________________
• स्याद्वादे सापेक्षतया नैरात्म्यदर्शनसम्मतिः •
१७२५
वादोऽपि तद्विनेयाऽऽनुगुण्यतः अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ।। ← (शा. वा. स. ६ / ६३) इति । न तु तत्त्वाऽभिधित्सया नैरात्म्यदेशना सम्प्रवृत्ता इति पूर्वं (पृ. १५९९) उक्तमेव । युक्तञ्चैतद्, यतो देहेन्द्रियाऽन्तःकरण-रागादि-सङ्कल्पादिकर्माद्यपोढाऽऽत्मदर्शनमेव पारमार्थिकं नैरात्म्यदर्शनम् । एतेन → तज्ज्योतिरस्य सर्वस्य पुरतः सुविभात-मविभातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवत् ← (नृ.उत्त. ६ / ३) इति नृसिंहोत्तरतापनीयोपनिषद्वचनतात्पर्यमपि व्याख्यातम्, अन्तःसच्चिदाऽऽनन्दघनत्वेऽपि बहिःशून्यताया अनुपसर्जनभावेन विवक्षिततया शून्यवादोपपत्तेः । तदुक्तं तत्रैवाऽग्रे परमं ब्रह्माSSत्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्ताः ← (नृ. उत्त. ६/४), न हीदं सर्वं निरात्मकम् । आत्मैवेदं सर्वं ← (नृ.उत्त. ७/२), शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूपः आत्मा, न ह्येतन्निरात्मकम्
← (नृ. उत्त. ९) इत्यादि ।
एतेन
स्वप्रकाशमानन्दघनं शून्यमभवत् ← (नृसिं. ६-३) इति नृसिंहोत्तरतापनीयोपनिषद्वचनं → जगच्छून्यं चाऽशून्यं च ← (देव्यु . १ ) इति देव्युपनिषद्वचनं चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं शून्योऽसि निर्गुणः ।। ← (ते. बिं. ५ / ६५ ) इति न शून्यं नाऽपि चाऽशून्यं नाऽन्तःकरणसंसृतिः ← (ते. बिं. ६ / १७ ) इति च तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम्, निरुपाधिकाऽऽनन्द-चैतन्यादिसत्त्वेऽपि अन्तःकरणवृत्ति-प्रवृत्ति-सङ्कल्प-विकल्प-सोपाधिकगुणाद्यभावापेक्षया शून्यत्वोपपत्तेः । इत्थमेव शान्ता दान्ता उपरताः तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेव परमं ब्रह्मात्मप्रकाशं शून्यं जानन्तः तत्रैव परिसमाप्ताः ← (नृ.सिं. ७/ ६) इति नृसिंहोत्तरतापनीयोपनिषद्वचनोपपत्तेः । अनुभवाऽऽत्मनि स्वप्रकाशे सर्वसाक्षिणि अविक्रियेऽद्वयेऽनुभूयमानेऽविद्यादेहेन्द्रियादेरननुभवाच्छून्यत्वमिति यावत् तात्पर्यम् ।
सम्मतञ्चेदमस्माकमपि । तदुक्तं नागसेनमुनिना तत्त्वानुशासने
अत एवाऽन्यशून्योऽपि नाऽऽत्मा शून्यः स्वरूपतः । शून्याऽशून्यस्वभावोऽयमात्मनैवोपलभ्यते ।। ततश्च यज्जगुर्मुक्त्यै नैरात्म्याऽद्वैतदर्शनम् । तदेतदेव यत् सम्यगन्याऽपोढाऽऽत्मदर्शनम् ।। परस्परपरावृत्ताः सर्वे भावाः कथञ्चन । नैरात्म्यं जगतो यद्वन्नैर्जगत्यं तथाऽऽत्मनः || अन्याऽऽत्माऽभावो नैरात्म्यं स्वात्मसत्तात्मकश्च सः । स्वाऽऽत्मदर्शनमेवाऽतः सम्यग्नैरात्म्यदर्शनम् ।। ← (तत्त्वानु.५/३३-३६) इति गम्भीरबुद्ध्या भावनीयं योगलक्षणद्वात्रिंशिकोक्तञ्चात्र(पृ.७३४)स्मर्तव्यम् । वस्तुतस्तु बौद्धानामपि ज्ञान - क्रियाभ्यामेव क्लेशहानमभिप्रेतम् । तदुक्तं सुत्तनिपाते विरियेन दुक्खं अच्चेति, पञ्ञय परिसुज्झति ← (सु.नि. १/१०/४) इति, अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोति ← (सु.नि. २ / २२/४ ) इति च । याऽपि मज्झिमनिकाये विसुद्धिमग्गे च विरागा विमुच्चति ← (म.नि.३/२०, वि.म.१६/६४) इत्येवं वीतरागतायाः क्लेशहानोपायता दर्शिता साऽपि આવે તો ક્ષણિક એવા આત્માનું દર્શન પણ બૌદ્ધ માટે રાગજનક બની જશે. કારણ કે તેમાં આત્મદર્શનત્વસ્વરૂપ રાગકારણતાઅવચ્છેદક ગુણધર્મ રહે છે. માટે નૈરાત્મ્યદર્શનને = ક્ષણિક આત્મદર્શનને પણ સંસારનું જ કારણ માનવું પડશે. માટે નૈરાત્મ્યદર્શનથી નિર્વાણ થવાની બૌદ્ધમાન્યતા કપોલકલ્પિત સિદ્ધ થાય છે. આ રીતે ક્લેશહાનિના સાધન વિશે બૌદ્ધદર્શનસંબંધી ચર્ચા પૂર્ણ થાય છે. (૨૫/૧૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org