Page #1
--------------------------------------------------------------------------
________________
शारदा-संस्कृत-ग्रन्थमालाया नवमम्प्रसूनम् ।
श्रीराजानक- रुय्यक प्रणीतं
अलङ्कार - सर्वस्वम्
सम्पादकः
गौरीनाथ पाठकः
काशी ।
Page #2
--------------------------------------------------------------------------
________________
॥ श्रीः॥ आलङ्कारिक-श्रीराजानक-रुय्यक
प्रणीतम् अलङ्कार-सर्वस्वम्
- - स्मातकर्मानुष्ठाननिष्ठ-कश्यपवंशावतंस-स्वधर्मधुरन्धर-पाठ
कोपा जयकृष्णशर्मतनुजनुषा काशीस्थ-विशुद्धामन्द . महाविद्यालयीय-साहित्यप्रधानाध्यापकेन गौरी
नाथशर्मणा विरचितया महालक्ष्म्यभिधया विषमस्थलटिप्पण्या
संवलितम्
तम
काशीस्थ-शारदा-भवनात्
समुल्लसितम् ।
काश्यां तारायन्त्रालये श्रीरामेश्वरपाठकद्वारा मुद्रयित्वा प्राकाश्यं नतिम्
वैक्रमाब्दाः १९८३ मि०
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
INTRODUCTION.
The present edition of Alankarsarwasva comprises (1) Alankarsutra (2) a Vritti (commentary on the Sutra) and (3) notes on the Vritti. The Vritti published in the Kavyamâlâ series has the following introductory line, "ImagitęEITI TT artdyaga." From this it follows that both the Sutra and the Vritti are written by one and the same author. From a line in the same edition, "Efathat भवद्राजानकरुय्यकस्य' and from the closing line therein, सम्पूर्णमिदमलङ्कारसर्वस्वम" it follows that Ruyyaka is the author of this book and that the book Alankarsaryasva contains the Sutra and the Vritti.
But in our ancient manuscripts of the work the introductory line runs thus :- Taastam et argai.
scà. Here the word Te suggests that the Sutrakâr (the author of the Sutra) is the preceptor of the Vrittikir (the author of the Vritti). A couplet, at the end of the manuscripts runs thus :
"इति मख़ुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम्" ॥
Here the word aata which means to expand makes it clear that Mankhuka is the Vrittikâr who has explained the Sutra written by his guru Ruyyaka. That Ruyyaka is the guru of Mankhuka is made clear when we read some of the couplets of the 25th canto of the Sree Kanthacharita by the great poet Mankhuka. They are as follow.
Page #5
--------------------------------------------------------------------------
________________
( २ ) "व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते।
आकर्षदिव वाग्देव्या धौतक्षौमपटाशलम् ॥ १ ॥ अर्पयन्कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ २ ॥ विवृतीर्यो लिखत्यात्तलेखन्येकाङ्गुलीतलः । प्रन्थेभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥३॥ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ ४ ॥ तं श्रीरुय्यकमालोक्य सप्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतस्सम्भेदमजनम् ॥ ५॥" ">युट्यद्भिराननपथावसथोक्तिदेवीहस्ताग्रपुस्तकमुखादिव बन्धसूत्रः॥ दन्तांशुभिः प्रसृमरैः पिहिताधरौष्ठः श्रीरुय्यकस्तमथ स स्वगुरुर्बभाषे ॥१॥ यच्छीमङ्खक ? मुख्यतां गतवता व्युत्पत्तिविच्छितिभिः । श्रीश्रीकण्ठचरित्रमित्यभिधया काव्यं व्यधायि त्वया एतस्मिन् सदसि प्रसिद्धविविधोपासीनविद्वद्वरे तत्संदर्शय यस्य रोहतुतरां साफल्यतः कल्पना ॥ २॥"
So it is clear that Ruyyaka is the author of the Alankarsarvasva and that Mankhuka is the Vrittikâr. M. M. T. Ganpati Shastri has written in his introduction to this workpublished by him, that Mankhuka is the author of this book. I do not know on what ground he has written thus.
Rajanak Ruyyaka was the son of Rajanak Tailak the author of Udbhat Viveka. He lived at Kashmere a great centre of learning. It is very difficult to give the exact date of his
Page #6
--------------------------------------------------------------------------
________________
(3
)
birth as no popular honk of history, give any thing about hin. Is he was the ur of the great poet Maikbaka, le milst have been born some 20 years before him.
Mankhuka flourished in the first half of the 12th century as M. M, T. Ganpati Shastri has recorded in the preface of his book Mankhuka flourished during the time of Jaisingha, the son of Sussala, who ruled over Kashmere. Jai Singha ruled over Kashmere from 1127 to 1149 A. D. So from this also, it follows that Mankhúka flourished in the first half of the 12th centuy. Mr. P. Peterson has also admitted that Mankhuka flourisrhed in the first half of the 12th century as is clear from a paragraph which runs thus :
“Author of the Sreekantha Charita and of the Mankha Kosha' according to Buhler, Kashmere Report, P. 50 the Sree Kanth Charita was probably written between 1135 and 1145 A. D.” It follows from it that Mankhuka must have been born between 1100 and 1110 A. D.
Rajanak Ruyyaka the preceptor of Mankuka must have been born between 1080 and 1090 as he is expected to be some 20 years older than Mankhuka.
Nothing is known about Ruyyaka's wife ard children. He holds a very degnitie 1 posirion among the Alankarikas It is made clear when we read the concluding lives of the Sarhivaya Lila ly this üuitor.
They are as follow :-.
.
"समाप्तेयं सहृदयचमत्कारिणी सहृदयलीला कृतिः श्रीमद्धिqfattata#FAG FICHA THEME THATATTITLT Sittrar• नकरुय्यकस्य राजानकरुचकापरनाम्नोऽलङ्कारसर्वस्वकृतः ।"
Page #7
--------------------------------------------------------------------------
________________
(8) Some say that Rajanak Ruchaka is the author of Alankar Sarvasva and not Rajanak Ruyyaka. But from the above quotation it is clear that Ruchaka and Ruyyaka are not different persons but that both are the names of one person. The following are the Books written by this author.
(1) Alankarsarvasvam. (2) Notes named Alankaranusarini on Somapal Vilaskavya by Jalhan. (3) Kavyaprakash Sanketa. (4) Sree Kanthastava. (5) Sarhidaya Lila. (6) Sahitya Mimansa. (7) Harsha Charit Vârtika.
I shall be highly obliged if the riaders will take the trouble of informing me of the mistakes, which may appear in the book, so that I may be able to put before the public a correct edition in future.
Benares, June 28th 1926.
GAURINATH PATHAK.
Page #8
--------------------------------------------------------------------------
________________
श्रीराजानक-रुय्यकः
कोऽयं महापुरुषः, कतमोऽस्य देशः, कस्य वा कुलमयमलञ्चकार, कदावायमिममिलामण्डलं मण्डयामास, कीदृशञ्चास्यालङ्कारिकेषु गौरवं, अन्यापि काचिदस्ति न वा कृतिप्रवृत्तिरित्यादिषु विषयेषु अलङ्कारसर्वस्वमनुदिनमधीयानानां सुकुमारकुमारमतीनां साहित्य. तत्वाधिजिगमिषूणामन्तेवासिनां स्वान्तं नितान्तमहरहः कौतूहल. मवलम्बत एवेति नाविदितं विदितवेदितव्यानां काव्यपरिषदमलकर्वतां प्रत्नतत्वान्वेषणविचक्षणानां सहृदयहृदयाणां तत्रभवताम्भवतामित्यविकलं यथामतिं लब्धानुसन्धानेन मया किञ्चिनिरूप्यते राजानकरुय्यकविषये।
अयं महामहिमशाली साहित्य-संसृतिदिग्विदिग्विदितकीर्तिमाली, श्रालङ्कारिकप्रसवित्र्याः साहित्यवसुमत्याः गौरवभूत आलङ्कारिकचूडामणी राजानक-रुय्यको पञ्चापप्रदेशान्तर्गत विद्यापीठ-काश्मीरदेशवास्तव्य आसीत् ।
अयञ्च उद्भटविवेक प्रणेतू राजानक-तिलकस्यान्वयमलमकरोत् ।
यद्यप्यस्य समयनिर्णयादिव्यतिकरे प्रामाणिकप्रमाणपन्यासादेनुप्रलम्भासिद्धान्ततया किमपि निर्धारयितं न शक्यते तथापि लब्धस्वल्पवाचायुक्तिभिरेकादशशतकावसानोऽस्य प्रादुर्भावसमय इत्यनुमन्ये ।
यतः किल सप्तविंशत्युत्तरैकादशशतमित (११२७) खिस्तसंवत्सरादारभ्यैकोनपञ्चाशदुत्तरैकादशशतमित (११४१) ख्रिस्तसंवसरपर्यन्तं काश्मीरदेशशासकस्य राजन्यचक्रचूडामणेः सुस्सलसूनोर्जयसिंहमहीपालस्य समये समुत्पन्नो मङ्खक-महाकविः निजनिर्मितश्रीकण्ठचरितस्य पञ्चविंशे सगै श्रीरुय्यकमात्मनो गुरुत्वेनोपनिबबन्ध । तेच श्लोका यथाः
"व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते। . पाकर्षदिव वाग्देव्या धौतक्षौमपटाञ्चलम् ॥ १ ॥
Page #9
--------------------------------------------------------------------------
________________
अर्पयन्कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ २ ॥ विवृतीर्यो लिखत्यात्त लेखन्येकाकुलीतलः । प्रन्थेभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥ ३ ॥ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ ४॥
तं श्रीरुय्यकमालोक्य सप्रियं गुरुमग्रहीत् । • सौहार्दप्रश्रयरसस्रोतः सम्भेदमजनम् ॥ ५ ॥ तत्रैष-पुनः
"न्युट्यद्भिराननपथावसथोक्तिदेवी
हस्ताग्रपुस्तकमुखादिव बन्धसूत्रैः ॥ दन्तांशुभिः प्रसृमरैः पिहिताधरौष्टः
श्रीरुय्यकस्तमथ सस्वगुरुर्वभाषे ॥१॥ यच्छीमङ्खक ? मुख्यतां गतवता व्युत्पत्तिविच्छित्तिभिः।
श्रीश्रीकण्ठचरित्रमित्यमिधया काव्यं व्यधायि त्वया एतस्मिन् सदसि प्रसिद्धविविधोपासीनविद्वद्वरे ।
तत्सन्दर्शय यस्य रोहतरां साफल्यतः कल्पना ॥ १॥" जयसिंह महीपालस्य राज्यशासनकालः, खिस्तोय-११२७ प्रारभ्य ११४४ पर्यन्तं यावदासीत्। उत्पत्तिकालश्च ततो विंशतिः पञ्चविंशतिर्षा वर्षाणि प्रागवश्यम्भाव्य एव ।
महकमहाकवेरपि समयः, अस्य समयतः परमनुमानतः पश्च सप्त वा शरदायाति । यतः स तस्यैव समये विविध-विद्या-पारङ्गमोभूत्वा महाकविरिति पदवीं प्रतिपेदे।
इतिरीत्या मङ्खकमहाकविरपि खिस्तीयद्वादशशतकारम्भीयपशसप्त वा संवत्सरे भारतभूमावाविबभूवेति वक्तुं सुशकमेव ।
प्रकृतग्रन्थनायको राजानकरुय्यकस्तु अस्य समयान्यूनतोऽपि पञ्चविंशतिर्वा वर्षाणि प्रागासीदेव। यतोऽयं महकमहाकवेर्गुरुः । महाकवि-गुरौ च सामान्यतः पञ्चविंशतिवर्षमितकालप्राक्तनत्वमवश्यमेवापेक्षते।
Page #10
--------------------------------------------------------------------------
________________
( ३ )
श्रीमन्तः पिटर पिटर्सनमहोदया अपि पञ्चत्रिंशदुसरेकादशशतमितख्रिस्तसंवत्सरमारभ्य पञ्चचत्वारिंशदुत्तरैकादशशतमितख्रिस्तसंवत्सरं यावत् श्रीकण्ठचरितनिर्माणसमयः प्रतिपादितवन्तः ।
