________________
• सत्य-मन्त्रसंस्कृताग्नेरदाहकता •
१६३३ सामान्यतो दृष्टान्तमाह- चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः, दहनस्य दाहस्वभावाऽपरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः सकलअहिंसालक्षणः, यतनालक्षणः, पञ्चाचारपालनलक्षणः, श्रमणोपासकद्वादशव्रतपालनलक्षणः, पञ्चमहाव्रतपालनलक्षणः, दशविधयतिधर्मपालनलक्षणः, आत्मवस्तुस्वभावलक्षणो वा यथागममत्राऽनुयोज्यः । प्रकृते . → न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं न जायते ।। 6 (यो.बि.२०५) इति योगबिन्दुवचनमनुस्मर्तव्यमवहितमानसैः। हस्तादर्शादौ 'पुष्पशुद्ध्यादौ' इति पाठः । स चाऽशुद्धः प्रतिभाति । नयान्तराभिप्रायेण वैतदतिगम्भीरं तत्त्वं बहुश्रुतैः योजनीयम् ।
न दहत्यपि कश्चित् हुताशनः, सत्यमन्त्राऽभिसंस्कृतात् → सच्चेण य तत्ततेल्ल-तउ-लोहसीसगाई छिवंति धरंति, ण य डझंति मणुस्सा । सच्चेण य अगणि संभमम्मि वि ण डझंति उज्जुगा मणुस्सा - (प्र.व्या. २७।२४) इति प्रश्नव्याकरणोक्तिप्रामाण्यतः, → सच्चप्पभावओ च्चिय अग्गी णो डहइ तं हियं कुणइ - (सं.प्र.६/५६) इति पूर्वोक्त(पृ.३६४)सम्बोधप्रकरणप्रामाण्याच्च सत्यलक्षणेन मन्त्रेण अभिसंस्कृतात् दाहाऽसिद्धेः । एतेन → जे वि य लोगम्मि अपरिसेसा मंतजोगा जया य विज्जा य । जंभगा य अत्थाणि य सत्थाणि य सिक्खाओ य ।। आगमा य सव्वाई पि ताई सच्चे पइट्ठियाइं - (प्र.व्या.२ ७।२४) इति प्रश्नव्याकरणवचनमपि व्याख्यातम्। प्रकृते च → सत्येनाऽग्निर्भवेच्छीतोऽगाधं दत्तेऽम्बु सत्यतः । नाऽसिः छिनत्ति सत्येन सत्याद् रज्जूयते फणी।।
( ) इत्युक्तिरपि साक्षिणी वर्तते । यद्वा सत्येन मन्त्रेण वा अभिसंस्कृताद् उपलक्षणात् सूर्यकान्तमण्यसमवहितचन्द्रकान्तमणिसन्निहिताच्च दहनात् दाहाऽसिद्धेः = दाहाऽनिष्पत्तेः । तदुक्तं हर्षवर्धनोपाध्यायेन अध्यात्मबिन्दौ → विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बध्यते ।। (अ.बि.३/२६) मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा । बद्धं नाऽलं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम्।। (अ.बि.३/२७) इति। प्रत्युत तादृशकर्माऽपनयनद्वारा केषाञ्चिद् भोगस्योपकारकताऽपि सन्न्यायतो न विरुध्यते । यथा चन्दनं लेपकरणे शैत्यसम्पादकं ज्वालने च दाहसम्पादकं तथैव भोगा सति असङ्गभावे कर्मनिर्जरासम्पादकाः आसक्तिकरणे च कर्मबन्धकारका इत्याशयः । प्रकृते → केषाञ्चिद् गुणवद् गुणाय महते दोषोऽपि सञ्जायते - (रा.तरं.जोनराजकृत-६०) इति राजतरङ्गिणीवचनमप्यवधेयम् । ધર્મને લાવવામાં નિમિત્ત થનાર ભોગસુખ પ્રમાદનું કારણ બનતું નથી. પ્રકૃષ્ટપુણ્યશાળી શાંતિનાથ ચક્રવર્તી વગેરેના જીવનમાં અત્યંત નિર્દોષ તીર્થંકર પદની પ્રાપ્તિ વગેરે ફળની શુદ્ધિ દેખાય જ છે. આ રીતે પુણ્યની શુદ્ધિ વગેરેને ઉદેશીને સમ્યફ આગમનો પક્ષપાત-આદર-અવિહડ રાગ કરવાથી ધર્મપ્રધાન ચિત્તની પ્રાપ્તિ સંગત થાય છે. અર્થાત્ સદાગમપક્ષપાતથી ચિત્તમાં ધર્મની મુખ્યતા સંગત થઈ શકે છે.
સામાન્યથી ભોગસુખ અનર્થકારી છે. તેનું દૃષ્ટાન્ત આપતા ગ્રંથકારશ્રી જણાવે છે કે – શીતળ પ્રકૃતિવાળા ચંદનથી પણ ઉત્પન્ન થયેલો અગ્નિ બાળે જ છે. કારણ કે અગ્નિ કોલસાથી ઉત્પન્ન થાય કે ચંદનથી ઉત્પન્ન થાય પરંતુ તેનો બાળવાનો સ્વભાવ ક્યારેય બદલાતો નથી. ઠારવાનો સ્વભાવ અગ્નિમાં ક્યારેય આવતો નથી. મોટા ભાગે વ્યવહારમાં અગ્નિ માટે આવું જ બનતું હોય છે. “મોટા ભાગે આવો શબ્દ પ્રયોગ કરવાનું કારણ એ છે કે ક્યારેક કોઈક અગ્નિ ન પણ બાળે. કેમ કે સત્યથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org