Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• रत्नशिक्षादृगुदाहरणपरामर्शः
द्वात्रिंशिका - २४/२९ रत्नेति' । रत्नशिक्षादृशोऽन्या ( = रत्नशिक्षादृगन्या) हि यथा शिक्षितस्य सतः तन्नियोजनदृक्, तथाऽऽचारक्रियाऽप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते । पूर्वं हि साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ।। २९ ।।
तदुक्तं ओघनिर्युक्तौ पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु ← (ओ.नि. २५८) इति । अतः शङ्कातो ग्रन्थकृद् आह- 'रत्ने 'ति । इयं कारिका अध्यात्मसारेऽपि योगाधिकारे (अ.सा.१५/ १२) वर्तते ।
१६९२
=
यथा रत्नशिक्षादृशः सकाशात् शिक्षितस्य सतः तस्यैव तन्नियोजनदृक् = रत्नवाणिज्ये दृग् अन्या हि = एव भवति, फलभेदात् जात्याऽजात्य-सत्याऽसत्यरत्नपरीक्षण-शिक्षणप्रभृतिफलतो यथेच्छव्यापार-धनलाभवृद्ध्यादिलक्षणफलभेदात् तथा = तेनैव प्रकारेण अस्य = परायामवस्थितस्य योगिनो भिक्षाटनादिलक्षणा आचारक्रिया अपि पूर्वकालीनभिक्षाटनादिक्रियातः फलभेदात् विभिद्यते । पूर्वं = परादृष्टिलाभकालात् प्राक् साम्परायिककर्मक्षयः काषायिककर्माऽपराभिधानघातिकर्मक्षयः फलं भिक्षाटनादिफलं इदानीं परायां तु भवोपग्राहिकर्मक्षयः = अघातिकर्मक्षयः तत्फलमिति भेदः । पूर्वं तु पुण्यानुबन्धिपुण्यं बध्यतेऽपि, इह तु न तथाकर्मबन्धः । विशुद्धभावनाज्ञानयुक्तत्वात् सर्वज्ञत्वाद्वा नाऽयं क्रियां कुर्वन्नपि लिप्यते कर्मणा । तदुक्तं कृष्णगीतायां भावनाज्ञानयुक्ताऽऽत्मा क्रियासु नैव लिप्यते । आसक्तो निष्क्रियः सोऽपि लिप्यते कर्मपुद्गलैः ।। ← (कृ.गी. ८८), शुद्धात्मनि रमन्ते ते क्रियावन्तोऽपि निष्क्रियाः ← (कृ.गी. ९६ ) इति । तदुक्तं अध्यात्मगीतायामपि
आत्मशुद्धोपयोगेन साक्षीभूतो मनस्यपि । अक्रियः सर्वकर्ताऽपि मुक्तः स बन्धनेष्वपि ।। कुर्वन् हि सर्वकर्माणि ब्रह्मजीवनजीवकः । कर्मणा बध्यते नैव साक्षिवद् वर्तको भुवि ।। ← (अध्या.गी.७८,३३) इति । अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ।। ← ( रा.गी. ६।४७ ) इति रामगीतावचनं कर्मण्यकर्म यः पश्येदकर्मणि चकर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। ← (भ.गी. ४ / १८, सं.गी. ९/४५) इति भगवद्गीता - संन्यासगीतावचनं क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः । यस्य स्यात् सहि
=
=
•
ટીકાર્થ :- જેમ રત્નોનો અભ્યાસ કરનાર વ્યક્તિની દૃષ્ટિ કરતાં રત્નોની પરીક્ષામાં નિપુણ થયા પછી તે જ વ્યક્તિની રત્નના વેપારમાં દિષ્ટ જુદા જ પ્રકારની હોય છે. કારણ કે રત્નોનો અભ્યાસ કરતી વખતે જે દિષ્ટ હોય છે તેનું ફળ ‘રત્નો સાચા છે કે ખોટા ?' તેની જાણકારી હોય છે જ્યારે તે જ વ્યક્તિ રત્નોનો વેપાર કરે તે સમયે જે નજર હોય છે તેનું ફળ ‘વેપારમાં નફો કઈ રીતે વધારે થાય ?' તે તરફ જાગૃતિ હોય છે. તેમ આઠમી દૃષ્ટિવાળા યોગીની ભિક્ષાટનાદિ ક્રિયા પણ પૂર્વની (આઠમી ષ્ટિને ન પામેલી દશામાં થતી) ભિક્ષાટનાદિ ક્રિયા કરતાં જુદા જ પ્રકારની હોય છે. કારણ કે પહેલાં સાંપરાયિક કર્મ-કષાયાદિ ધાતિકર્મનો ક્ષય કરવો તે ભિક્ષાટનાદિ ક્રિયાનું ફળ હતું. જ્યારે આઠમી ષ્ટિમાં થતી ભિક્ષાટનાદિ ક્રિયાનું ફળ ભવોપગ્રાહી અઘાતિ કર્મની નિર્જરા છે. આમ ફળભેદ હોવાથી તે બન્ને ક્રિયા બાહ્ય દૃષ્ટિએ સમાન દેખાવા છતાં પરમાર્થથી જુદી જ છે - એવું સિદ્ધ થાય છે. (૨૪/૨૯) १. हस्तादर्शे 'रत्नेति' इति पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org