SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ • रागादिविरहे भोगस्याऽबन्धकता • द्वात्रिंशिका-२४/६ मनःसन्निकर्षादिकं तु कर्मबन्धादिकं प्रति उदासीनमेव । अत एव रागादिविरहे स्त्र्यादिरूपदर्शनस्याप्यऽदुष्टत्वमभिमतमाप्तानाम् । तदुक्तं योगशास्त्रवृत्तौ → ईक्षणमात्रन्तु रागद्वेषरहितस्याऽदुष्टमेव 6 (यो.शा.१/३० वृत्ति) इति । इत्थमेव → नो सक्का रूवमदटुं चक्खुविसयमागयं । राग-दोसा य जे तत्थ ते भिक्खू परिवज्जए ।। 6 (आचा.२/३/१५/१३२) इति आचाराङ्गोक्तिरपि सङ्गच्छते। सम्यक्त्वप्राधान्याऽर्पणप्रवणनयाऽभिप्रायेण तु ग्रन्थिभेदात् पूर्वं कल्याणमित्रादियोगतः बाह्यपापाऽकरणेऽपि मिथ्यात्वशक्त्यनुगमतः चेतसाऽविरततयाऽविरत एव, सति विशुद्ध सम्यग्दर्शने तु तच्छक्तिव्यपगमतः चेतसा विरततया कायादितः कामभोगादिपापकरणेऽपि विरत एव । इदमेवाऽभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → बाह्येऽप्रवृत्तिमात्रं तु विरतिर्नैव तत्त्वतः । चेतसाऽविरतस्यैवं तथा तच्छक्तियोगतः ।। सामग्र्यभावतो वह्निरदहन्नपि दाहकः । यथा तच्छक्तियोगेन तथाऽयमपि पापकृत् ।। तच्छक्तिप्रतिबन्धे तु यथेन्धनगतोऽपि न । दाहकोऽसौ तथैवाऽऽत्मा विरतः पापभागपि ।। 6 (ब्र.सि.१४-१६) इत्युक्तम् । एतेन → सव्वंगं पेच्छंतो इत्थीणं वा मुयदि दुब्भावं । सो बम्हचेरभावं सुक्कदि खलु दुद्धरं धरदि।। ८ (द्वादशा.८०) इति द्वादशानुप्रेक्षावचनमपि व्याख्यातम् । न हि परिपक्वभेदविज्ञानाऽनुविद्धाऽसङ्गसाक्षिभावाऽवलम्बने विरक्तानां विषयव्यामोहः सम्भवति। प्रकृते → अल्लो सुक्को य दो छूढा गोलया मट्टियामया । दो वि आवडिया कूडे जो अल्लो सो विलग्गइ ।। एवं लग्गति दुम्मेहा जे नरा कामलालसा । विरत्ता उ न लग्गति जहा सुक्के अ गोलए ।। 6 (इन्द्रि.श.१९-२०) इति इन्द्रियपराजयशतकवचनतात्पर्यमप्यत्र योज्यं सम्यग्दृष्टिपरिणतिविभावनकुशलैः । व्यवहारभाष्येऽपि → अज्झत्थं तु पमाणं, न इंदियत्था जिणा बेंति - (व्य.भा.२/ ५४) इत्युक्तम् । → भावो तत्थ पमाणं न पमाणं कायवावारो - (भा.कु.१८) इति भावकुलकवचनमप्यत्रानुसन्धेयम् । पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वा.द्वा.७/३० पृ.५३३) दर्शितमपीदं श्रोतृणां विषयदााय पुनरुपदिश्यमानं न दुष्टमित्यवधेयम् । ततश्च कायसत्त्वे, इन्द्रियसत्त्वे, शब्दादिविषयसत्त्वे, करणविषयसन्निकर्षसत्त्वे, करणाऽन्तःकरणसंसर्गसत्त्वेऽपि → लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते ।। (ज्ञा.सा.११/३) इति ज्ञानसारवचनतात्पर्यार्थाऽऽत्मसात्करणतो रागाद्यकरणेन केवलमसङ्गभावेन जानानो नैव कर्मणा लिप्यत इति फलितम् । तदुक्तं सूत्रकृताङ्गे → अकुव्वतो णवं णत्थि कम्मं नाम - (सू.कृ.१।१५।७) इतीन्द्रियार्थसन्निकर्षादिकं कर्मबन्धं प्रत्युदासीनमेवेति सुष्ठुक्तम् ।।२४/६।।। વિશેષાર્થ:- “સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર મોક્ષના-કર્મનિર્જરાના કારણ છે. એવું તત્ત્વાર્થસૂત્રમાં જણાવેલ છે. તથા કર્મગ્રંથ વગેરેમાં જણાવેલ છે કે તીર્થંકર નામકર્મના બંધ પ્રત્યે સમ્યક્ત્વ અને આહારકશરીરનામકર્મના બંધ પ્રત્યે ચારિત્ર કારણ છે. મતલબ કે સમકિત વગેરેને એક ઠેકાણે કર્મનિર્જરાનું કારણ જણાવેલ છે તથા અન્યત્ર કર્મબંધનું કારણ કહેલ છે. આ બન્ને વિરોધી વાત લાગે તેમ છે. આ વિરોધના નિરાકરણ માટે ગ્રન્થકારશ્રી કહે છે કે વાસ્તવમાં સમકિત વગેરે કર્મનિર્જરાના જ કારણ છે. કર્મબંધનું મુખ્ય કારણ તો કષાય-મિથ્યાત્વ વગેરે જ છે. પરંતુ છદ્મસ્થ દશામાં કષાયની સાથે સમકિત રહેલું હોવાથી સમકિત વગેરેમાં તીર્થકર નામકર્મબંધ વગેરેની કારણતાનો ઉપચાર કરવામાં આવે છે. જેમ કોઈ માણસ ધગધગતું પાણી પગ ઉપર પડવાથી દાઝી જાય, પગ ઉપર ફોડલા પડી જાય તે અવસ્થામાં તેને કોઈ પૂછે કે “શાના કારણે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy