________________
• परतत्त्वदर्शने विषयरागविलयः •
१७२३ तत् = प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् । 'ध्रुवत्वभानमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् ।।११।। आत्मदर्शनमात्रस्यैव लाघवेन = कारणतावच्छेदकशरीरलाघवेन प्रेमहेतुत्वात् = स्नेहकारणत्वाऽऽवश्यकत्वात्। उपप्लवविमुक्ताऽविनश्वरचित्सन्तानोद्देशेनैव सुगतप्रव्रज्या प्रसिद्धा। तदुक्तं मज्झिमनिकाये महासारोपमसूत्रे स्वयमेव सुगतेन → या च खो अयं, भिक्खवे, अकुप्पा चेतोविमुत्ति एतदत्थमिदं, भिक्खवे !, ब्रह्मचरियं, एतं सारं, एतं परियोसानं ति - (म.नि. १।३।९।३११-पृ.२६०) इति । अकुप्पा = अविच्युता, अविनश्वरेति यावत्, परियोसानं = चरमं परमं च लक्ष्यम् । शिष्टं स्पष्टम् । तदुक्तं मज्झिमनिकाये एव धातुविभङ्गसूत्रे अपि → भिक्खु ! मुसा यं मोसधम्म, तं सच्चं (अवितथं) यं अमोसधम्मं निब्बानं 6 (म.नि. ३।४।१०।३६६) इति । निर्वाणस्याऽमोषधर्मत्वमविनश्वरत्वमेव । तदुक्तं मज्झिमनिकायवृत्तौ धर्मपालेन → 'मोसधम्मन्ति = नस्सनभाव'न्ति । तं अवितथन्ति तं वुत्तनयेन अवितथं नाम तं सभावो सब्बकालं तेनेव लब्भनतो - (म.नि.३।४।१०।३६६ वृत्ति) इति । एतेन नैरात्म्यदर्शनं = क्षणिकाऽऽत्मदर्शनमेव निर्वाणकारणमिति निरस्तम्, अपसिद्धान्ताऽऽपातात् ।
आत्मनि मोहाद् ध्रुवत्वभानमेव स्नेहहेतुः न त्वात्मभानमात्रं इति नैरात्म्यवादिमतं तु स्ववासनामात्रं = स्वदर्शनाऽऽहितवासनाविलासमात्रं, मात्रपदेन तथावस्तुस्थितिबाधो द्योतितः । प्रत्युत ध्रुवाऽऽत्मदर्शनेनाऽध्रुवसांसारिकभोगगोचरतृष्णादयो विलीयन्त इत्यावश्यकमेव ध्रुवसच्चिदानन्दमयाऽऽत्मदर्शनम् । सम्मतञ्चेदं परेषामपि । अत एव → भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चाऽस्य कर्माणि तस्मिन दृष्टे परावरे ।। - (मुं.२/२/८,महो.४/८२,यो.शि.५/४५,अन्न.४/३१,सर.५६) इत्येवमुक्तं मुण्डकोपनिषदि महोपनिषदि योगशिखोपनिषदि अन्नपूर्णोपनिषदि सरस्वतीरहस्योपनिषदि च । यथोक्तं कठोपनिषदि अपि → अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते - (कठो.२/१/२) इति ।
एतेन → तमेव विदित्वाऽतिमृत्युमेति नाऽन्यः पन्था विद्यतेऽयनाय + (य.वे.३१/१८, श्वे.३/ ८) इति यजुर्वेदश्वेताश्वतरोपनिषद्वचनं, → पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय 6 (त्रि.वि.४/३) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं च व्याख्यातम्। प्रकृते → तरति शोकमात्मवित् + (छां.७/१/३) इति छान्दोग्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । एतेन → आत्मा वा अरे ! द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः 6 (बृ.आ.उप.२/४/५) इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम् । आत्मदर्शनं विना तु विषयत्यागेऽपि विषयरागत्यागाऽयोगात् । एतेन → विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज, रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।। - (भ.गी.२/५९) इति भगवद्गीतावचनमपि व्याख्यातम्, 'परं = शुद्धात्मानमि'त्यर्थः । ___ यच्चाऽपि प्राक् (द्वा.द्वा.२५/५ पृ.१७०६) → आत्मानमन्तरा कोऽपि नाऽन्यः प्रियतमो भुवि કારણે યુવત્વનું ભાન જ રાગહેતુ છે” આવું બૌદ્ધ કથન તો માત્ર પોતાની બૌદ્ધમાન્યતાનો કેવળ વિલાસ छ. भाटे नैशभ्यशनवाह योगस. छ. (२५/११) १. मुद्रितप्रतौ 'ध्रुवत्वभावनमेव...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org