एवं सर्वेषाम्प्रमाणानां सम्यगालोचनया राजानक- रुय्यकस्य श्रशीतिः पञ्चाशीतिर्वोत्तरदशशतमितवर्षाणि (१०८०-८५) प्रादुर्भावसमयः समागच्छति ।
प्रन्थकर्तृविषयेऽपि बहुमतमवलोक्यते ।
यथा:
कुत्रचित्प्राचीन हस्तलिखित पुस्तके:
"गुर्व लङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते " । काव्यमाला प्रकाशित पुस्तके:
"निजालङ्कारसूत्राणां वृत्त्या तात्पर्य मुख्यते "
मन्थान्ते च
"सम्पूर्णमिदमलङ्कारसर्वस्वम् । कृतिस्तत्रभवद्राजानकरुय्य
समुद्रबन्धव्याख्यासमा थेतुः -
इति मनुका वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कार सर्वस्वम् ॥” इत्यादि । अत्र प्रथमपद्यार्धे “गुरु” शब्द पाठदर्शनात्प्रतीयते यद्वृत्तिकारस्य गुरुः सूत्रकार इति ।
कस्य " ।
द्वितीय पद्यार्धे "निज” शब्द पाठदर्शनादुप्रन्थान्ते च “सम्पूर्ण मि दमलङ्कार सर्वस्वम् |" इति सामान्यतः सूत्रवृत्याः समुदायस्यैव " अलङ्कारसर्वस्वम्' इति प्रतिपादनात्तस्यैव चान्ते " कृतिस्तत्रभवद्राजा - नकरुय्यकेस्य" इति पाठावलोकनाच्च सूत्रवृत्योरेक एव प्रणेता, स च वृत्तिकारः ।
तथा च उपक्रमोपसंहारपर्यालोचनया सूत्रकारो रुय्यकः, वृत्तिकारो मखुक इत्यवगम्यते ।
यतः ग्रन्थादौ सूत्रेोपन्यासात्प्रागुप दुधातारम्भ एव वृत्तिकारः "गुर्वलकारसूत्राणां वृत्या तात्पर्यमुच्यते ।” इति प्रतिजज्ञे । प्रन्यान्ते च केवलं वृत्तेरेवावसाने
Page #11
--------------------------------------------------------------------------
________________
( * )
" इति मनुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलंकार सर्वस्वम् ॥”
इत्यार्यापि दृश्यते । अत्र “ वितेने” इति क्रियापददर्शनेन स्पष्टमेव प्रतीयते यत्सूत्रग्रन्थस्याभिधेयं “ श्रलङ्कार - सर्वस्वम्" । तच्च गुरुप्रणीतम् । मङ्खुकश्च वृत्या तस्य तात्पर्य विवत्र इति ।
यच्च सुगृहीतनामधेयाः विपश्चिद्वराः महामहोपाध्यायाः श्रीमन्तो गणपतिशास्त्रमहाभागा अनन्तशयन संस्कृत-ग्रन्थावलि - प्रकाशिताल'कार सर्वस्वस्यापो दुघाते ऽनयैवार्यया "मबुके । ऽलङ्कार सर्वस्वस्य” कर्ता प्रख्यायत इति प्रकटितवन्तस्तत्तु नमे समीचीनतया प्रतिभाति ।
श्रय श्रालङ्कारिकसमाजेषु प्रधानभूमिरासीदित्यस्यैव रचितलहृदयलीलासमाप्तौ समाप्तिपाठावलोकनतः स्फुटीभवति:
"समाप्तेयं सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजानकतिलकात्मजश्रीमदलङ्कारिकसमाजाग्रगण्य श्रीराजानक- रुय्यकस्य राजानक रुचकापरनाम्नोऽलङ्कार सर्वस्वकृतः ।
श्रलङ्कारसर्वस्वस्य कर्ता राजानक रुचकः, न तु रुय्यक इत्यपि केचन वदन्ति परमेतदवलोकनाय्यक- रुचकयोर्मध्ये व्यक्ति भेदा न दृश्यते किन्तु एकस्यैव नामद्वयमित्यनुमीयते ।
एतत्प्रणीतग्रन्थास्त्विमेः
------
(१) श्रलङ्कारसर्वस्वम्, (२) श्रलङ्कारानुसारिणी नाम्नी जल्हण - कविप्रणीत सेामपालविलासकाव्यस्य टीका, (३) काव्यप्रकाशसङ्केतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्यमीमांसा, (७) हर्षचरितवार्तिकम्, इति सप्त ।
•
' पतत्पुस्तकसंशोधनावसरे आदर्शभूत प्राचीनपुस्तकानुपलम्भान्मादृशजनसुलभेन मतिदेोषेण च जनिता अशुद्धयः सुधियः संशोध्यानुगृह्णन्त्विति प्रार्थयति विदुषामनुचरो
ज्ये० शु० दशहरा १६८३
शारदाभवनम् काशी ।
गौरीनाथ पाठकः
Page #12
--------------------------------------------------------------------------
________________
अलंकारसर्वस्वम् ।
श्रीमद्राजानकरुय्य (च) कप्रणीतम्
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ इह हि'तावद्भामहोद्भट प्रभृतयश्चिरंतनालंकारकाराः'प्रतीयमान'मर्थ 'वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते । तथाहिपर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादी घस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थ (१) तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । (२) दण्डयादयः। (३) वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमित्यर्थः । (४) विश्रान्तिस्थानतया परमोपादेयतालक्षणम् । (५) चाच्योपस्कारकत्वं ह्यलंकाराणामात्मभूतम् । (६) समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः। (७) तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः। नहर्भिमननमात्रेणैव भावानामन्यथाभावो भवतीति भाषः ।
एतदेव दर्शयति तथाहीत्यादिनाः-तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति सम्बन्धः । वस्तुमात्रं न पुनरलंकारा रसश्च । ... (८) स्वसिद्धय इति । 'कुन्ताः प्रविशन्ति' 'यष्टीः प्रवेशय ' इत्यादी कुन्तादिभिः स्वप्रवेशसिद्धये वसम्बन्धिनः पुरुषा उपस्थाप्यन्ते । तैर्विना तेषां प्रवेशासिद्धः। 'गङ्गायां घोषः' मञ्चाः क्रोशन्ति इत्यादौ तु गङ्गादयः शब्दाः तटादीनां तत्र घोषाधिकरणतादिसिद्धये स्वात्मानं समर्पयन्ति । वयं तस्य घोषाधिकरणत्वासंभवात् ।
Page #13
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
स्वसमर्पणम्' इति 'यथायोगं द्विविधया भङ्गया प्रतिपादितं तैः ।
(१) यथायोगमिति । क्वचिद्धि वाच्योऽर्थः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र याद्वक्तत्र तादगेव योज्यमित्यर्थः ।
तत्र पर्यायोक्तं यथा'अधाक्षीनो लङ्कामयमयमुदन्वन्तमतर
द्विशल्यां सौमित्रयमुपनिनायौषधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् खसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा
'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः __ स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां
भ्रातः प्रत्युपकारिणां धुरि परं वेताल लोलायसे । अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ।' अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति स्वसिद्धयर्थं नायकत्वमाक्षिपति । श्राक्षेपो यथा
'किं भणिमो भएणइ कित्ति अध किं वा इमेण भणिएण। . भरिणहिसि तहवि अहवा भणामि किं वा ण भणिनोसि ॥
अत्र वत्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिग्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमा
कि भणामो भल्यने किमिति अथ किंवा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥ छाया
Page #14
--------------------------------------------------------------------------
________________
शारदा अन्ध-माला।
रुद्रटेन तु भावालङ्कारो 'द्विधैवोक्तः । रूपकदीपकापन्हुतितुल्ययोगितादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोकः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। न्तरमाक्षिपति । यत्त्वत्रान्यैः 'वाच्योऽर्थः स्वसिद्धयेऽर्थान्तरमाक्षिपति इत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् । श्रामुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युकः। व्याजस्तुतियथा
इहिणं पहुणे पहुणे पहुत्तणं किं चिरंतनपहूण। गुणदोसा दोसगुणा एहिं का गहु का तेहिं ॥'*
अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्तत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् ।
(१) गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवनप्रतिवद्धन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥' निदर्शनम्-"ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥" अभिधेयमभिदधानं तदेव तदसदशसकलगुणदोषम् ।
अर्थान्तरमवगमयति यद्वाक्यं सेोऽपरो भावः ॥ निदर्शनमाह-एकाकिनी यदबला तरुणी तथाह
___मस्मद्गृहे गृहपतिः स गतो विदेशम् । , कं याचसे तदिह वासमियं पराकी
श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ इति । ... ... (२) इदानीमलंकारस्थापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिप्रादयति-रूपकैत्यादिना । तत्र रूपकं यथा
*अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्वनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥ छाया ॥
Page #15
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः। तदित त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव ।
'भीमभूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्याटिकमल्लिकापरिचिते भालाग्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥" अत्र नयनादीनां मणिप्रभृतीनां चापमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा* पाउप्रबन्धं पढिउं बन्धेउं तह श्र कुजकुसुमाई।
पोढमहिलं अ रमिउं विरलचित्र के वि जाणेन्ति ॥" अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपह्नतिर्यथा-'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
___ कलङ्को नैवाय विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायाव. गम्यत एव । तुल्ययोगिता यथा'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमर्पितमाननाद्वयघटयन्त कथंचन योषितः ॥'
अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणम् । उपमादीत्यादिशब्दादुपमेयोपमादीनाम् । - (१) अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः। श्रादिशब्दाच तदाभासादयः । तत्र रसवदलंकारो यथा
*प्राकृतबन्धं पठितु बद्धं तथा च कुब्जकुसुमानि । प्रौढमहिलाञ्च रन्तुं विरला एव केऽपि जानन्ति ॥ छाया ॥
Page #16
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्धनिभेदोऽलंकारतयैवोक्तः केवलं 'गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता।
'कृच्छुणारुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता। मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः. सन्वाच्योपस्कारकः ।। तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा'तिष्ठत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः। तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी.. सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥'
अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव । ऊर्जख्यलंकारो यथा'दुग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनि:संधौ परिरम्भणे रतिरथो दोर्मण्डलीदृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ॥
अत्र सीतां प्रति रावणस्य रतिरनौचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम् । एतदेवोपसंहरतितदित्थमित्यादिना । त्रिविधमिति । पर्यायोक्तादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः। तदेवं चिरंतनैः प्रतीयमानस्यालंकारा. न्तर्भाव एव तावदुक्तः । तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः। वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिधतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि । . (१) यदाह-'विशिष्टा पदरचना रीतिः' इति । काव्यात्मकत्वेनेति । यदाह-रीतिरात्मा काव्यस्य' इति । तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः 'तदतिशयहेतवस्त्वलंकाराः' इत्याधुक्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्ये.
