Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 230
________________ • परतत्त्वदर्शने विषयरागविलयः • १७२३ तत् = प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् । 'ध्रुवत्वभानमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् ।।११।। आत्मदर्शनमात्रस्यैव लाघवेन = कारणतावच्छेदकशरीरलाघवेन प्रेमहेतुत्वात् = स्नेहकारणत्वाऽऽवश्यकत्वात्। उपप्लवविमुक्ताऽविनश्वरचित्सन्तानोद्देशेनैव सुगतप्रव्रज्या प्रसिद्धा। तदुक्तं मज्झिमनिकाये महासारोपमसूत्रे स्वयमेव सुगतेन → या च खो अयं, भिक्खवे, अकुप्पा चेतोविमुत्ति एतदत्थमिदं, भिक्खवे !, ब्रह्मचरियं, एतं सारं, एतं परियोसानं ति - (म.नि. १।३।९।३११-पृ.२६०) इति । अकुप्पा = अविच्युता, अविनश्वरेति यावत्, परियोसानं = चरमं परमं च लक्ष्यम् । शिष्टं स्पष्टम् । तदुक्तं मज्झिमनिकाये एव धातुविभङ्गसूत्रे अपि → भिक्खु ! मुसा यं मोसधम्म, तं सच्चं (अवितथं) यं अमोसधम्मं निब्बानं 6 (म.नि. ३।४।१०।३६६) इति । निर्वाणस्याऽमोषधर्मत्वमविनश्वरत्वमेव । तदुक्तं मज्झिमनिकायवृत्तौ धर्मपालेन → 'मोसधम्मन्ति = नस्सनभाव'न्ति । तं अवितथन्ति तं वुत्तनयेन अवितथं नाम तं सभावो सब्बकालं तेनेव लब्भनतो - (म.नि.३।४।१०।३६६ वृत्ति) इति । एतेन नैरात्म्यदर्शनं = क्षणिकाऽऽत्मदर्शनमेव निर्वाणकारणमिति निरस्तम्, अपसिद्धान्ताऽऽपातात् । आत्मनि मोहाद् ध्रुवत्वभानमेव स्नेहहेतुः न त्वात्मभानमात्रं इति नैरात्म्यवादिमतं तु स्ववासनामात्रं = स्वदर्शनाऽऽहितवासनाविलासमात्रं, मात्रपदेन तथावस्तुस्थितिबाधो द्योतितः । प्रत्युत ध्रुवाऽऽत्मदर्शनेनाऽध्रुवसांसारिकभोगगोचरतृष्णादयो विलीयन्त इत्यावश्यकमेव ध्रुवसच्चिदानन्दमयाऽऽत्मदर्शनम् । सम्मतञ्चेदं परेषामपि । अत एव → भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चाऽस्य कर्माणि तस्मिन दृष्टे परावरे ।। - (मुं.२/२/८,महो.४/८२,यो.शि.५/४५,अन्न.४/३१,सर.५६) इत्येवमुक्तं मुण्डकोपनिषदि महोपनिषदि योगशिखोपनिषदि अन्नपूर्णोपनिषदि सरस्वतीरहस्योपनिषदि च । यथोक्तं कठोपनिषदि अपि → अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते - (कठो.२/१/२) इति । एतेन → तमेव विदित्वाऽतिमृत्युमेति नाऽन्यः पन्था विद्यतेऽयनाय + (य.वे.३१/१८, श्वे.३/ ८) इति यजुर्वेदश्वेताश्वतरोपनिषद्वचनं, → पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय 6 (त्रि.वि.४/३) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं च व्याख्यातम्। प्रकृते → तरति शोकमात्मवित् + (छां.७/१/३) इति छान्दोग्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । एतेन → आत्मा वा अरे ! द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः 6 (बृ.आ.उप.२/४/५) इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम् । आत्मदर्शनं विना तु विषयत्यागेऽपि विषयरागत्यागाऽयोगात् । एतेन → विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज, रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।। - (भ.गी.२/५९) इति भगवद्गीतावचनमपि व्याख्यातम्, 'परं = शुद्धात्मानमि'त्यर्थः । ___ यच्चाऽपि प्राक् (द्वा.द्वा.२५/५ पृ.१७०६) → आत्मानमन्तरा कोऽपि नाऽन्यः प्रियतमो भुवि કારણે યુવત્વનું ભાન જ રાગહેતુ છે” આવું બૌદ્ધ કથન તો માત્ર પોતાની બૌદ્ધમાન્યતાનો કેવળ વિલાસ छ. भाटे नैशभ्यशनवाह योगस. छ. (२५/११) १. मुद्रितप्रतौ 'ध्रुवत्वभावनमेव...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354