Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१७४८
• हेय-हेयहेतु-हान-हानोपायवर्णनम् • द्वात्रिंशिका-२५/२५ एतदेवाऽऽहतात्त्विको नाऽऽत्मनो योगो ह्येकान्ताऽपरिणामिनः । कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो ॥२५।।
तात्त्विक इति । तात्त्विकः = 'पारमार्थिको नाऽऽत्मनो हि योगः = सम्बन्ध एकान्ताऽपरिणामिनः सतो युज्यते । एवं च आहो ! इत्याश्चर्ये क्लेशास्तद्धानमपि कल्पनामात्रम् । उपचरितस्य भवप्रपञ्चस्य प्रकृतिगतत्वं विनाऽपि अविद्यामात्रनिर्मितत्वेन बौद्धनयेन वेदान्तिनयेनाऽपि च वक्तुं
एतदेव = पातञ्जलमताऽयुक्तत्वमेव मोक्षाऽपुरुषार्थत्वमेव च समर्थयन् ग्रन्थकृद् आह- 'तात्त्विक' इति । एकान्ताऽपरिणामिनः = सर्वथैव ध्वंसाऽप्रतियोगिनः सत आत्मनः प्रकृत्या सह पारमार्थिकः सम्बन्धः न हि = नैव युज्यते । ततश्च पुरुष-प्रकृतिसंयोगः कल्पनामात्रं, एवञ्च क्लेशाः अविद्यादयः हेयहेतवः तद्धानमपि = क्लेशहानमपि, अपिना हानोपायश्च कल्पनामात्रम्, नासिकाऽग्रेण कर्णमूलकर्षणन्यायेनाऽसम्भव्येवेति भावः । ततश्च → यथा चिकित्साशास्त्रं चतुर्दूहम्- (१) रोगो, (२) रोगहेतुः, (३) आरोग्यं, (४) भैषज्यमिति । एवमिदमपि शास्त्रं चतुर्दूहमेव । तद्यथा- (१) संसारः, (२) संसारहेतुः, (३) मोक्षः, (४) मोक्षोपाय इति । तत्र दुःखबहुलः संसारो = हेयः । प्रधान-पुरुषयोः संयोगो = हेयहेतुः । संयोगस्याऽऽत्यन्तिकी निवृत्तिः = हानम् । हानोपायः = सम्यग्दर्शनम् + (यो.सू.भा.२/१५) इति योगसूत्रभाष्ये व्यासवचनं प्लवत एव, एवमपि पुरुषस्य नित्यनिर्दुःखत्वात् दुःखहानेरपुरुषार्थत्वापत्तिर्दुर्निवारैव । न च दुःखप्रपञ्चस्य वस्तुगत्या प्रकृतिनिष्ठत्वेऽप्यतिसान्निध्यात् पुरुषे
औपचारिकत्वान्न मोक्षपुरुषार्थोच्छेदप्रसङ्ग इति वाच्यम्, पुरुषे उपचरितस्य भवप्रपञ्चस्य = जात्यायुर्भागविप्लवस्य प्रकृतिगतत्वं = प्रधाननिष्ठत्वाऽभ्युपगमं विनाऽपि लाघवाद् अविद्यामात्रनिर्मितत्वेन = अनादिविपर्ययमात्रजन्यत्वेन बौद्धनयेन वेदान्तिनयेनापि च वक्तुं शक्यत्वात् । ज्ञानाऽद्वैतवादिना योगाचाराऽभिधानेन बौद्धेन जगतः सांवृतिकसत्यत्वं ब्रह्माऽद्वैतवादिना च वेदान्तिना व्यावहारिकसत्यत्वं अविद्यामूलकं परमार्थतो मिथ्यैकस्वरूपं स्वीक्रियते तथैव पातञ्जलैरपि पुरुषसंसारस्य काल्पनिकसत्यत्वं वक्तुं शक्यत एव, लाघवात् । न चाऽन्यत्र स्थितस्यैवाऽन्यत्राऽऽरोपसम्भवात् प्रकृतिगतत्वं संसारस्य गुणपरिणामरूपस्य જ ઉચ્છેદ થઈ જાય. આ સૌથી મોટો દોષ પાતંજલ મતમાં આવે છે. આર્યાવર્તની સંસ્કૃતિમાં મોક્ષપુરુષાર્થ तो उन्द्रस्थाने छे. ते ४ पातंशनभi cinी ५.शे. (२५/२४)
આ જ બાબતનું સમર્થન કરતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- એકાંતે અપરિણામી એવા આત્માને તાત્ત્વિક બુદ્ધિસંયોગ થતો નથી. આશ્ચર્યની વાત છે કે આ રીતે ક્લેશ અને તેનો ઉચ્છેદ પણ કલ્પનામાત્ર બની જશે. (૨૫/૨૫)
- शहानि उपनामात्र - न . ટીકાર્ય - આત્મા સર્વથા અપરિણામી હોય તો બુદ્ધિતત્ત્વનો પારમાર્થિક સંયોગ સંબંધ પણ આત્મામાં સંગત થઈ ન શકે. આશ્ચર્યની વાત છે કે આ રીતે તો ક્લેશો અને ક્લેશઉચ્છદ પણ કલ્પનામાત્ર બની જશે. કારણ કે ઔપચારિક સંસારપ્રપંચને તો પ્રકૃતિગત ન માનો તો પણ પાતંજલમતે તે અવિદ્યાનિર્મિત હોવાના કારણે તેવો ભવપ્રપંચ તો બૌદ્ધમતથી અને વેદાન્તીમતથી પણ કહેવો શક્ય છે. १. हस्तादर्श ‘पारिष्यार्थिको' इति पाठः । हस्तादर्शान्तरे ‘पारिध्यार्थ' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org