Page #17
--------------------------------------------------------------------------
________________
अलारसर्वस्वम् ।
-
उन्टादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । - पक्रोक्तिजीवितकारः 'पुनर्वैदग्ध्यभङ्गीभणितिखभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव 'कविसंरम्भगोचरः । 'उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैतन्मतम् । अन्यैः पुनरेतदपि प्रत्युक्तमित्याह-उद्भटादिभिरित्यादिना।
(१) वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् । यदाह'वक्रोक्तिरेव वैदग्ध्यभङ्गोभणितिरुच्यते' इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह-'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिवर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् ।
(२) कवीति तत्रैव कविः । संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् ।
(३) ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह-उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरम्तर्भूत इति तात्पर्यार्थः । यदाह-'यत्र दूरान्तरोन्यस्मात्सामान्यमुपचर्यते। लेशेनापि भवेत्कर्तुं किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिम्यते ॥ इति । एतामेवोदाजहार च* 'गअणं च मत्तमेहं धारालुलिअज्जुणाई श्रवणाई ।
मिरहंकारमिअङ्को हरन्ति नीलाओं अणिसाओ ॥' . * गगनच मत्तमेधं धारालुलितार्जुनानि च वचनानि ।
निरहहारमृगाङ्कन हरन्ति नीलाच निशाः ॥ १॥
Page #18
--------------------------------------------------------------------------
________________
• . शारदा-प्रन्य-माला।
-
वित्र्यजीवितं काव्यं, न व्यङ्गयार्थजीवितमिति 'तदीयं दर्शनं व्यवस्थितम् । . भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्यान्युपगतस्य काव्यांशत्वं त्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। 'तत्राप्यभिधाभावकत्वलक्षणव्यापारद्धयोत्तीर्णा रसचर्वणात्मा भोगा. परपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः।
"ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननघोतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्या वश्याभ्युपगम्यत्वाव्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्गयरूपस्य गुणा
अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपश्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह-केवलमित्यादि ।
(१) तदीयमिति । वक्रोक्तिजीवितकारसम्बन्धीत्यर्थः । तदित्यं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्धनेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्य वागविषयत्वादलक्षणीयत्वमुक्तमित्याह-भट्टनायकेत्यादि । - (२) तत्रापीति। कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । 'अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्र्यंशं तेनोक्तम् । तत्रापि 'अभिधाधामतां याते शब्दार्थालंकृती ततः। भावनाभाव्य एषोऽपि शृङ्गारादिगणामतः ॥' इत्यंशद्वयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः' इति तृतीयोऽशः सहदय. गतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्! इत्युक्त्या परब्रह्मास्वादसविधवर्ती विश्रान्तिधामतयाभ्युपगतः।
(३) एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्भ्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्यादिना । समयापेक्षार्थावगनशक्तिः रभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तितात्पर्यम् । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिलक्षणा । एतद्वयापारत्रयादुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः ।
(४) अवश्येति । तेन विना व्यङ्गयस्यास्यासंग्रहणात् । व्यापार• स्येति । व्यअनात्मिकायाः क्रियाया इत्यर्थः । सा खल साध्यमानत्वेन
Page #19
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
लंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्ति
तवान् ।
व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव 'समग्रभर सहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम् । " रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । श्रलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्वयङ्गय एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपन्हुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् ।
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः पूर्वापरीभूतावयवत्वान्न स्वरूपेणेोपलभ्यत इति विचारपदवीमेव स्वयपारोढुं नात्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः ।
(१) उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः यदुक्तम् - 'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वने'विषयो मतः ॥ इति । श्रत एव विश्रान्तिधामत्वादित्युक्तम् ।
(२) श्रात्मत्वमिति - सारभूतत्वमित्यर्थः । अत एव तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं वाप्युपयुक्तम् ।
१
'मनु यद्येवं तर्हि " गङ्गायां घोषः " इत्यत्रापि व्यङ्ग्यस्य सद्भावाPatairs प्रसज्येत । नैतत् । इह यदात्मनो व्यापकत्वाच्छरीरे घटादौ च वर्तमानत्वेऽपि करणादिविशिष्ठे शरीर एव जीवव्यवहारो न घटादौ तदस्यापि विविधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मव्यवहारो नान्यत्रेति न कश्विदोषः ।
(३) समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवेोपसंहरति-तस्मादित्यादिना । यस्येति । व्यङ्ग्यनाम्नो रसाद्यात्मनो विषयस्य ।
(४) काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याहरसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् ।
Page #20
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
क्षादनीयमतिगहनगहनमिति नेह प्रतन्यते ।
अस्ति तावद्व्यङ्गयनिष्ठो व्यञ्जनव्यापारः । " तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यैौ द्वौ काव्यभेदौ ।
( १ ) व्यङ्गयनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः । ( २ ) व्यङ्गयं द्विविधं प्रधानमप्रधानञ्च वाच्यार्थापेक्षया
व्यङ्ग्यार्थस्य चारुत्वात्कर्षे व्यङ्गयं प्रधानम् । इदमेव ध्वनिभूतमित्युच्यते । यत्र च वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य चारुत्वात्कर्षाभाव श्रर्थाद्वाच्येन समत्वं न्यूनत्वं वा तदप्रधानम् । इदमेव गुणीभूतव्यङ्गय-. मित्युच्यते । उक्तञ्च सहृदयधुरन्धरेण ध्वनिकृताः
"चारुत्वात्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा ।" श्रीमदप्पदीक्षिताश्ध :
यत्र वाच्यातिशायि व्यङ्गयं स ध्वनिः ।
यत्र व्यङ्गयं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् । यदव्यङ्ग्यमपि चारु तच्चित्रमिति काव्यस्य भेदत्रयम्प्रदर्शि
तवन्तः ।
अत्रैव श्रीकृष्णः
"वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते : काव्यं तु कथिते व्यङ्गये वाच्यादनतिशायिनि ॥ गुणीभूतव्यङ्ग्यमिति स्याद्व्यङ्गस्याप्रधानतः । श्रव्यङ्गयमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥" ध्वनिकारोऽपि
“प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥”
इत्यस्य त्रैविध्यमेव प्रकटयामास ।
श्रीविश्वनाथस्तु :
"काव्यं ध्वनिगुणीभूतव्यङ्गयं चेति द्विधा मतम्" इत्यस्य भेदयमेादाजहार ।
Page #21
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
'व्यङ्गयस्यास्फुटत्वेऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । 'तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविव(१) व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तं ध्वनिकृताः
"रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धोयः स चित्रविषयो मतः॥ . रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।
तदा नास्त्येव तत्काव्यं ध्वनेयंत्र न गोचरः॥" ... (२) निरुक्तकाव्यभेदत्रये ध्वनिकाव्यमुत्तमम् । उक्तश्च:
“वाच्यातिशायिनि व्यङ्गये ध्वनिस्तत्काव्यमुत्तमम् । तदेतदुत्तमं काव्यं ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या बुधैर्ध्वनिरित्यभिधीयते । यथा:"मुक्तावली निशि मया दयिताकदम्ब
वाटीकुटीरकुहरे सखि विस्मृतास्ति । तामाहरेति वृषभानुजया नियुक्ता
ताम्प्रोज्भय किं शशिकले गृहमागतासि ॥" अत्र कृष्णाङ्गसङ्गानुभवायैव तया त्वं प्रतार्य प्रेषिता, न पुनििक्तकहाराहरणाय। यन्नखाङ्कशशिकलाश्चितवक्षोजशम्भुः समागतासीति व्यङ्गयस्य वाच्यादतिचारुत्वादुत्तममिदं काव्यम् । गुणीभूतव्यङ्गयं यथाः
"ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥"
कस्याश्चित्तरुण्या नववञ्जुलमञ्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमालिन्यमभवदित्यर्थः। नूनमनयाऽत्र वञ्जुललतागृहे सन्तोऽकारि परं कर्मान्तरव्यासङ्गात्तत्र न सम्प्राप्ता, जारश्च मर्यागतप्रत्यागतं विज्ञाय सुखाद्वश्चितास्मीति खिन्ना बभूवेति व्यङ्गयम् । तञ्च गुणीभूतम् । तदपेक्षया वाच्यस्यैव चमत्कारकारित्वात् । यतः पश्यन्त्या नितरां मुखच्छाया मलिना भवतीत्यनेन दर्शनकाल एव
Page #22
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
क्षितान्यपरवाच्याख्यौ द्वौ भेदो' । 'आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः । 'द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्य. तत्कायं मालिन्यं तस्यातिशयः सन्तन्यमानताचेति वाच्यं प्रतीयत इति । . बहुतरप्रभेदं चित्रमपि दिमात्रमुदाहृयते । क्रमेणादाहरणम् :
"ऊर्जत्स्फूर्जदर्जनैरिवाहाः प्रोद्यद्विद्युहामविद्योतिताशाः। अद्रावद्रौ विद्रुता द्राघयन्ते दन्तिभ्रान्त्या सिंहसङ्घप्रकोपान् ॥” "कदम्बमाला कलिता के सहर्ष न कुर्वती । कृष्णमूर्तिरिवाभाति कालिन्दीकाननस्थली ॥" ।
पूर्वत्र भ्रान्तिमतः सत्वेऽपि न तस्योत्कटत्वम्, किन्त्वनुप्रासस्यैव अतः शब्दचित्रत्वव्यपदेशः। परत्र कंसस्य हर्ष न कुर्वती कृष्णमूर्तिः कं जनं सहर्ष न कुर्वती, अपितु सर्वमेव जनं सहर्ष कुर्वतीत्यत्र कृष्णमूर्तिरिव कालिन्दीकाननस्थलीत्यनुप्रासे सत्युपमायास्ततोऽर्थचित्रत्वन्यपदेशः॥
(१) “भेदी ध्वनेरपि द्वावुदीरितो लक्षणाभिधामूली । - अविवक्षितवाच्याऽन्यो विवक्षितान्यपरवाच्यश्च" ।
अविवक्षितं अनुपयुक्तं अन्वयायोग्यं वा वाच्यं वाच्योऽर्थों यस्मिन सः । विवक्षितं वाच्यतावच्छेदकरूपेणान्वयबोधविषयं अन्यपरं व्यङ्गयोपसर्जनीभूतञ्च वाच्यं वाच्याऽर्थो यत्र तथाभूतः।
(२) न केवलं ध्वनिरेव द्विविधः किन्तु तत्प्रेभेदोऽप्ययमविवक्षितवाच्यो द्विविधः, यदुक्तं
"अर्थान्तरं सङ्कमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्योऽपि ध्वनिद्वैविध्यमृच्छति ॥” अर्थान्तरे उपयोगिनि लक्ष्यतावच्छेदके सङ्कमितं श्राश्रयत्वेन परिणतं वाच्यं यत्र तथाभूतः । अत्यन्ततिरस्कृतं न केनापि रूपेणान्वयप्रविष्टं वाच्यं यत्र तथाभूतः।
(३) विवक्षितान्यपरवाच्योऽपि ध्वनिः, असंलक्ष्यक्रमव्यङ्गयः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । उक्तश्च:-......
Page #23
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
क्रमव्यङ्गयतया विविधः । लक्षणामूलः शब्दशक्तिमूलो 'वस्तुध्वनिः । असंलक्ष्यक्रमव्यङ्गयोऽर्थशक्तिमूला २ रसादि ध्वनिः । संलक्ष्य.
"विवक्षिताभिधेयोऽपि द्विविधः प्रथमं मतः।
असंलक्ष्यक्रमो यत्र व्यङ्गयो लक्ष्यक्रमस्तथा ॥" सम्यङ् न लक्षयितं शक्यः क्रमो यस्यासावसंलक्ष्यक्रमः, सचासौ व्यङ्गयो यस्मिन् सः।
(१) वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा
'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे.
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वखरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथादिकवेर्वाल्मीके:- .
