________________
१७२४
• नैरात्म्यदर्शनस्य बन्धनरूपता • द्वात्रिंशिका-२५/११ (अ.गी.५१) इति अध्यात्मगीतादिसंवादेनोक्तं तत्तु तथैव, परं तत्र मोहवासनैव बाधिका न तु शुद्धवासनेति ध्येयम् । ___इत्थञ्चोपप्लवहासान्नाऽऽत्मदर्शनस्य वैराग्यप्रतिपन्थित्वमिति सिद्धम् । तदुक्तं योगबिन्दौ → न चाऽऽत्मदर्शनादेव स्नेहो यत्कर्महेतुकः । नैरात्म्येऽप्यन्यथाऽयं स्याज्ज्ञानस्याऽपि स्वदर्शनात् ।। अध्रुवेक्षणतो नो चेत् ? कोऽपराधो ध्रुवेक्षणे ?। तद्गता कालचिन्ता चेत् ? नाऽसौ कर्मनिवृत्तितः ।। उपप्लववशात् प्रेम सर्वत्रैवोपजायते । निवृत्ते तु न तत् तस्मिन् ज्ञाने ग्राह्याऽऽदिरूपवत् ।। स्थिरत्वमित्थं न प्रेम्णो यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः ।।
6 (यो.बि.४७३-४७६) इति । ततश्च देहाद्यन्तर्गतध्रुवात्माऽभ्युपगमलक्षणसत्कायदृष्टिसंयोजनाऽभिधानबन्धनोच्छेदाय प्रवृत्तं नैरात्म्यदर्शनमतमयुक्तमेवेति. स्थितम्, अन्यथा 'नास्ति आत्मा' इत्यस्याऽपि षड्विधदृष्टिसंयोजनाऽन्तःपातित्वेन नैरात्म्यदर्शनस्य जन्म-जरा-मरणाऽविच्छेदहेतुत्वमेवाऽऽपद्येत । तदुक्तं श्रावस्तिकायामनाथपिण्डिकाऽऽरामे विचरता सुगतेनैव → (१) 'अत्थि मे अत्ताति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (२) 'नत्थि मे अत्ताति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (३) 'अत्तनाव अत्तानं सजानामीति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (४) 'अत्तनाव अनत्तानं सजानामी ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (५) 'अनत्तनाव अत्तानं सजानामी'ति वा अस्स सच्चतो थेततो दिट्ठि उप्पज्जति, (६) अथ वा पनस्स एवं दिठ्ठि होति 'यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्लाण-पापकानं कम्मानं विपाकं पटिसंवेदेति सो खो पन मे अयं अत्ता निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथैव ठस्सती'ति । इदं वुच्चति भिक्खवे! दिट्ठिगतं दिविगहनं दिट्ठिकन्तारं दिह्रिविसूकं दिविविप्फन्दितं दिट्ठिसंयोजनं । दिट्ठिसंयोजनसंयुत्तो भिक्खवे! अस्सुतवा पुथुज्जनो न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि । न परिमुच्चति दुक्खस्मा'ति वदामि (म.नि.भाग-१/१/२/१९ पृष्ठ-१२) इति व्यक्तं मज्झिमनिकाये मूलपर्यायवर्गे सर्वाश्रवसूत्रे । थेततो = शब्दादितः, अत्तनाव = आत्मनैव, दिट्ठिसंयोजनसंयुत्तो = दृष्टिबन्धनसंयुक्तः, अस्सुतवा = अश्रुतवान् पुथुज्जनः = मूढजनः, उपायासेहि = दुःखैः, शिष्टं स्पष्टम् ।।
वस्तुतस्तु सम्यक्समाधिप्रकर्षे बाधकत्वाद् आत्मगोचरध्रुवत्वाऽध्रुवत्वादिविकल्पास्त्याज्या निर्भयतयेत्यत्रैव तात्पर्यं बुद्धस्य शून्यतावादप्रतिपादनप्रयोजकाऽऽध्यात्मिकैदम्पर्याऽवधारणप्रवणतथाविधविनेयानुगुण्यतः प्रवृत्तायां शून्यवादाऽपराऽभिधाननैरात्म्यदेशनायामवसेयम् । तदुक्तं शास्त्रवार्तासमुच्चये → एवञ्च शून्य' વિશેષાર્થ - ગ્રંથકારશ્રીનું તાત્પર્ય એ છે કે રાગ થવાનું કારણ અનાદિકાલીન મોહના સંસ્કાર છે કે જેને બૌદ્ધદર્શન ઉપપ્લવ-સંકલેશ-વિસભાગસંતતિ વગેરે વિવિધ શબ્દોથી વર્ણવે છે. તેથી જૈનદર્શન મુજબ મોહ મૂળમાંથી રવાના થાય અને બૌદ્ધદર્શન મુજબ ઉપપ્લવનો ઉચ્છેદ થાય તો રાગ પ્રગટ થવાની કોઈ શક્યતા રહેતી નથી. પણ ધ્રુવ આત્મદર્શનના કારણે આ ઉત્પન્ન થાય છે - એવું માનવાની જરૂર નથી. તેમ છતાં જો ધ્રુવ આત્માના દર્શનને રાગજનક માનવું હોય તો તેના કરતાં આત્મદર્શનને જ રાગનું કારણ માનવું ઉચિત છે. કારણ કે તેવું માનવામાં કારણતાઅવચ્છેદક ધર્મમાં લાઘવ થાય છે. આત્મદર્શનત્વ કરતાં ધૃવાત્મદર્શન–ને રાગકારણતાઅવચ્છેદક માનવામાં ગૌરવ સ્પષ્ટ જ છે. માટે ધ્રુવાત્મદર્શનને રાગનું કારણ ન મનાય. પરંતુ આત્મદર્શનને જ રાગકારણ માનવું પડે. તેવું માનવામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org