽयोगात् तात्त्विकधर्मसेवनविलम्बकारित्वेऽपि अनर्थनिमित्तभूतविभावदशारमणताकारणत्वविरहात्, उत्तरोत्तरवर्धमानविशुद्ध्या परिणामतः अत्यन्ताऽनवद्यशान्तिनाथचक्रयादौ अत्यन्तनिर्दोषतीर्थस्थापना- युगपदसङ्ख्येयभव्यजीवप्रतिबोधाऽनुकूलसातिशयसद्धर्मदेशनाऽनुत्तरसुरसंशयापनोदनादिलक्षणस्य क्रमशः काय वाङ् - मनोव्यापारानुविद्धस्य फलस्य शुद्धेः दर्शनात् न शुद्धधर्माऽऽक्षेपकभोगस्याऽनर्थकारित्वमित्याशयः । इत्थं पुण्यशुद्ध्यादौ = उद्देश्यतायाः सप्तम्यर्थतया पुण्यशुद्धि-तदनुबन्धशुद्धि- सद्धर्मविनियोगाद्युद्देश्यकात् आगमाऽभिनिवेशात् = सदागम-तदुपदिष्टसिद्धान्त-विधि-यतनादिपक्षपातात् धर्मसारचित्तोपपत्तेः सद्धर्मप्रधानान्तःकरणवृत्त्युपपत्तेः । धर्मस्तु प्रकृते
तीर्थकरादिफलशुद्धेः
વિશેષાર્થ :- બેડી લોખંડની હોય કે સોનાની પણ બેડી અંતે તો બંધન જ છે. પુણ્ય સોનાની બેડી અને પાપ = લોખંડની બેડી. સંસારમાં બાંધી રાખવાનું કામ તો બન્ને એકસરખું જ કરે છે. ‘કર્મજનિત સુખ તે દુઃખરૂપ, સુખ તે આતમઝાંખ’ આ છે નિર્મળ સમકિતીના ઉદ્ગાર૨.(૨૪/૫) ગાથાર્થ :- ધર્મથી પણ ઉત્પન્ન થતા ભોગસુખ મોટા ભાગે જીવોને નુકશાનકારી જ થાય છે. ખરેખર શીતળ ચંદનથી પણ ઉત્પન્ન થયેલો અગ્નિ બાળે જ છે. (૨૪/૬)
ટીકાર્થ :- ધર્મથી પણ દેવલોક વગેરેમાં ઉત્પન્ન થતા ભોગસુખ મોટા ભાગે જીવોને નુકશાનકારી જ થાય છે. (કારણ કે તે ભોગસુખ તથાવિધ પ્રમાદને ઉત્પન્ન કરે છે. અને પ્રમાદથી પાપકર્મબંધ થાય છે. તેમ જ પાપકર્મના ઉદયથી દુઃખ-દુર્ગતિ-દુર્નિમિત્ત વગેરે મળે છે.) ‘મોટા ભાગે’ આવું કહેવાનું કારણ એ છે કે શુદ્ધ ધર્મને લાવનાર ભોગસુખની અહીં બાદબાકી કરવી અભિપ્રેત છે. અર્થાત્ વિશુદ્ધ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
d
=
=