'रविसक्रान्तसौभाग्यस्तुषारावृतमण्डलः।
निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' अत्रान्धशब्दः स्वार्थं निमित्तीकृत्यादर्शनसाधारणपिच्छायत्वादिधर्मजातं वस्तुरूपं व्यनक्ति। (२) आदिशब्दाद्भावतदाभासादयः । यथाह ध्वनिकारः
_ "रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ॥ तत्र रसध्वनिर्यथा'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्पैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
- करस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ प्रत्र विभावानुभावव्यभिचारिभिर्व्यक्त एव रसः। भाषध्वनिर्यथा'नाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
Page #24
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
क्रमव्यङ्गयः शब्दार्थोभयशक्तिमूलो 'वस्तुध्वनिरलंकारध्वनिश्चेति ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अत्र विधिं प्रत्यसूयाख्या व्यभिचारिभावः । रसाभासध्वनिर्यथा
'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणानूणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला
त्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयेोऽभिलाष इति रसाभासः ।
भावाभासध्वनिर्यथा
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्किं करोमि विदधे कथमत्र मैत्री
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा
'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षत गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवश्चक्षुषेो
भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रास्यायाः प्रशम इति भावप्रशमध्वनिः ।
(१) वस्तुध्वन्यलङ्कारध्वनयोर्मध्ये प्रथमं शब्दशक्तिमूलं वस्तुध्वनिं दर्शयति यथा
निर्वाणवैरदहनाः प्रशमादरीणां
१३
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ' चत्र कौरवाणां चतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव
Page #25
--------------------------------------------------------------------------
________________
१४
अलङ्कारसर्वस्वम् ।
तत्र रसादिध्वनिरलंकारमञ्जर्यां दर्शितः । काव्यस्य शृङ्गारप्रधानत्वात् ।
प्रतीयते । स एवार्थशक्तिमूलो यथा
*'अरससिरोमणि धुत्ताएँ श्रग्गिमा पुत्ति धणसमिद्धिमश्रो । इइ भणिण णश्रङ्गी पष्फुल्लविलाश्रणा जाना ॥' श्रत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवाभयशक्तिमूलो यथा
THE
+ पन्थि एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गचपोहरं पेक्खिऊण जइ वससि ता वससु ॥"
अत्र यद्युपभोगक्षमोऽसि तदा श्रास्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोऽलंकारध्वनिर्यथा
‘उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभर स्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥'
अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्वार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्गीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थमूला यथा
'ता तारा सिरिस होअररणाहरणम्मि हिश्रश्रमेकरलम् । बिम्बहरे पिश्राणं णिवेसि कुसुमबाणेन ॥'
कौस्तुभबिम्बाधरयोः केवल यैवार्थशक्त्यैौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा
'जण हिश्रश्रविदारणए धारासलिललुलिए ग रमइ तहा । तव दिट्ठी चिउरभरे पिश्राण जह वैरिखग्गस्मि ॥॥' *'अलस शिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया. + पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. * तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. + 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चिकुरभरे प्रियाणां यथा वैरिखड्गे ॥' इति च्छाया.
Page #26
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
'गुणीभूतव्यङ्गय वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादी प्रद. शितम् । चित्रं तु शब्दार्थालंकारस्वभावतया बहुतरप्रभेदम् । तथा हि- इहार्थपोनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपोनरुक्त्यं चेति त्रयः पोनरुक्त्यप्रकाराः॥ ___ आदी पोनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघटनार्थम् । 'अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहेति शाब्दप्रस्तावे। इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धः।
तत्रार्थपोनरुक्त्यं प्ररूढं दोषः । प्ररूडाप्ररूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः ।
श्रामुखावभासनं "पुनरुक्तवदाभासम् ॥ . अभियशक्त्या चिकुरभरखड्गयोरौपम्यं गम्यते ।
(१) एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्राप्तं गुणीभूतव्यङ्गयस्यान्यतो योजयति-गुणीभूतेत्यादिना। .. (२) अर्थपोनरुक्त्ये पुनरुक्तवदाभासः, शब्दपौनरुक्त्ये छेकानुप्रा. सादिः, उभयपोनरुक्त्ये लाटानुप्रासः, इत्येवम्भूतः कक्षाविभागः। ।
(३) शब्दप्रतीतिर्हि प्रथमं भवति ततश्चार्थप्रतीतिरिति नियमस्तेन प्राक् शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह अर्थत्यादि।
"नन्वादी शद्वगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्यामः किन्तेन ” इति यदन्यैरुक्तं तदयुक्तम् ।
शब्दार्थयाः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्यो. पपत्तेः।
(४) आपाततः पर्यवसानसमयेऽप्येकार्थस्यैव प्रतीतिरितिभावः। (५) पुनरुक्तस्य इव पुनरुक्तवद् अाभासो ज्ञानं यस्य सः।।
Page #27
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'श्रामुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधयेण काव्यालंकाराणामलंकार्यपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थाश्रितत्वादर्थालंकारत्वं शेयम् । प्रभेदास्तु विस्तरभयानोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा'अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
शैलादिनन्दिचरितं ततकंदर्पदर्पकम् ॥ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥" 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखी ॥' पतञ्च सुबन्तापेक्षया। तिङन्तापेक्षया च यथा तत्रैव
'भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः। . .
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥' शब्दपौनरुक्त्यंतु व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । 'अलंकारप्रस्ताव केवलं खरपौनरुक्त्यमचारुत्वान गण्यते। इति द्वैविध्यमेवोक्तम् ।
संख्यानियमे पूर्व 'छेकानुप्रासः ॥
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः। पूर्व व्यजनसमुदायाश्रितं यथा
(१) यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविधान्तिरित्यर्थः।
(२) केवलं खरपौनरुक्त्यं कुतो न गणितमित्याशङ्कयाह-अलं. कारेत्यादि । यथा-'इन्दीवरम्मि इन्दम्मि इन्दालम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइराणा सरिससंकप्पो ॥' अत्र खरपौनरुक्त्यस्य चारुत्वाभावान्नालंकात्वम् ।
(३) अन्वित्युपसर्गार्थो वीप्सा, अर्थादनेकवारम् । प्रेत्युपसर्गार्थः प्रकृष्टोऽर्थादुत्तमः । श्रास शब्दार्थो न्यासः। तथा च अनुप्रास इति शब्दसमुदाथार्थो वारंवारमुत्तमन्यासः ।
Page #28
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
'किं नाम दर्दुर दुरध्यवसाय ? सायं
कायं निपीडय निनदं कुरुषे रुषेव। एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लजिताऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया कृस्य- . नुप्रासेन सहकाभिधानलक्षणः संकरः। छेका विदग्धाः ।
अन्यथा तु वृत्त्यनुप्रासः॥
केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं ज्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा। तदुपलक्षितोऽयमनुप्रासः । यथारुद्रटस्तु:-" एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । श्रावय॑ते निरन्तरमथवा यदसावनुप्रासः ॥"
इत्युदाजहार। अयञ्च छेकैर्विदग्धैरेव प्रायशोऽनुप्रयुज्यमानत्वाच्छेकानुप्रास इति कथ्यते । एषः-सजातीयाव्यवहितद्वित्रादिवर्णानामप्यावर्तने सम्भवति । यदुक्तम्:. “सजातीयाव्यवहित-वर्णा द्वित्रादयो यदि ।
आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥" (१) उक्तञ्च-श्रीमता विद्याभूषणेन
"माधुर्यव्यञ्जकैर्वर्णरुपनागरिकोच्यते ।
भोजप्रकाशकैस्तैश्च परुषा कोमलापरैः ॥" एतासां क्रमेणादाहरणानिः
"अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताझ्याः । कुर्वन्ति यूनां सह सा यथैताः स्वान्तानि शान्तापरचिन्तितानि ॥"
Page #29
--------------------------------------------------------------------------
________________
१८ .
अलङ्कारसर्वस्वम् ।
'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे .
खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः
स प्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥ • यथा वा
'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा
राकेन्दोः किरणा विषद्रवमुचा वर्षासु वा वायवः । न त्वेताः सरला सितासितरुचः साचीकृताः सालसाः
साकूताः समदाः कुरङ्गकदृशां मानानुविद्धा दशः ॥' खरव्यञ्जनसमुदायपौनरुत्यं यमकम् ॥
अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपर. स्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा
'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
.. तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥' इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।
शब्दार्थपोनरुक्त्यं प्ररूढं दोषः ॥ "मूर्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा
धौतेशाविप्रसादोपनतजयजगजातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदोद्धराणां
दोष्णां चैषां किमेतत्कलमिह नगरीरक्षणे यत्प्रयासः ॥" "अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥" एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि । (१) अत्रैव विश्वनाथः- "सत्यर्थे पृथगायाः स्वरव्यञ्जनसंहतेः
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते"
Page #30
--------------------------------------------------------------------------
________________
शारदो-ग्रन्थ-माला।
प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति ।
तात्पर्यभेदवत्तु लाटानुप्रासः ॥
तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, नतु शब्दार्थयाः स्वरूपम् । यथा
'ताला जाअन्ति गुणा जाला दे सहिएहि घेप्पन्ति । ... रइकिरणाणुगाहिाइँ होन्ति कमलाई कमलाइँ ॥ * 'ब्रमः कियन्नय कथंचन कालमल्प
मत्राब्जपत्त्रनयने नयने निमील्यं । हेमाम्बुजं तरुणि तत्तरसापहृत्य
__ देवद्विषोऽयमहमागत इत्यवैहि ॥' "अत्राब्जपत्त्रनयने निमील्य” इत्यादी विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुत्यालाटानुप्रासत्वमेव ।
'काशाः काशा इवाभान्ति(न्तः) सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुयूनां निम्नगा निम्नगा इव ॥ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषय. त्वात् ।
'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' (१) अत्र श्री गोविन्दठक्कुरः"शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः” । * तदा जायन्ते गुणा यदा ते सहयैर्गुह्यन्ते ।।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ १॥ अत्र एकः कमलशद्वो वाच्यपर्यवसितः, अन्यश्च सौरभवन्धुरत्वाधनेकधर्मनिष्ठ इति तात्पर्यभेदः।
Page #31
--------------------------------------------------------------------------
________________
२०
अलङ्कार सर्वस्वम् ।
तदेवं पैानरुक्तये पञ्चालंकाराः १ ॥ * निगदव्याख्यातमेतत् ।
वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् ॥
पrror प्रस्तावे स्थानविशेषश्लिष्टवर्णपैानरुक्त्यात्मकं चित्रवचनम् । यद्यपि लिप्यक्षराणां खड्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचिकालंकारोऽयम् आदिग्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः ।
यथा
C
भासते प्रतिभासार रसाभासाहताविभा । भावितात्माशुभावादे देवाभा बत ते सभा ॥”
-
एषोऽष्टदलपद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् । विदिग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव । श्रथार्थालङ्कारानाहः
उपमानोपमेययेाः साधयें भेदाभेदतुल्यत्वे उपमा ।
'उपमानोपमेययेारित्यप्रतीतापमानोपमेयनिषेधार्थम् । साधर्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । श्रभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुः - 'यत्र किंचित्सामान्यं
(१) पुनरुक्तवदाभासमर्थपौनरुक्तत्याश्रितं, छेकानुप्रासादयः शब्दपौनरुक्त्याश्रयाः, लाटानुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्या - श्रितालङ्काराः ।
(२) निर्विवादमित्यर्थः ।
(३) " तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।" इति गोविन्दठक्कुरः ।
(४) ननु, साधर्म्यं समानधर्मसम्बन्धः, स च उपमानोपमेययेोरेव सम्भवति नहि कार्यकारणादिकयोरिति “ साधर्म्ये " इत्यनेनैव कार्यनिर्वाहात् उपमानोपमेययोरुपादानं किमर्थमित्याशङ्कयाहःउपमानेत्यादि ।
Page #32
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थीमाता।
कश्चिञ्च विशेषः स विषयः सदृशताया: EINERaालकनार वैचित्र्येणानेकालंकारबोजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालप्तादित्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथनिर्देशः पृथनिर्देशे च संबन्धिभेदमात्र प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणेदाहरणम्
'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥' 'यान्त्या मुहुर्वलितकंधरमाननं त
दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धेोऽमृतेन च विषेण च पदमलाया
गाढं निखात इव मे हृदये कटाक्षः॥' अत्र वलितत्वावृत्तत्वे सम्बन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो नवचन्दनेन ।
श्राभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ॥' अत्र हाराङ्गरागयोनिर्भरवालातपो प्रतिविम्बत्वेन निर्दिष्टौ । एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥
(१) नन्वनेकेषु अर्थालङ्कारेषु सत्वपि प्रथममियमेव किं निर्दिष्टेत्याहः-उपमैवेत्यादि । __(२) न अन्वयः अनन्वयः, इति व्युत्पत्तरेनन्धयशब्दस्यार्थोऽन्वयस्थाभावः । अन्वयस्तु पदार्थयाः परस्परं सम्बधः । अत्र च रुद्रट:
“सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य खयमेव भवेदुपमानञ्चोपमेयश्च ।"
अस्योदाहरणञ्चःश्रानन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु । इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसराः ।
Page #33
--------------------------------------------------------------------------
________________
%3
अलङ्कारसर्वस्वम् । 'वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति । यथा- .
