SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ • सम्यक्त्वादेः परमार्थतोऽबन्धकता • सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्याऽपि तदविनाभूतयोग - कषायगतस्योपचारेणैव सम्भवात् । 'इन्द्रियाऽर्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र' विस्तरः ।।६।। र्मादिबन्धकत्वस्याऽपि = = उपचारमात्रेण जिननामाSSहारकद्विकादिकर्मबन्धकत्वस्याऽपि तदविनाभूत - योगकषायगतस्य वस्तुतः सम्यक्त्वादिसहभाविकायादियोगाऽप्रत्याख्यानावरणादिकषायनिष्ठस्य उपचारेणैव सम्भवात् । अयमाशयः जोगा पयडि-पएसं, ठिइ- अणुभागं कसायाओ ← ( श. क. ९६ ) इति पूर्वोक्तात् (भाग-३, पृ. ८७६) शतकाभिधानपञ्चमकर्मग्रन्थकृद्देवेन्द्रसूरिवचनात् कर्मप्रकृति- प्रदेशबन्धकर्तृत्वं योगेषु स्थित्यनुभागबन्धकर्तृत्वञ्च कषायेषु एव निश्चयतः सिद्धम् । अतः सम्यक्त्वादिसहचरितेषु योग-कषायेष्वेव जिन नामकर्मादिबन्धकत्वं पर्यवस्यति । तथापि 'घृतं दहती 'तिन्यायाद् व्यवहारत उपचारमात्रेण सम्यक्त्वादीनां तीर्थकरनामकर्मबन्धकत्वमभिमतम् । तदुक्तं अध्यात्मसारे तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते । यच्चाऽऽहारकहेतुत्वं संयमस्याऽतिशायिनः ।। तपः- संयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः । उपचारेण तद्युक्तं स्याद् ' घृतं दहतीतिवत् ।। येनांशेनाऽऽत्मनो योगस्तेनांशेनाऽऽश्रवो मतः । येनांशेनोपयोगस्तु तेनांशेनाऽस्य संवरः ।। तेनाऽसावंशविश्रान्तौ बिभ्रदाश्रव-संवरौ । भात्यादर्श इव स्वच्छाऽस्वच्छभागद्वयः सदा 11 ← (अ.सा.१८/१४६-७-८-९) इति । तदुक्तं पुरुषार्थसिद्धयुपाये अपि येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागः तेनांशेनास्य बन्धनं भवति ।। ( पु . सि. २१३) एकस्मिन् समवायादत्यन्तविरुद्धकार्ययोरपि हि । इह दहति घृतमिति यथा व्यवहारस्तादृशो रूढिमितः ।। ← (पु.सि.२२१) इति । इत्थञ्च ' घृतं दहती 'ति न्यायेनाऽर्हत्पूजागता स्वरूपहिंसा सम्यक्त्वादिगुणयोगादेव मोक्षफलकत्वेनाऽभिमता व्यवहारनयतः । तदुक्तं मार्गपरिशुद्धिप्रकरणे → १६३५ = शुद्धेतरपरिणामौ निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ।। सम्यक्त्व-चरित्रे यत्, तीर्थकराहारबन्धके तूक्ते । नो योग-कषायाणां व्याप्त्या वैशिष्ट्यमात्रेण ।। तदिह यदंशे सम्यग् गुणप्रकर्षो न तेन बन्धोऽस्ति । अविरत्यंशेनासावविशिष्टो निष्फला हिंसा । । भक्त्या च व्यवहारः, सान्निध्यात्स्याद्यथा घृतं दहति । इत्थं च कल्प्यहिंसा, गुणयोगान्मोक्षफलदोक्ता । । ← (मा. परि. २२१-२२४) इति । न चैवमपीन्द्रियाऽर्थसम्बन्धजन्यसुखाऽनुभवात्मकभोगघटकीभूतमिन्द्रियाऽर्थसम्बन्धादिकं किं कर्मबन्धकारणं स्यान्न वा ? इति शङ्का त्वसमाहितैवेति वाच्यम्, यतो भोगाऽन्तर्गतं इन्द्रियार्थसम्बन्धादिकं = चक्षुरादीन्द्रिय-रूपादिविषय- तदाऽऽभिमुख्यादिलक्षणेन्द्रियार्थसन्निकर्ष-करण १. हस्तादर्श 'इन्द्रियन्त्र विस्तर' इति त्रुटितः पाठः । २ हस्तादर्शे ....वेदित्यन्यत्र' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only જો કે ‘સમ્યક્ત્વ વગેરે તીર્થંકર નામકર્મ વગેરેના બંધનું કારણ છે' એવું કર્મગ્રન્થ વગેરેમાં જણાવેલ છે તો પણ તે બંધકારણતા વાસ્તવમાં તો સમ્યક્ત્વ વગેરેની સાથે રહેનાર યોગ અને કષાયમાં જ રહેલી છે. પરંતુ છદ્મસ્થદશામાં કર્મબંધકારણીભૂત કષાય વગેરેની સાથે તે સમકિત વગેરે રહેલા હોવાના કારણે કષાયમાં રહેલી કર્મબંધકારણતાનો સમકિત વગેરેમાં ઉપચાર થાય છે. સ્થિરા દૃષ્ટિમાં રહેલો જીવ કર્મજન્ય ઈન્દ્રિયવિષયસંબંધનો અનુભવ કરવા છતાં પણ નિર્મળ સમ્યક્ત્વ વગેરેના પ્રભાવે તેમાં આસક્ત બનતો નથી. માટે કર્મબંધ પ્રત્યે ઈન્દ્રિય અને વિષયોનો સંબંધ કારણ નથી બની શકતો. પણ તેના પ્રત્યે તે ઉદાસીન જ રહે છે. આ બાબતનો વિસ્તાર અન્યત્ર જોવાની ગ્રંથકારશ્રી ભલામણ કરે છે. (૨૪/૬) www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy