________________
१६३४ • बन्धनाऽबन्धनाऽनेकान्तः •
द्वात्रिंशिका-२४/६ लोकसिद्धत्वादिति वदन्ति' । युक्तं चैतन्निश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । सकललोकसिद्धत्वादिति श्रीहरिभद्रसूरयः → धर्मादपि भवन् भोगः प्रायोऽनय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ।। - (यो.दृ.स.१६०) इति योगदृष्टिसमुच्चयकारिकाया वृत्तौ वदन्ति। तदुक्तं प्रकृतकारिकामनुसृत्य दिगम्बराचार्येण अमितगतिनाऽपि योगसारप्राभृते → धर्मतोऽपि भवो भोगो दत्ते दुःखपरम्पराम् । चन्दनादपि सम्पन्नः पावकः प्लोषते न किम् ?।। - (यो.सा.प्रा.९/२५) इत्युक्तम् ।
एतेन → बन्ध इन्द्रियविक्षेपा मोक्ष एषां च संयमः - (श्री.भा.११।१८।२२) इति श्रीमद्भागवतवचनमपि व्याख्यातम्, संयमस्याऽनिवर्तनीयभोगगोचराऽनासक्ताऽऽसेवन-निवर्तनीयभोगपरिहाराऽन्यतरपरत्वात्। युक्तं च एतद् = धर्माऽऽक्षेपिभोगस्याऽनर्थकारित्वाऽभावप्रतिपादनं, यतो निश्चयतः = अंशात्मकसूक्ष्मतत्त्वग्राहकनिश्चयनयाभिप्रायमाश्रित्य इन्द्रियाऽर्थसम्बन्धजन्यसुखाऽनुभवात्मके अर्थसमाजसिद्धे भोगे येन अंशेन → फलाभ्यां सुख-दुःखाभ्यां, न भेदः पुण्य-पापयोः । दुःखान्न भिद्यते हन्त, यतः पुण्यफलं सुखम् ।।
ससर्वपुण्यफलं दुःखं, कर्मोदयकृतत्वतः । तत्र दुःखप्रतीकारे, विमूढानां सुखत्वधीः ।। परिणामाच्च तापाच्च, संस्काराच्च बुधैर्मतम् । गुणवृत्तिविरोधाच्च, दुःखं पुण्यभवं सुखम् ।।
- (अ.सा.१८/६२-६३-६४) इति अध्यात्मसारवचनश्रवण-मनन-निदिध्यासनप्रसूतं ज्ञानादिकं = विरक्तपरिणामाऽनुविद्धभावनाज्ञान-स्पर्शज्ञानाऽऽत्मपरिणतिमज्ज्ञान-साक्षिभाव-तत्त्वरुचिलक्षणसम्यग्दर्शनादिकं तेन अंशेन हेतुना अबन्धनमेव = कर्मबन्धकारित्वाऽभाव एव येन च अंशेन प्रमादादिकं = अभिष्वङ्गकर्तृत्व-भोक्तृत्वपरिणामादिकं तेन तु अंशेन हेतुना बन्धनमेव = कर्मबन्धकारित्वमेव । विशुद्धगुणस्य न कर्मबन्धकारकत्वमित्याशयः ।
ननु येनांऽशेन सम्यग्ज्ञानादिकं तेनांऽशेन कर्मबन्धाऽनभ्युपगमे सम्यक्त्वादीनां कथं तीर्थकरनामकर्मादिबन्धकत्वं स्यात् ? तदुक्तं शिवशर्मसूरिभिः शतके → सम्मत्तगुणनिमित्तं तित्थयरं, संजमेण आहारं 6 (शतककर्मग्रन्थ-४५) इति । द्वितीयकर्मग्रन्थवृत्तौ देवेन्द्रसूरिभिरपि → तीर्थकरनाम तावत् सम्यक्त्वगुणनिमित्तमेव बध्यते, आहारकशरीराहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं त्वप्रमत्तयतिसम्बन्धिना संयमेनैव (द्वि. कर्म.३ वृत्ति) इत्युक्तम् । अन्यत्राऽपि → तित्थयरं पि मणुस्सो अविरयसम्मे समज्जेइ () इत्युक्तम् । ततो येनांशेन सम्यग्ज्ञानादिकं तेनांशेनाबन्धनमेवेति वक्तुं न युज्यत इति चेत् ? अत्रोच्यते, छद्मस्थावस्थायामवर्जनीयसन्निधिरूपतयाऽन्यथासिद्धत्वात् सम्यक्त्वादीनां परमार्थतः तीर्थकरनामकर्मबन्धादावकारणत्वमेव तथापि कर्मग्रन्थादावुपदर्शितस्य सम्यक्त्वादीनां = सम्यग्दर्शनाऽप्रमत्तसंयमादीनां तीर्थकरनामकઅથવા સાચા મંત્રથી અભિસંસ્કૃત કરેલા અગ્નિથી દાહ થતો નથી. આવું દરેક લોકો જાણે છે. આવું પણ પૂર્વાચાર્યો કહે છે. આ વાત યુક્તિસંગત પણ છે. કેમ કે નિશ્ચયનયથી તો જે અંશે ભોગસુખાદિપ્રવૃત્તિઅનુભૂતિમાં જ્ઞાનાદિ રહેલ હોય તે અંશે બંધન નથી જ. તેમ જ જે અંશમાં ભોગાદિમાં પ્રમાદાદિ રહેલ હોય તે અંશે તો તે ભોગાદિ બંધન જ છે. १. प्राचीनमुद्रितप्रतौ 'वदति' इत्यशुद्धः पाठः । २. हस्तादर्श 'चैतवः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org