'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो
भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपति कुरूणा
मुत्प्रासनाथेमिव जग्मतुरादरेण ॥' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ।
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो योगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारणये वस्तुप्रतिवस्तु. निर्देशे च द्विधा।
आद्या यथा'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' द्वितीया यथा'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥
हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः। अत्र लोकोत्तरत्वं प्रतिपादयितं श्रात्मनैवोपमानोपमेयभावो निबद्धः।
(१) ननु सादृश्यस्योभयनिष्ठत्वेनैव सम्भवादेकस्य च तदभावाकथमिह तदाश्रयस्याप्यस्य वचनमित्याहः-वाच्याभिप्रायेणेत्यादि ।
२. “ प्रथमवाक्यगतसाधारणधर्ममेव साधारणधर्मीकृत्य प्रथमवाक्यगतेनोपमेयेन प्रथमवाक्यगतस्योपमानस्योपमा उपमेयोपमा । उपमातुं योग्यः उपमेयः, उमेयेन उपमा यत्रेतिभावः । __ रसनोपमायान्तु एकस्यैव क्रमश उपमानोपमेयभावः, अतस्तद्वारणाय द्वयोरिति । द्वयोरित्युपमानोपमेययोरित्यर्थः । मुखमिव कमलम् “इत्यादौ समकालमेव द्वयोरुपमानोपमेयत्वमिति तद्वारणाय पर्यायेण" इति।
Page #34
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
'वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम्। यथा'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ सादृश्यं विना तु स्मृति यमलंकारः । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।। रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः)॥'
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । तत्रापि विभावाद्यागृरितत्वेन, स्वशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं इत्यादि । 'यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्नुतिपाटलीकृतपुरोभागः परान्पातयन् । तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल.
ज्वालालीभरभाखरे स्मररिपावस्तं गतं कौतुकम् ॥ १. सदृशस्य वस्तुनः दर्शनाद्यस्य कस्यचित्स्मृतेरलङ्कारत्वेऽतिप्रसङ्ग इत्याशङ्कयाहः-वस्त्वन्तरमिति । अनुभूयमानेन वस्तुना सदशस्यैव वस्तुनः स्मरणं स्मृतिरित्यर्थः ।
२. ननु यद्यन्यस्मादन्यस्य प्रतिपत्तिश्चेत्तदा कुतो नेदमनुमानमित्याशङ्कयाहः- अविनाभावेत्यादि।
विना (व्यापकं ऋते ) भावः (स्थितिः) न भवति इत्यविना. भावः । व्याप्तिरित्यर्थः । इयमेवानुमानस्य बीजभूता।
अविनाभावश्च व्याप्यव्यापकयोरेव सम्भवति नतु अनुभूयमान. स्मर्यमाणयोरपि । तयोर्नित्यसाहचर्याभावादत एवात्र तदभावान्नानुमानमितिभावः।
३. एवं स्थितेऽपि सतीत्यर्थः । विभावादिभिराक्षिप्तत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिर्विषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा- 'अहो कोपेऽपि कान्तं मुखम्' इति ।
Page #35
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
इत्यादी सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् ।
मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनाङ्ककारा निर्णीताः । 'संप्रत्यभेदप्राधान्येन कथ्यन्ते
अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् । अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयस्य विषय्यवष्टब्धत्वाद् विषयस्यापह्नवेऽपह्नतिः। अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रपकम् । साधर्म्य त्वनुगतमेव । "यदाहुः–'उपमैव तिरोभूतभेदा रूपकमुच्यते ।
यथा बाहुलतापाणिपद्मं चरणपल्लवः।' इति ।
१. एतत्स्मरणमुद्भटादिमते काव्यलिङ्गमिति कथ्यते यदुक्तम् उद्भटप्रणीते काव्यालङ्कारसंग्रहे
. 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ इति । २. संप्रतीति । भेदाभेदतुल्यत्वाश्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति-अभेदप्राधान्य इत्यादि ।
३. आरोपे अभेदस्य प्रधानतायां-भारोपविषयस्य च अनपन्हवे सति रुपकं भवतीत्यर्थः । उपमायां भेदाभेद्योरुभयोः प्राधान्यम् । व्यतिरेकालङ्कार भेदप्राधान्यम् उपमाव्यतिरेकयोावृत्त्यर्थं " अभेदप्राधान्ये " इत्युक्तम् । अपन्हुत्यलङ्कारव्यावृत्तये “ आरोप विषयानप. न्हवे' इत्युक्तम् । रूपयति-उपमानोपमेययोरभेदारोपेण एकतां नयतीति रूपकम्।
४. अन्यत्र मुखादी, अन्यस्य चन्द्रादेरावापः निक्षेप इत्यर्थः । ५. दण्डिमहोदयाः।
Page #36
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
'प्रारोपादभेदेनाध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आधं
केवलंमालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविघर्तिचेति द्विधैव । तृतीयं तु क्लिष्टाश्लिष्टशब्दनिवन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाश्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । 'अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । क्रमेण यथा(३) दासे कृतागसि भवत्युचितः प्रभूणां
. पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्करकण्टकारें
यद्भिद्यते तव पदं ननु सा व्यथा मे ॥" १. ननु चाध्यवसायगर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्याशङ्कयाहआरोपादित्यादि।
२. केवलमेकधैव रूपितमित्यर्थः । यत्र एकस्मिन बहव आरोप्यन्ते तन्मालारूपकम् ।
३. समस्तं वस्तु प्रारोप्यमाणविषयः शब्दप्रतिपाद्यो यत्र तत् । एकस्मिन्देशेऽशे विवर्तनाद् विशेषेण वर्तनात् अर्थात् अारोप्यमाणस्य सर्वत्र शब्दवशलभ्यत्वे एकांशेऽर्थवशलभ्यत्वस्य विशेषस्य सद्भावादेकदेशविवर्ति ।
४. तत्रादौ निरवयवं, सावयवं परम्परितञ्चेति त्रिविधम् । प्रथमं केवलं मालारूपकञ्चेति द्विविधम् । द्वितीयं समस्तबस्तुविषय. मेकदेशविवर्तिचेति द्विविधम् । .. ५. अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः। चिरन्तनालंकारप्रन्थेज्वेव संभवन्तीति भावः।।
६.मानिनी प्रसादयितुः कस्यचिन्नायकस्याक्तिरियम् । तव पादप्रहारोपि मे पुलकोद्गमो भवति तथापि मयि तव क्रोध इत्यर्थः । अत्र एकस्यैव पुलकाङ्करस्य एकेनैव कण्टकेन रूपणात् निरषयवत्वं केवलत्वश्च।
Page #37
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
... - (१) 'पीयूषप्रसूतिर्नवा मखभुजां दात्रं तमोलुनये
स्वर्गङ्गाविमनस्ककाकवदनरस्ता मृणालीलता। - द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' (२) 'विस्तारशालिनि नभस्तलपत्नपात्रे
. कुन्दोज्ज्वलप्रभमसंचयभूरिभक्तम् । गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते ? कलिकालकर्ण ?' (३) 'श्राभाति ते क्षितिभृतः क्षणदानिभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा। इन्दुत्विषो युधि हठेन तवारिकीर्ती
रानीय यत्र रमते तरुणः प्रतापः ॥' तितिभृत इत्यत्र श्लिष्टपदं परम्परितम् । 'कि पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न वा . वृद्धि वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दो तव सत्ययं यदपरः शीतांशुरभ्युद्गता . दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥' ... १. अत्र एकस्या एव प्रालेयभानुतनोः पीयूषप्रसृत्यादिभिः सह कपितत्वानिरवयवत्वमालात्वे ।
२. अत्र भसञ्चयस्यावयविनो भक्तत्वेन नभस्तलगङ्गातरङ्गयोर्गुणभावाद्वयवभूतयोश्च पत्नपात्रत्वेन माहिषदुग्धत्वेन च रूपितत्वादिदं समस्तवस्तु विषयं सावयवम् ।
३. अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन, प्रतापस्य तरुणत्वेन रूपणं शाब्दम् । कीर्तीनां नायिकात्वेन रूपणमार्थम् । अत इदमेकदेशविवर्ति। श्लिष्टशब्दपरम्परितमप्यत्रैव दर्शयति-क्षितिभृत इति । अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन रूपणनिमित्तं वर्णनीयस्य राज्ञः पर्वतेन श्लिष्टशब्देन रूपणम् ।
Page #38
--------------------------------------------------------------------------
________________
शारदा ग्रन्थ-माला ।
अत्र वक्त्रेन्दुरूपणहेतुकं पीयूषस्याधरामृतेन श्लिष्टशब्देन रूपणम् । 'विद्वन्मानसहंस ! वैरिकमला संकोच दीप्तद्युते !
दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! | सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥ त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोपइति श्लिष्टशब्दं माला परम्परितम् ।
'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ ! | जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम् ॥' 'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषान्धेस्तरङ्गो
भग्नप्रत्यर्थिवं शोल्बणविजय करिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खड्गः क्ष्मासैौविदल्लः समिति विजयते मालवाखण्डलस्य ॥ ' श्रत्र मासविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽपि भेदा लेशतः सूचिता एव । इदञ्च वैधर्म्येणापि दृश्यते । यथासौजन्याम्बु मरुस्थली सुचरितालेख्यद्यभित्तिर्गुण
ज्योत्स्ना कृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसडुख्यत्वेऽपि कचित्स्वतेोऽसंभवत्संख्यायोगस्यापि विषय संख्यात्वं प्रत्येकमारोपात् । यथा - 'क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः' इत्यादौ । न हि कपिलमुनेर्बहुत्वम् ।
'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरते विषं वियोगिनीनाम् ॥” १. भ्रमिमिति ।
जलदो मेघ एव भयावहत्वाद्भुजगः सर्पः, तज्जं जलमेव हालाहलं विषं, तदेव वियोगिनीनां प्रोषितभर्तृकाणां, भ्रमिं = उन्मत्त
Page #39
--------------------------------------------------------------------------
________________
अलकारसर्वस्वम् । इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो' विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधक इति पूर्व सिद्धत्वाभावान्न तनि बन्धनम् । विषशद्धे श्लिष्टशद्वं परम्परितमिति श्लेष एवात्रेत्याहुः ।
आरोप्पमाणस्य प्रकृतोपयोगित्वे परिणामः । 'आरोग्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतया आरोपायमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविइव इतस्ततो भ्रमणां, अरति = सर्वत्र मनःप्रसादाभावं, अलसहृदयतां=अनुत्साहहतमानसतां, प्रलयं = नष्टचेष्टतां, मृच्छा = इन्द्रियव्यापारनिरोध, तमः = मोहं, शरीरसादः = शरीरपीड़ां मरणञ्च कुरुत इत्यर्थः ।
१. प्रथममेव प्रतीतिविषयीभूत इत्यर्थः । २. श्लेषप्रतीतिमन्तरेण सन्दिग्धत्वान्न रूपकनिबन्धनमित्यर्थः ।
३. निजस्थितेरन्यथाभावः परिणामः, यथा मृत्तिका खाकारं प्राप्नोति अथ च खोयां मृत्तिकात्वजातिं विहाय घटत्वादि जाति लभत इति भावः।
४. आरोप्यमाखं प्रकृतात्मतां प्राप्याचरणं करोतीत्यर्थः । विमर्शनीकारः स्पष्टीकरोतिः-एकं वस्तु उचितं भवति एकं वस्तु उपयोगि भवति । तत्र उचितं तु सिद्धस्य पोषकम् । उपयोगि तु प्रकृतार्थस्य सिद्धौ साधकम् । यथा-अनन्वयालङ्कारे "इन्दुरिन्दुरिव” इत्यत्र " इन्दुश्चन्द्र इव " इति कथनेऽपि अनन्वयः सिद्धयति । अतोऽनन्य. यसिद्धौ शब्देक्यस्य नोपयोगित्वं तथाप्यनन्वयेऽप्यर्थैक्यवत् “इन्दु. रिन्दुरिव" इतोदृशशब्दैक्येऽर्थस्य सुगमता अत्रेदमेव पोषकत्वम् । अतोऽत्र शब्दैक्यमुचितरूपम् । किञ्च लाटानुप्रासे शब्दैक्यस्योपयोगित्वम् । यतः शब्दैक्यमन्तरा लाटानुप्रासो न सिद्धयति । तथा परम्परितरूपकेऽन्यरूपकाकरणेऽपि प्रथमरूपकस्यासिद्धिर्नास्ति । परन्त्वन्यरूपकं प्रथमरूपकस्य पोषकत्वादुचितरूपम् । - एवञ्च क्रियाकरणे आरोप्यमाणस्यौचित्ये रूपकम् । उपयोगित्वे तु परिणामः।
Page #40
--------------------------------------------------------------------------
________________
शारदाप्रन्ध-माला।
-
-
गमख्यात्यसम्भवात्सांख्यीयपरिणामवैलक्षण्यम् । तस्य च सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् दैविभ्यम् । श्राद्यो यथा'तीर्वा भूतेशमौलिनजममरधुनीमात्मनासी तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं
कृच्छादन्योयमानस्त्वरितमथ गिरि चित्रकूटं प्रतस्थे । अत्र सौमित्रिमैत्री प्रकृता भारोप्यमाणसमानाधिकरणातररूप. स्वेन परिणता । श्रातरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तत्र यथा समासोक्तावारोप्यमाण प्रकृतोपयोगि तारोपविषयात्मतया स्थितम्, अत एव तत्र तदुव्यवहारसमारोपः, न तु रूपसमारोपः । एवमिहापि क्षेयम् । केवलं तत्र विषयस्यैव प्रयोगः। विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं, तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा
'अथ पत्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमायः॥ अराजसंघटने उपायनमुचितम् । तात्र वचोरूपमिति वचसा व्यधिकरणोपायनरूपत्वेन परिणामः ।
विषयस्य संदिद्यमानत्वे सन्देहः ।
अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः, यद्भित्तित्धेनाप्रकृतः सन्दिह्यते । अप्रकृते संदेहे विषयोऽपि सन्दिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। सच त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् । यथा'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लोलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे ।
-
-
१. तीत्वैतिःमद्यास्तरणमूल्यमातर इत्युच्यते । अत्र प्रकृता अर्थात् प्रकरणस्थिता तु गुहेन सह लक्ष्मणस्य मैत्रो, सा चाप्रकृता तरीभूता अर्थात् सोमित्रिमैत्री तरणस्य मूल्यं जाता। तात्पर्यमिदं यत् समिविभव गुहो
Page #41
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।....
.... उन्नाढोत्कलिकावतां खसमयोपन्यासविरम्भिणः
___किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥' निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा
त्समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' निश्चयान्तो यत्र संशयोपक्रमो निश्चये पर्यवसानम् । यथा-- . 'इन्दुः किं व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा-- 'रञ्जिता नु विविधास्तरुशैला नामितं न गगनं स्थगितं न । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥'
अत्रारोपवियषतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायात्मकत्वेनेमं संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतकसत्वांदुत्प्रेक्षाप्रकारमिममाचक्षते
सादृश्यावस्त्वन्तरप्रतीतिभ्रान्तिमान्'। .: असम्यग्ज्ञानत्वसाधात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चिसधर्मोविद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा'. ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि दाडिमफलभ्रान्त्याच शोणे मणौ । निष्पत्त्या सकृदुत्पलच्छददशामात्तक्लमानामरी
__राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥' गाढमर्मप्रहारादिना तु भ्रान्ति स्यालंकारस्य विषयः । यथारामादीन् गङ्गायाः पारं निनाय । अत्र तरणमातरकार्यम् । तथा च सौमित्रिमैत्र्या आतरत्वे सा प्रातरकार्यं कृतवती । : (१) भ्रान्तिश्चित्तधर्मो विद्यते यस्मिन सभ्रान्तिमान् ।
Page #42
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
-
.
दामोदरकराधातचूर्णिताशेषवक्षसा ।
दृष्टं चारपूरमल्लेन शतचन्द्रं नभस्तलम् ॥' . .. सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैवगृह्यते। यथोदाहृता न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्या त्पुरुषो वास्यादिति संशयेऽपि बोद्धव्यम् ।
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेर्दै निर्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्त वशादेतत्क्रियते । तत्र च रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्का
यथा
'यथारुचि यथाथित्वं यथाव्युत्पत्ति भिद्यते।
भाभासोऽप्यर्थ एकस्मिन्ननु संधानसाधिते ॥” इति यथा-'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एवश्रीकण्ठाख्यो जन पदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्त व्यस्तावा योजयितं शक्यन्ते । नन्वतन्मध्ये 'वज्रपक्षरमिति शरणागतैरसुरविवरमिति वादिकैः इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः । सत्यम् । अस्ति ताव “त्तपोवनम्” इत्यादी रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्पतायाः संभवः। यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं तर्हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु । अतद्रूपस्य तद्रपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्य भावात् । तद्धेतुकत्वाचास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव। यद्येवम, अभेदे भेद
१ अलङ्कारजन्या शोभा विच्छित्तिः ।..
Page #43
--------------------------------------------------------------------------
________________
श्रलङ्कार सर्वस्वम् ।
इत्येवंरूपातिशयेोक्तिरत्रास्तु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इतिनिश्चयः । यथा वा
३२
"गाराअणोति परिणश्रवहूहिं सिरिवल्लहो ति तरुणीहिं । बालाहिं उग कोऊह लेख ए श्रमे श्र सच्चविश्रो ।"
1
6
एवं गुरुर्वचसि पृथुरुरसि विशाला मनस्यर्जुना यशसि इत्यादाववसेयम् । इयांस्तु विशेषः- पूर्वत्र ग्रहीतृभेदेनानेकधात्वाल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वाल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । श्रनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते । इति तत्प्रतिभोत्पत्तिहेतुः श्लेषेोऽप्यत्र स्यात् । न तु सर्वथा तदभावः । श्रतश्चालंकारान्तरम् । यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवंकारकान्तरविच्छित्त्याश्रयणेनाप्ययमलंकारो निदर्शनीयः ।
"
विषयस्थापन्हवेऽपह्नुतिः' ।
वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । श्रारोपप्रस्तावादारोपविषयापहृतावारोप्यमाणप्रतीतावपत्याख्येोऽलंकारः ।
तस्य च त्रयी बन्धच्छाया - श्रपन्हवपूर्वक श्रारोपः । श्रारोपपूर्वकोsपहवः । छलादिशब्दैरसत्यत्वप्रतिपाद कैर्वापह्नव निर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । श्राद्यो यथा
१ नारायण इति परिणतवधूभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेनैवमेव दृष्टः ।
( २ ) अपन्हुतिः = गोपनमित्यर्थः । तथा च गोपनं चमत्कारकारिचेदपन्हुत्यलङ्कारः । चमत्कारमन्तरा कुत्राप्यलङ्कारो न भवतीत्यर्थः ।
काव्यप्रकाशगतकारिकाकारस्य त्विदं लक्षणम्ः
“प्रकृतं यन्निषिध्यान्यत्साध्यते सात्वपन्हुतिः ।" वामन वाग्भटरुद्रप्रभृतयोऽपीत्थमेव लक्षणान्याहुः ।
Page #44
--------------------------------------------------------------------------
________________
'यदेतच्चन्द्रान्तर्जलद लवलीलां प्रकुरुते
तदाचष्टे लेोकः शशक इति नो मां प्रति तथा । अहं त्विन्दं मन्ये त्वदरिविरहाक्रान्ततरुणी
शारदा-ग्रन्थ-माला ।
द्वितीया यथा
कटाक्षाल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥ streets शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिण्वत - इन्दारारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथा'पूर्णेन्दोः परिपोषकान्तवपुषः स्फार प्रभाभास्वरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषेोर्जगत् । मारस्याच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानान्नद्धजनाभिमानदलनेोद्योगे कहेवाकिनः ॥
▪
विलसदमरनारीनेत्रनीलाब्जखण्डा
न्यधिवसति सदा यः संयमाधः कृतानि । न तु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥ ' तृतीया यथा
"उद्भ्रान्तोज्झितगेहगुर्जरवधू कम्पाकुलोच्चैः कुचप्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना । सार्धं त्वद्विपुभिस्त्वदीययशसां शून्ये मरौ धावतां
भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भः कणैः ॥”
३३
I
अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवेोत्प्रेक्षा इत्यपि स्थापयिष्यते । 'अहं त्विन्तुं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपह्नवारोपयेाः पौर्वापर्यप्रयोगविपर्यये भेदद्वये सदपि न पूर्ववचित्र तावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । श्रारोपपूर्वके त्वपड़वे
यथा-
'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी -
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपा द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥
Page #45
--------------------------------------------------------------------------
________________
३७
अलकारसर्वस्वम् ।
क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि घपुःशब्दाविनिवन्धनं यथा'अमुष्मिल्लावण्यामृतसरसि नूनं मृगद्दशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः। यवनाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥” इति। एवमभेदप्राधान्ये आरोपगर्भानलंकारांलक्षयित्वा अध्यवसायगर्भीलक्षयति
तत्र।
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः' । स च द्विविधः-साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः। असत्यत्वं च विषयिगतस्यधर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः। धर्मो गुणक्रियारूपः, तस्य संभवासंभवप्रतीतो संभवाश्रयस्य तत्र परमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः। अतश्वव्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्यत्वं च (........) पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतो व्यापा रप्राधान्येऽध्यवसायः। संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरु
(१) अत्रेताशब्देन दर्शनं, स्थापनं, स्वीकरणं, आशङ्कनमित्यादीनां संग्रहो विवक्षितः।
(२) विषयस्य निगरणं कृत्वा विषयिणो यदभेदशानं तवण्यवसाथ इत्युच्यते । निगरणं तु निगलनम् । व्याकरणरीत्या रकारस्य लकारो जातः । निगलनन्तु ग्रसनम् । अत्र विषयस्य निगलनं विषयिणि विषयस्यान्तर्भावः। अत्र च निगलनन्तु स्फटिककलश. गतासवन्यायेन विवक्षितम् । स्फटिककलशोदरगत आसवो यथा प्रतीयते तथोपमानोदरगतमुपमेयमत्र प्रतीयते । उक्ताभेदनिधयोऽलङ्कारशास्त्रेऽध्यवसाय इत्युच्यते ।
Page #46
--------------------------------------------------------------------------
________________
शारदा-प्रन्य-माला।
-
च्यते । तदेवमप्रकृतगुणक्रियाभिसंबन्धादप्रकृतेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिशब्दैरुच्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्धा । प्रकृस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति ते न गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वेन षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रकाराः । तेषु च हेतुखरूपफलोत्प्रेक्षणरूपत्वेन षएणपतिर्भेदाः । एषा गतिर्वाच्यात्प्रेक्षायाः। तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवात हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्यु. इशत एतावन्तो भेदास्तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैमदैयूंनोऽयं प्रकारः। इवाद्यनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणकत्वात् । प्रायश्च स्वरूपोत्प्रेक्षात्र न संभवति । तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं निर्देशः । एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद्दश्यते । क्वचित्पदार्थान्वयभेदावा सादृश्या. भिधानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहकमेणोत्प्रेक्षायां पर्यवस्यति। क्वचिञ्च च्छलादिशब्दप्रयोगे सापहवोत्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः। सांप्रतं त्वियं दिवाणेदाह्रियते । तत्र जात्युत्प्रेक्षा यथा'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः
स्मरारो मूर्ध्नि ज्वलनकपिशे भाति निहितः। सवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ॥' अत्राङ्करशब्दस्य जातिशब्दत्वाजातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । . अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्यते । उत्तरार्धे तु
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥' इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा'एषा स्थली यत्र विचन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अद्दश्यत त्वचारणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥'
Page #47
--------------------------------------------------------------------------
________________
अलङ्कार सर्वस्वम् ।
अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा'पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥ अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वम् । एतानि भावाभिमानेनोदाहरणानि । अभावाभिमानेन यथा
'कपोलफलकावस्याः कष्टुं भूत्वा तथाविधा 1 अपश्यन्ताविवान्यान्यमीदृक्षां क्षामतां गतौ ॥
अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावप्यूह्यम् । गुणस्य निमित्तत्वं यथा - 'नव बिसलताकोटि कुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा - 'ईद्रक्षां क्षामतां गती' इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे | अनुपादाने लिम्पतीव तमोऽङ्गानि इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा - 'विश्लेषदुःखादिव बद्धमानम्' इत्यादी । स्वरूपोत्प्रेक्षा यथा
कुबेरजुष्टां दिशमुष्णरश्मी गन्तुं प्रवृत्ते समयं विलङ्घय । दिक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवात्ससर्ज ॥” फलोत्प्रेक्षा यथा
'चालस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥ एवं वाच्येोत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा* महिला सहस्सभरिए तुह हिश्रए सुहा सा श्रमान्ती । अणुदिणमणरणअम्मा अङ्गं तत्रम्पितपुएइ ॥ इति । “श्रमाअन्ती” इत्यत्रावर्तमानेवेति तनूकरण हेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा
'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीता जगतीतले यः । अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥१
( १ ) श्रत्र कपोलफलकयास्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपसाध्यत्वात् क्रियारूपक्षामतायां कारणतयेोत्प्रेक्षितम् । तेनेयमतत्क्रियायोगादभावाभिमानेनेोत्प्रेक्षा । ईक्षां = ईदृशीम् । (१२) “महिला सहस्रभरिते तव हृदये सुभग सा श्रमान्ती । अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥”
Page #48
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
अत्र धर्मविषये मार्गशब्दः श्लिष्टः । उपमोपक्रमोत्प्रेक्षा यथा
कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे __रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरः च कालागुरु. स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥"
अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप' इत्युपमानाक्विविधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवर्णने केयूरायितमङ्गदैः' इत्या. दो । एषाच समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता (दृश्यते । ) इह तु प्रन्थविस्तरभयान्न प्रपञ्चिता। सापह्नवोत्प्रेक्षा यथा
'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा॥ अवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपह्नवो गम्यते । एवं छमादिशब्दप्रयोगेऽपि शेयम् । 'अपर इव पाकशासनः' इत्यादावपर. शब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावुत्प्रेक्षवेयम् । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः। अपरशब्दस्याप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा के प्रति स हेतुः स्यात् । यथा-'अपश्यन्ताविवान्योन्यम्' इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्त. स्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च तत्र क्षामतागमनं निमित्तम् । एवं 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिनिर्दिश्यते । यथा-'स वः पायादिन्दुः' इत्यादौ । अत्र कुटिलत्वादि निर्दिष्टमेव । 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादिगम्यमानम् । यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानु. पादानाभ्यां वैविध्यम् । उपादाने यथा- ...
Page #49
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् । "प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे वेपमामान्ता भयविह्वलितेष भूः ॥"
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मात्प्रेक्षायां कम्पादिनिमित्तमुपात्तम् । अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वात्प्रेक्षायां व्यापनादिनिमित्तंगम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्थाभिधातु. मुचितत्वात् । तस्माद्यथोक्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्थ कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वे. नोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव । न प्रकारान्सरम् । यथा
'रथस्थितानां परिवर्तनाय पुरातनामामिव वाहनानाम्
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम्। तदसावुत्प्रेक्षायाः कक्ष्याविभागःप्रचुरतया स्थितोऽपिलदये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः। किन्तूप्रेक्षासामठ्यभावे मन्येशब्दप्रयोगा वितर्कमेव प्रतिपादयति यथोदाहृतं प्राक् । 'अहं त्विन्दुं मन्ये त्वदरिविरह' इत्यादि ।
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति खक्षयति.. 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः।
(१) अध्यवसितस्य अभ्यवसायं प्राप्तस्य वस्तुनः प्राधान्येऽतिशयोक्तिर्भवति । अस्यायं सिद्धान्तः
. अध्यवसायस्य सिद्धदशायामतिशयोक्त्यलङ्कारः । अथ . , खाध्यदशायामुत्प्रेक्षालङ्कारो भवति । अतिशयोक्त्युदाहरणेषु निगरणं भतकालिकं उत्प्रेक्षादाहरणेषु तु वर्तमानकालिकम् ।
अतिशयोक्तावध्यवसायस्वीकार इदं तात्पर्यम् । अत्रैकं वस्तु अन्य. स्थ वस्तुन उदरगतं कृत्वा अन्यद्वस्तु स्थाप्यते,अत एव वास्तवं वस्तु तस्योदरे प्रतीयते । येन वस्तुना वस्त्वन्तरस्य निगरणं कृतं तजिगरण
Page #50
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
-
अध्यवसाने अयं संभवति-स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषय. प्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पश्च प्रकाराः । भेदेऽभेदः। अभेदे भेदः। संबन्धेऽ. संबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च ।
तत्र भेदेऽभेदो यथा'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' . अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदः। अभेदे भेदो यथा'अण्णं लडहत्तणनं अण्णाविश्र कावि वत्तणच्छात्रा।
सामा सामाएणपत्रावइण रेहञ्चिन ण होइ ॥' कर्तृ वस्तु तत्र वस्तुतो नास्ति तो लोकसीमातिवर्तनं वर्तते । यथा "लावण्यसिन्धुरपरैव” इत्यत्र कमलादिभिर्मुखादीनां निगरणं कृतं, परन्त्वत्र कमलादीनि वस्तूनि वस्तुतो न सन्ति अतस्तेषामुदरे मुखादिकं प्रतीयते ।
एवञ्चानयारीत्या वास्तवस्यावास्तवतया निश्चयरूपेण वर्णनं लोकसीमातोबहिर्वर्तते। ___ उत्प्रेक्षायाः सम्भावनारूपतयाऽर्थादेककोटिकसन्देहरूपतया निश्चयरूपत्वाभावात्तत्र लोकसीमातिवर्तनं नास्ति ।
(१) अत्र कमल-कुवलय कनकलतिकापदैर्मुखनेत्रकामिनीना कम. लत्वादिनाध्यवसानादतिशयोक्तिः । (२) अन्यत्सौकुमार्यमन्यैव कापि वर्तनच्छाया । - श्यामा सामान्यप्रजापते रेखैव न भवति ॥ लडहशब्दः सौकुमार्ये । अत्र सौकुमार्यादीनामभेदेऽपि.भेदत्यवर्णनरूपातिशयोक्तिः । .... .. .............
