Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१६५०
आत्मवञ्चनापाकरणोपदेशः • द्वात्रिंशिका-२४/१२ मायाम्भो मन्यतेऽसत्यं तत्त्वतो यो महामनाः । अनुद्विग्नो निराशङ्कस्तन्मध्ये स न गच्छति ।। मायातोयोपमा भोगा दृश्यन्ते येन वस्तुतः । स भुजानोऽपि निसङ्गः प्रयाति परमं पदम् ।।
6 (यो.सा.प्रा.९/२१-२२) इति योगसारप्राभृतकारिकायुगलमनुसन्धेयम् । शुद्धात्माऽऽनन्दवेदित्वान्न सति विशुद्धसम्यक्त्वे भोगतृष्णाऽनुरागसम्भवः । अत एव मोक्षोपदेशपञ्चाशके मुनिचन्द्रसूरिभिः → यथाऽमृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो, रज्यते न सुखान्तरे ।। - (मो.प.३९) इत्युक्तम् । तदुक्तं षोडशकेऽपि → अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ।। एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालाऽऽसेवितमपि न जातु बहुमन्यते पापम् ।। यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ।।
6 (षो. ३/१४-१६) इति प्रामुक्तं(पृ.१५३६) स्मर्तव्यम् । दानद्वात्रिंशिकोक्तं (भा.१/पृ.३९) कुशलानुबन्धिपुण्यलभ्यभोगानां वैराग्यजनकत्वमिहानुसन्धेयम् ।
इदमप्यत्रावधेयम्- स्वप्रयत्ननिवर्तनीयेष्वपि कामभोगेष्वासक्ततयाऽवस्थाने भवनिमज्जनं दुरन्तमेव प्रसज्येत । एतेन → जानन्नपि च यः पापं शक्तिमान् न नियच्छति । ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ।। (म.भा.आदिपर्व-१७९/११) इति महाभारतवचनमपि व्याख्यातम् । परं निकाचितकर्मोपनीतकामभोगादिनिराकरणप्रयासे च स्वस्य कर्मणा प्रवाहितत्वमेव स्यादिति केवलाऽसङ्गसाक्षिभावाऽवलम्बनेन ततो निःसरणमेव श्रेयः । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं संयुत्तनिकाये देवतासंयुक्ते ओघतरणसूत्रे → यदा ख्वाहं, आवुसो ! सन्तिट्ठामि तदासु संसीदामि; यदा ख्वाहं, आवुसो ! आयूहामि तदास्सु निब्बुय्हामि । एवं ख्वाहं, आवुसो ! अप्पतिद्वं अनायूहं ओघमतरि'न्ति 6 (सं.नि. १११, पृ.२) इति यथागमं सूक्ष्मेक्षिकयोहनीयं विदितस्व-परसमयरहस्यैः ।
इत्थञ्च भवेच्छाविच्छेदेन प्राक्कर्माऽपराधप्रयुक्तप्रवृत्तौ सत्यामपि न कान्ताऽवस्थितस्य शुद्धिहानिः प्रत्युत शुद्धिवृद्धिरेव, तथाकर्मनिर्जरणात् । तदुक्तं अध्यात्मसारे →
भवेच्छा यस्य विच्छिन्ना प्रवृत्तिः कर्मभावजा । रतिस्तस्य विरक्तस्य सर्वत्र शुभवेद्यतः ।।
अतश्चाऽऽक्षेपकज्ञानात् कान्तायां भोगसन्निधौ । न शुद्धिप्रक्षयः ८ (अ.स.५/१४-१५) इति । तदुक्तं महावीरगीतायां अपि → प्रारब्धकर्मभोक्तारः क्वापि मुह्यन्ति नैव ते । मदर्थं सर्वकर्माणि कुर्वन्ति शुद्धबुद्धितः ।। 6 (म.गी.२/१००) इति, → ज्ञान-वैराग्ययोगेन भोग्यकर्मस्वसङ्गता - (महा.गी.८/ તેથી તે આગળ જવામાં મૂંઝાય. પણ મૃગજળમાં સત્ય જલત્વનો આરોપ ન કરે તે તેમાં ન મૂંઝાય. તેમ ભોગસુખ મૂળભૂત સ્વરૂપે અસાર-તુચ્છ-અનિત્ય-અનાત્મ-અશરણરૂપ હોવા છતાં તેમાં જે સારપણાનોસુખસાધનતાનો આરોપ કરે છે તેને ભોગસુખનું આકર્ષણ મૂંઝવે છે. તે તેમાં અટવાઈને મોક્ષમાર્ગે આગળ વધતો નથી. પરંતુ કાન્તા દષ્ટિવાળા યોગી ભોગસુખને મૃગજળતુલ્ય સમજે છે. અસાર અને તુચ્છ સ્વરૂપે તેને ઓળખે છે. તેમાં કોઈ ઈષ્ટવ-સુખસાધનત્વ વગેરે ગુણધર્મોનો આરોપ કરતા નથી. માટે જ મિષ્ટાન્નફળ-ફરસાણ-ડનલોપની ગાદી વગેરેનું આકર્ષણ તેના અંતઃકરણમાંથી નીકળી ગયેલ હોય છે. કેવળ બળવાન કર્મના વિપાકોદયથી વિષયોનો ભોગવટો કરવો પડે કે જીવનનિર્વાહ માટે જરૂરી ભોજનાદિ પ્રવૃત્તિ કરવી પડે છે. તેમાં પણ તે અસંગ અને અલિપ્ત રહે છે. કેવળ કર્મનિર્જરા માટે જ તેની તેમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org