Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• सम्यक्त्वादेः परमार्थतोऽबन्धकता •
सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्याऽपि तदविनाभूतयोग - कषायगतस्योपचारेणैव सम्भवात् । 'इन्द्रियाऽर्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र' विस्तरः ।।६।।
र्मादिबन्धकत्वस्याऽपि
=
=
उपचारमात्रेण
जिननामाSSहारकद्विकादिकर्मबन्धकत्वस्याऽपि तदविनाभूत - योगकषायगतस्य वस्तुतः सम्यक्त्वादिसहभाविकायादियोगाऽप्रत्याख्यानावरणादिकषायनिष्ठस्य उपचारेणैव सम्भवात् । अयमाशयः जोगा पयडि-पएसं, ठिइ- अणुभागं कसायाओ ← ( श. क. ९६ ) इति पूर्वोक्तात् (भाग-३, पृ. ८७६) शतकाभिधानपञ्चमकर्मग्रन्थकृद्देवेन्द्रसूरिवचनात् कर्मप्रकृति- प्रदेशबन्धकर्तृत्वं योगेषु स्थित्यनुभागबन्धकर्तृत्वञ्च कषायेषु एव निश्चयतः सिद्धम् । अतः सम्यक्त्वादिसहचरितेषु योग-कषायेष्वेव जिन नामकर्मादिबन्धकत्वं पर्यवस्यति । तथापि 'घृतं दहती 'तिन्यायाद् व्यवहारत उपचारमात्रेण सम्यक्त्वादीनां तीर्थकरनामकर्मबन्धकत्वमभिमतम् । तदुक्तं अध्यात्मसारे
तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते । यच्चाऽऽहारकहेतुत्वं संयमस्याऽतिशायिनः ।। तपः- संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तद्युक्तं स्याद् ' घृतं दहतीतिवत् ।। येनांशेनाऽऽत्मनो योगस्तेनांशेनाऽऽश्रवो मतः । येनांशेनोपयोगस्तु तेनांशेनाऽस्य संवरः ।। तेनाऽसावंशविश्रान्तौ बिभ्रदाश्रव-संवरौ । भात्यादर्श इव स्वच्छाऽस्वच्छभागद्वयः सदा 11 ← (अ.सा.१८/१४६-७-८-९) इति । तदुक्तं पुरुषार्थसिद्धयुपाये अपि येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागः तेनांशेनास्य बन्धनं भवति ।। ( पु . सि. २१३) एकस्मिन् समवायादत्यन्तविरुद्धकार्ययोरपि हि । इह दहति घृतमिति यथा व्यवहारस्तादृशो रूढिमितः ।। ← (पु.सि.२२१) इति । इत्थञ्च ' घृतं दहती 'ति न्यायेनाऽर्हत्पूजागता स्वरूपहिंसा सम्यक्त्वादिगुणयोगादेव मोक्षफलकत्वेनाऽभिमता व्यवहारनयतः । तदुक्तं मार्गपरिशुद्धिप्रकरणे →
१६३५
=
शुद्धेतरपरिणामौ निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ।। सम्यक्त्व-चरित्रे यत्, तीर्थकराहारबन्धके तूक्ते । नो योग-कषायाणां व्याप्त्या वैशिष्ट्यमात्रेण ।। तदिह यदंशे सम्यग् गुणप्रकर्षो न तेन बन्धोऽस्ति । अविरत्यंशेनासावविशिष्टो निष्फला हिंसा । । भक्त्या च व्यवहारः, सान्निध्यात्स्याद्यथा घृतं दहति । इत्थं च कल्प्यहिंसा, गुणयोगान्मोक्षफलदोक्ता । ।
← (मा. परि. २२१-२२४) इति । न चैवमपीन्द्रियाऽर्थसम्बन्धजन्यसुखाऽनुभवात्मकभोगघटकीभूतमिन्द्रियाऽर्थसम्बन्धादिकं किं कर्मबन्धकारणं स्यान्न वा ? इति शङ्का त्वसमाहितैवेति वाच्यम्, यतो भोगाऽन्तर्गतं इन्द्रियार्थसम्बन्धादिकं = चक्षुरादीन्द्रिय-रूपादिविषय- तदाऽऽभिमुख्यादिलक्षणेन्द्रियार्थसन्निकर्ष-करण
१. हस्तादर्श 'इन्द्रियन्त्र विस्तर' इति त्रुटितः पाठः । २ हस्तादर्शे ....वेदित्यन्यत्र' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
જો કે ‘સમ્યક્ત્વ વગેરે તીર્થંકર નામકર્મ વગેરેના બંધનું કારણ છે' એવું કર્મગ્રન્થ વગેરેમાં જણાવેલ છે તો પણ તે બંધકારણતા વાસ્તવમાં તો સમ્યક્ત્વ વગેરેની સાથે રહેનાર યોગ અને કષાયમાં જ રહેલી છે. પરંતુ છદ્મસ્થદશામાં કર્મબંધકારણીભૂત કષાય વગેરેની સાથે તે સમકિત વગેરે રહેલા હોવાના કારણે કષાયમાં રહેલી કર્મબંધકારણતાનો સમકિત વગેરેમાં ઉપચાર થાય છે. સ્થિરા દૃષ્ટિમાં રહેલો જીવ કર્મજન્ય ઈન્દ્રિયવિષયસંબંધનો અનુભવ કરવા છતાં પણ નિર્મળ સમ્યક્ત્વ વગેરેના પ્રભાવે તેમાં આસક્ત બનતો નથી. માટે કર્મબંધ પ્રત્યે ઈન્દ્રિય અને વિષયોનો સંબંધ કારણ નથી બની શકતો. પણ તેના પ્રત્યે તે ઉદાસીન જ રહે છે. આ બાબતનો વિસ્તાર અન્યત્ર જોવાની ગ્રંથકારશ્રી ભલામણ કરે છે. (૨૪/૬)
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354