Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• बुद्ध्यादिभेदेऽनुष्ठानफलभेदः . भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकादनादराद् विपाकस्य विरसत्वतो (=विपाकविरसत्वतः) भवाय = संसाराय भवन्ति। तदुक्तं- "बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम्। संसारफलदान्येव विपाकविरसत्वतः ।।"(यो दृ.स.१२४) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय । यदुक्तं- "ज्ञानपूर्वाणि तान्येव
बुद्ध्यादिभेदप्रयुक्तभेदशाल्यनुष्ठानफलमाह- 'भवायेति । स्वकल्पनाप्राधान्यात् = शास्त्रमर्यादाऽतिशयितस्वकीयकल्पनाजालगोचररुचिशालित्वात् शास्त्रविवेकाऽनादरात् = नानाविनेयाऽनुग्रहप्रवृत्तनानानयगर्भाऽऽगमगतोत्सर्गाऽपवादादिमर्यादाऽभ्युपगमाऽविनाभाविविवेकदृष्ट्यनुदयात् विपाकस्य = अनुष्ठानसम्पाद्यपरिणामस्य विरसत्वतः = विरसभावात् बुद्धिपूर्वाणि = बुद्धिजनितानि कर्माणि = अनुष्ठानानि संसाराय = चतुर्गतिमयाय द्रव्यसंसाराय कषाय-विषयादिमयाय च भावसंसाराय भवन्ति । न च → जईलिगमिच्छदिट्ठि गेवेज्जा जाव जंति उक्कोसं - (त्रै.दी.१५५) इति त्रैलोक्यदीपिकायां श्रीचन्द्रर्षिवचनात् द्रव्यानुष्ठानप्रभावात्तेषामपि ग्रैवेयकोपपातः श्रूयत इति कथं संसाराय तानि कल्पन्त इति शङ्कनीयम्, यतस्ते हि ततः च्युता निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वमोहाः सर्वेष्वेवाऽकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपायं पापप्राग्भारं पश्चादधस्तान्नरकभाजो भवन्तीति प्रागुक्तं (द्वा.द्वा.२२/२७ पृ.१५३७) मा विस्मार्षीः । तदुक्तं योगदृष्टिसमुच्चये- 'बुद्धी'ति । तवृत्तिस्त्वेवम् → बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन इह लोके देहिनां = प्राणिनां, 'किम्' इत्याह- संसारफलदान्येव अशास्त्रपूर्वकत्वात् तथा चाह विपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वाद् + (यो.दृ.स.१२४) इति । तदुक्तं योगसारप्राभृतेऽपि → बुद्धिपूर्वाणि कर्माणि समस्तानि तनुभृताम् । संसारफलदायीनि विपाकविरसत्वतः ।। - (यो.सा.प्रा.८/८४) इति । अतो बुद्धिशोधनाय यतितव्यमित्युपदेशो लभ्यतेऽत्र । प्रकृते → बुद्धिर्ज्ञानेन शुध्यति 6 (मनु.५/१०९) इति मनुस्मृतिवचनमपि यथातन्त्रमनुयोज्यम् ।
ज्ञानपूर्वाणि च = निरुक्ताऽऽत्मपरिणतिमज्ज्ञानसम्पादितानि हि तानि अनुष्ठानानि तथाविवेकसम्पत्तिजनितया = नानानयाऽऽकुलाऽऽगमाध्ययनाध्यापनादिलभ्यविशदतरविवेकदृष्टिसम्पादितया श्रुतशक्त्या अवधूताचार्यमतेन उदक-पयोदशामतिक्रम्य अमृतशक्तिकल्पया निःश्रेयसाय भवन्ति । यदुक्तं योगदृष्टिसमुच्चये- 'ज्ञाने'ति । तवृत्तिस्त्वेवम् → ज्ञानपूर्वाणि = यथोदितज्ञाननिबन्धनानि तान्येव कर्माणि, 'किम् ?' इत्याह मुक्त्यङ्गं भवन्ति कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञा
ટીકાર્ય - જે અનુષ્ઠાન કરવાની પાછળ પોતાની કલ્પના જ મુખ્યતયા ભાગ ભજવે તથા તેના લીધે શાસ્ત્રીય વિવેકદૃષ્ટિનો અનાદર કરવામાં આવે તો તે અનુષ્ઠાન બુદ્ધિપૂર્વક = બુદ્ધિજન્ય બની જાય છે. તેનો વિપાક = પરિણામ વિરસ-નીરસ હોવાના કારણે તે અનુષ્ઠાન સંસાર માટે થાય છે. તેથી તો યોગદષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે લોકમાં બુદ્ધિપૂર્વક કરાતાં બધા જ અનુષ્ઠાનો જીવોને સંસારરૂપ ફળ જ આપનારા થાય છે. કારણ કે તે અનુષ્ઠાનો પરિણામે અવશ્ય કડવા ફળવાળા હોય છે.” તથા જ્ઞાનપૂર્વક કરવામાં આવે તો તે જ અનુષ્ઠાનો મોક્ષ માટે થાય છે. કારણ કે તથાવિધ શાસ્ત્રીય વિવેકદષ્ટિથી ઉત્પન્ન થયેલી અમૃતશક્તિતુલ્ય શ્રુતશક્તિનો અનુવેધ તેમાં થયેલો હોય છે. તેથી યોગદષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “જ્ઞાનપૂર્વક કરાતાં તે જ અનુષ્ઠાનો કુલયોગીઓને મુક્તિનું કારણ બને છે. કારણ કે શ્રુતશક્તિનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org