________________
छन्दोदर्शनम्
11
May that which is known on the earth as Agni, that which is known in the mid-air as Indra and that which shines as Aditya in the sky increase the Tejas (powerful brilliance ) in me.
अन्वयमाष्यम्। पृथिव्यां यत् आग्नेयं, अन्तरिक्ष यत् ऐन्द्रं वा, दिवि यत् आदित्यं सूर्यसम्बन्धि ज्योतिः, तानि मयि तेजो वर्धयन्ति वर्धयन्तु इति ॥
COMMENTARY-SUMMARY TRANSLATION Let all these three forms of Savitā strengthen me.
- सप्तमी ऋक् । तत् ते सवितस्तुरीयं परं दिव्यं धिया सुगम् ।
पदं पश्यामि दर्शतं ज्योतिर्विश्वस्य दर्शयत् ॥ ७ ॥ पदपाठ :- तत् । ते | सवितः । तुरीयं | पर। दिव्यं | धिया | सुऽगम् ॥
पदं । पश्यामि | दर्शतं | ज्योतिः । विश्वस्य | दर्शयत् ॥ Oh! Savita, I see your fourth step or poise the great and famous one. It is the highest, the divine one, and can be reached only by the power of intelligence. It is the light which deserves to be seen and which illumines all and everything.
अन्वयभाष्यम् । हे तुरीयपदात्मक सवितः ! ते तव तत् तुरीयं दर्शतं दर्शनीयं परं श्रेष्ठं दिव्यं अलौकिकं अधिदैवततत्त्वसहितं धिया सुगं सम्प्राप्यम्, विश्वस्य दर्शयत् स्वयम्प्रकाशकं परञ्ज्योतिःस्वरूपं पदं पश्यामि साक्षात्करोमीति ॥
अत्र गायत्र्या: त्रीणि पदानि सवितुः त्रीणि पदानि भवन्ति, तानि एतानि उच्चारणीयानि, सर्वान्तर एवात्मा तुरीयं पदं दर्शनीयमेव न तु उच्चारणीयमिति ॥
प्रसिद्ध ऋग्वेदे पदपाठे गणन्तपाठः (गलितपाठः) केवलं पाठप्रवचनपरम्परागतः, न तु शास्त्रविहितः, तादृशपाठक्रमस्य विधानादर्शनात् , तस्मात् अत्र छन्दोदर्शने गणन्तपाठानवलम्बनेन सर्वत्रापि समग्रमन्त्रस्य पदविभागशः पाठक्रम एव आद्रियते ॥
"गणन्तपाठो नाम” पूर्वत्र यत्र कुत्रापि मन्त्रे एकदा अनुक्रमेण समागतानां त्रयाणां पदानां ततोऽप्यधिकानां च मन्त्रान्तरे पठितानां तेषां पुनरुच्चारप्रसङ्गे तु तावतां पदानां परित्यागेन पाठः ॥ अस्य “गलितपाठः" इति संज्ञाऽपि विद्यते । सोऽयं गणन्तपाठः क्रम