Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१५८४
दृष्टिसंमोहः सर्वदोषशेखरः •
द्वात्रिंशिका - २३/२१
चित्रा चाऽऽद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ।। २१ ।।
चित्रा चेति । चित्रा च = नानाप्रकारा च आद्येषु सांसारिकेषु देवेषु (तद्रागतदन्यद्वेषसङ्गता =) तद्राग - तदन्यद्वेषाभ्यां स्वाऽभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता 'युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु = तदतीते तु एषा भक्तिः शमसारा = शमप्रधाना अखिलैव हि तथासंमोहाऽभावात् इति ।।२१।।
•
=
=
← (छां.८/२/९-१०) इति छान्दोग्योपनिषद्वचनमपि न विस्मर्तव्यमत्र । अत्र तं यथा यथोपासते तथैव भवति । तस्माद् ब्राह्मण: 'पुरुषरूपं परंब्रह्मैवाऽहमिति भावयेत् । तद्रूपो भवति ← (मु.१) इति मुद्गलोपनिषद्वचनतात्पर्यमपि यथातन्त्रमनुयोज्यं स्व-परसमयसारवेदिभिः ।।२३ / २० ।।
चित्राऽचित्रभक्तिगतविशेषं योगदृष्टिसमुच्चय (११२) कारिकाद्वारोपदर्शयति- 'चित्रे 'ति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति - चित्रा च = नानाप्रकारा च इत्यादि । स्पष्ट एव टीकार्थः । नवरं अखिलैव नवाङ्गिपूजाऽष्टपुष्पीपूजाऽष्टविधपूजा-सप्तदशविध-चतुःषष्टिविध-नवनवतिविधादिपूजासन्मान-सत्कार-वन्दन-प्रणाम-स्तुति-स्तव-स्तोत्रपाठादिलक्षणा हि व्यवहारतो नानाविधतया दृश्यमानाऽपि मुक्तात्मसम्बन्धिनी भक्तिः एकाकारा = एकविधैव, तथासंमोहाऽभावात् = भवाभिनन्द्यादिगतसंमोहसदृशदृष्टिसंमोहविरहात् शमप्रधाना = उपशममुख्या इति हेतोः । शमस्वरूपन्तु काव्यानुशासनवृत्ती श्रीहेमचन्द्रसूरिभिः → तृष्णाक्षयरूपः शमः ← (काव्यानु.वृ.२/१७) इत्युक्तम्। पूर्वं (पृ.१३६८) 'गुणतः तुल्ये तत्त्वे संज्ञाभेदाऽऽगमाऽन्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसम्मोहः ।। ← ( षोड़. ४/११) इति षोडशकवचनेन दर्शितस्य दृष्टिसम्मोहस्य प्रच्यवेऽवश्यं तथाविधः शम आविर्भवति, येन मुक्तात्मदेवोद्देश्यकभक्तिप्रतियोगिकी समुचितयोग्यता सम्पद्यतेऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतितमार्गानुसारिताद्यवस्थाशालिषु योगिषु । तथाविधसंमोहसत्त्वे तु मुक्तात्मोद्देश्यको भक्तिभावोऽपि न तात्त्विक इति भावनीयम् ।।२३/२१ ।।
For Private & Personal Use Only
* વિલક્ષણ-અવિલક્ષણ ભક્તિનું સ્વરૂપ
ગાથાર્થ :- સંસારી દેવોને વિશે ભક્તિ તેના સંબંધી રાગ અને અન્ય વિશે દ્વેષથી યુક્ત વિવિધ પ્રકારની હોય છે. તથા સંસારાતીત દેવને વિશે તો બધી જ ભક્તિ એકસરખી હોય છે. કારણ કે ते समताप्रधान छे. (२३/२१ )
ટીકાર્થ :- સાંસારિક દેવોને વિશે થતી ભક્તિ વિવિધ પ્રકારની હોય છે. તે સેવા-ભક્તિ પોતાને ગમતા દેવ વિશે રાગ અને પોતાને ન ગમતા દેવ ઉપર દ્વેષથી યુક્ત હોય છે. કારણ કે તે ભક્તિ મોહગર્ભિત હોય છે. જ્યારે સંસારાતીત મુક્તાત્માને વિશે થતી ભક્તિ તો એકસરખી જ હોય છે. તે મુક્તાત્માને ઉદ્દેશીને થતી તમામ ભક્તિ ઉપશમભાવનું જ પ્રાધાન્ય ધરાવે છે. કારણ કે તેવી ભક્તિમાં तथाविध संमोह नथी होतो. (२३ / २१ )
વિશેષાર્થ :- જ્યાં મોહ હોય ત્યાં મારું-તારું આવો સંકુચિત સ્વાર્થભાવ રહેવાના કારણે પોતાના દેવ ઉપર રાગ, બીજા દેવ ઉપર દ્વેષ વગેરે કોલાહલ ઊભા થવા સ્વાભાવિક છે. જ્યાં મોહ ન હોય १. हस्तादर्शे 'यक्ता' इत्यशुद्धः पाठः ।
Jain Education International
www.jainelibrary.org