Page #51
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा-.. १"मग्गिअलद्धम्मि बलामोडिअचुम्बिए अप्पणा अ उबणमिए । एक्कम्मि पित्राहरए अरणोरणा होन्ति रसभेला ॥"
अत्र अभिन्नस्यापि प्रियाधरस्य विषयविभागेन भेदोपनिबन्धः । संबन्धेऽसंबन्धो यथा-
. 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्वीकृतः
खच्छन्दस्य सुखं जनस्य वसतश्चिन्तानला दीपितः ।। एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥' अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थं निबद्धः । यथा वा"अस्याः सर्गविधौ प्रजापतिरभूश्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः ॥' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे संबन्धो यथा
"पुष्पं प्रवालोपहितंयदि स्यान्मुक्ताफलं वा स्फुटविद्रमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' अत्र संभावनया संबन्धः । यथा वादाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेसितदीप्रदीपकलिकाः पाण्डिन्नि मग्नं वपुः। किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥" (१) मागितलब्धे बलात्कारचुम्बिते श्रात्मना चोपनीते ।
एकस्मिन्नपि प्रियाधरे ऽन्योऽन्या भवन्ति रसभेदाः ॥ (२) अत्र ब्रह्मणि समस्तसृष्टिरचनाकर्तृत्वसम्बन्धे सत्यप्यसम्बन्धः प्रदर्शितः।
(३) अत्र असम्बन्धेऽपि सम्बन्धः स्पष्ट एव । :
Page #52
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ- माला |
श्रत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनेोक्तः। 'कार्यकारण पौर्वापर्यविध्वंसः । पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । तत्र पौर्वापर्यविपर्ययेा यथा
"हृदयमधिष्ठितमादा मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ ? लोचनविषयं त्वया भजता ॥" तुल्यकालत्वं यथा
''अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । श्रयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥'
४१:
एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । श्रत्र चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि 'कमलमनम्भसि ' इत्यादी वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सैौन्दर्यं कविसमर्पितेन सैान्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायेा योजनीयः ।
भेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि 'अराणं लडहत्तणचं ' इत्यादा सातिशयं लटभात्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकार प्रस्तावे प्रपञ्चार्थं लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्य
( १ ) कार्यकारणयेाः पौर्वापर्यविध्वंससश्चः
कार्यस्य प्रथममुत्पत्तिः कारणस्य पश्चादुत्पत्तिरित्येकः प्रकारः । श्रस्योदाहरणञ्च " प्रागेव हरिणाक्षीणाम् ” इति प्रागेव प्रदर्शितम् । द्वितीयस्तु कार्यकारणयोर्युगपदुत्पत्तिः ।
(२) श्रत्र मालतीनाम नायिकाया हृदयस्य नायककर्तृकमधिष्ठानं कारणं, तत् मदनबाणकर्तृकाधिष्ठानरूपात् कार्यादनन्तरं निर्दिष्टमितिकार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः ।
पथिकगेहिनी
(३) अत्र वर्षाकालप्राप्तिरूपस्य कारणस्य इननरूपस्य च कार्यस्य तुल्यकालत्वं स्पष्टमेव ।
६
Page #53
--------------------------------------------------------------------------
________________
४२
अलकारसर्वस्वम् । मानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां वैविध्ये पदार्थगतमलंकारद्वयमुच्यतेऔपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानां वा
समानधर्माभिसंबन्धे तुल्ययोगिता' । इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा
"सजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकखराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥'
अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रकृतत्वावृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा
"योगपट्टो जटाजालं तारवीत्वमृगाजिनम् ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ॥' उचितत्वं गुणः । अप्राकरणिकानां यथा'धावत्त्वदश्वपृतनापतितं मुखेऽस्य
निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनृपस्य रजः कयापि
___ तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥" अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणे यथा
(१) तुल्यानां प्राकरणिकाप्राकरणिकानां योगिता समानगुणक्रियासम्बन्धे एकधर्मान्वयित्वं यत्र सा तुल्ययोगिता ।
(२) अत्र ग्रीष्मर्तुवर्णने दिनानां पद्मानाञ्चप्रकृतानां वृद्धिरूपसमानधर्माभिसम्बन्ध उक्तः । कमलानि दिनवद्वृद्धिमीयुरित्यौपम्यं गम्यम् ।
(३) पत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यरुपः समानोधर्मः । तारवीत्वक् वल्कलम् ।
Page #54
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला |
'त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखा कदलीनां कठोरता ॥ ’
6
कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता |
प्रस्तुता प्रस्तुतयोर्व्य स्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते
प्रस्तुताप्रस्तुतानां तु दीपकम् ।
श्रौपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोमध्यादेकत्र निर्दिष्टः समाना धर्मः प्रसङ्गेनान्यत्रेोपकाराद्दीपसादृश्येन दीपक ख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावा गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । श्रत्र प्राकरणिकत्वाप्राकरणिकत्व विवर्तित्वादुपमानोपमेयभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वाक्तिः । वस्तुतस्तु वाक्यार्थत्वे श्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणेादाहरणम् –
8
(१) त्वच्छरीरसौकुमार्यदर्शिन: कस्येव चेतसि मालत्यादीनां काठिन्यं नावभासत इत्यर्थः ।
मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरतारुपैकगुण
सम्बन्धः ।
(२) यथा एकं वस्तु प्रदर्शनार्थं, तमसि श्रानीतं दीपकं श्रन्यदपि वस्तु प्रकाशयति तथैवात्र शास्त्रेऽपि प्रकृतमर्थमुपपादयितुमुपात्तोधर्मः प्रसङ्गादप्रकृतमप्यर्थं दीपकन्यायेन दीपयति सुन्दरीकरोतीति दीपकालङ्कारः ।
(३) प्रथमं तुल्ययोगितालक्षणेोक्तमैौपम्यगम्यत्वमत्र लक्षणेऽनुषञ्जनीयमित्याशयः ।
(४) यत्रैव वस्तुः उपमानत्वं उपमेयत्वं वा वक्तमिष्टं तत्रैव प्रकरणादिबलात्तदाश्रयणीयमित्यर्थः ।
Page #55
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
'रेहह मिहिरेण णहं रसेण कव्वं सरेण जोव्वणम् ।
अमएण धुणीधवनो तुमए गरणाह भुवणमिणम् ॥' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्व धेनुः ॥'
'किवणाण धणं णाआएँ फणमणी केसराइँ सीहाणम् ।
कुलवालिआएँ थणा कुत्तो घेप्पन्ति अमुश्राणम् ॥' एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा
साधूनामुपकर्तु लक्ष्मी धर्तुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥'
अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते। वाक्यार्थगतत्वेन सामान्यस्य वाक्यदये
पृथनिर्देशे प्रतिवस्तूपमा। पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेन सन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते। असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । प्राधः प्रकारः प्रतिवस्तूपमा । वस्तुतः शब्दस्य (१) “राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् ।
अमृतेन धुनीधवस्त्वया नरनाथ ? भुवनमिदम् ॥" अत्र राज्ञः प्रस्तुतत्वम् । मिहिरादीनामप्रस्तुतत्वम् । धुनीधवः%
अत्र राजते इत्यस्य वाक्यारम्भवृत्तित्वात् सञ्चारपूतानीत्यत्र कृत्वा इत्यस्य मध्यवृत्तित्वात् कृपणानां धनमित्यादावपि गृह्यन्त इत्यस्यान्तवृत्तित्वादादिमध्यान्तदीपकाख्यास्त्रयोभेदाः। (२) “कृपणानां धनं नागानां फणामणयः केसराणि सिंहानाम् ।
कुलपालिकानाञ्च स्तनाः कुतो गृह्यन्तेऽमृतानाम् ॥
Page #56
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा । साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथनिर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा
'चकार्य एव चतुराश्चन्द्रिकाचामकर्मणि ।
श्रावन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥' अत्र चतुरत्वं साधारण धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधम्र्येण यावद्वैधयेणापि। यथात्रैवोत्तरस्थाने 'विनावन्तीनं निपुणाः सुदृशो रतनमणि' इति पाठे। तस्थापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः ।
तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । श्राद्यो यथा'अब्धिलवित एव वानरभटः किं त्वस्य गम्भीरता.
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं .
जानोते नितरामसो गुरुकुलक्लिष्टो मुरारिः कविः ॥" अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमोपम्यं विवक्षितम् । यनिबन्धनं च विवक्षितं तत्रान्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा
'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान यावदायात्युदयाद्रिमौलिताम् ॥' अत्र निहत्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् । संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं
प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवशेववस्तुसंबन्धःस्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसं. बन्धा यथा
(१) निश्चित्य दर्शनं सादृश्याविष्करणं निदर्शना ।
Page #57
--------------------------------------------------------------------------
________________
अलङ्कार सर्वस्वम् ।
'चूडामणिपदे धत्ते या देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥
बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसं बन्धः । श्रसंभवद्वस्तुसंबन्धा यथा69 'श्रव्यात्स वा यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढेोभय कोटिरिन्दुः ॥ '
अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विविधा | पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा
त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधेाः ॥'
"केचित्तु दृष्टान्तालंकारो ऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदशनैव युक्ता, न दृष्टान्तः । एवं च
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिना यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १
(१) अत्र स्मरचापलीला स्मरचापस्य धर्मः । श्रतोऽपरवस्तुत्वाचन्द्रे असम्भवन्ती सा तल्लीलासदृशलीलां बोधयति । अत्र लीलेत्येकस्यैव पदार्थस्य सम्बन्धोऽन्यत्र कथितः, अत इयं पदार्थवृत्तिः । पूर्वार्धगतवाक्यार्थस्योत्तरार्धगतवाक्यार्थस्य च
(२) श्रंत्र
सम्बन्धः कथितः । अथ चात्र वाक्यार्थयोरभेदसम्बन्धोऽसम्भवसादृश्यप्रतीतिं कारयति ।
(३) श्रीमम्मटादयः ।
Page #58
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निद' नाप्राप्तेः। इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्यापमाने संभवादपि भवति । 'उभयत्रापि संवन्धविघटनस्य विद्यमानत्वात् । तद्यथा
'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा।
अलक्ष्यत स खजूरीमअरीगर्भरेणुषु ।' अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिनः खर्जुरीरेणुषु संभवादापम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा
'श्रा मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि । जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥" क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा"उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरमाभृता
मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीद्वशाम् । पद्भयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः॥' . अत्र मुक्तति निषेधपदं तदन्यथानुपपत्त्या पादयोहंसगतिप्राप्तिराक्षिप्यते। सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंन्धनिबन्धना निदर्शना। 'भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये
__वा व्यतिरेकः। (१) उपमेये उपमाने वा। (२) अत्र पादादिषु हंसगत्यादीनामभावे तु निषेधेो नोपपथते, अतः पादादिषु हंसगत्यादीनामाक्षेपः । अपि च पादादिषु हंसगत्या. दीनां साक्षात्सम्बन्धो नास्ति, अत औपम्यं प्रतीयते ।
(३) भेद प्रधानतायामुपमानादुपमेयस्याधिक्ये न्यूनतायां वा । विवक्षितायां व्यतिरेकालङ्कार इत्यर्थः ।
Page #59
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
. अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणादाहरणम्
'दिद्वक्षवः पदमलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीषु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदाघाः॥" 'क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।' अत्र विकखरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पदमलताया अधिकगुणत्वम् । 'चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन तस्यापुनरागमात् । उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहाथ
संबन्धे सहोक्तिः । भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः। उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः। सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा। साहित्यं चात्र कर्तादिनानाभेदं ज्ञेयम् । तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा'भवदपराधैः साधं सन्तापो वर्धतेतरामस्याः।' अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः।
श्लेषभित्तिकाध्यवसायरूपा यथा--'अस्तं भाखान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ।' अत्रास्तं गमनं श्लिष्टम् । अस्तमित्य. स्योभयार्थत्वात्।
(१) अत्र यौवनस्य अस्थिरतायां चन्द्रापेक्षयाऽस्य न्यूनगुणत्वम् । शशियौवनयाहि समानत्वेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति यौवनस्य तु न तथेति न्यूनतेत्यर्थः ।
Page #60
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
तदन्यथारूपा यथा— 'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः । यथा - 'श्रनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादी । तान्येव कर्तृसाहित्ये उदाहरणानि ।
कर्मसाहित्ये यथा
'जना मृत्युना सार्धं यस्याजैौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनारथः ॥
४६
करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा
'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गवप्रौढाहंकृतिकन्द लेन च समं तद्भग्नमैशं धनुः ॥ सहोक्तिप्रतिभटभूतां विनोक्तिं लक्षयति
विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः ' ।
सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । श्रत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति । श्राद्या यथा
'विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥'
(१) कस्यचिद्वस्तुनः केनचिद्विनेोक्तौ विनोत्यलङ्कारः । अयं विनोत्यलङ्कारः सहोत्यलङ्कारस्य प्रतिभटभूतः ।
G
Page #61
--------------------------------------------------------------------------
________________
५०
अलङ्कारसर्वस्वम् । अत्र विनयाद्यसन्निधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशाभनत्वमुक्तम् । अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिनिमित्तीभवति । यथा सहोक्तौ सहार्थविवक्षा । एवं च
'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥' 'इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः। इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत् । यथोदाहृते विषये । द्वितीया यथा
'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥' अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः। सैषा द्विधा विनोक्तिः। ___ अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाहविशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ।
इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतविभेदमपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः। अप्रस्तुतनिष्ठंतु समासोक्तिविषयः। तत्र च निमित्तं विशेषणसाम्यम् । विशेषस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वं च व्यवहारसमारोपो न रूपसमारोपः । रूपसमारोपेत्ववच्छादितत्वेन प्रकृतस्य तद्परूपित्वादेव रूपकम् । ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावात्रिधा भवति । तत्र श्लिष्टतया यथा
(१) अत्र न शब्दो विनार्थकः । (२) स्तोकेन बह्वाभिधायिकोक्तिरित्यर्थः ।
Page #62
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
-
-
-
"उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्वलितं न लक्षितम् ॥
अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्नानायकव्यवहारप्रतिपत्तिः। अपरित्यक्तस्वरूपयोर्निशाशशिनो यकनायिकाख्यधर्मविशिष्टयोःप्रतीतेः साधारण्येन यथा
'तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी। विकासमेति सुभग भवदर्शनमात्रतः ॥ अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचारतो शेयः । एवं च कार्यसमारोपेऽपि शेया । इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा । औपम्यगर्भत्वेन यथा
'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥' अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमाग त्वेन च ते समासे पश्चाहन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिना लताप्रतीतिज्ञेया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितेोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनारभावात्। तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा
(१) चन्द्रोदयो जातस्तदभिसार्यतामिति शुक्लाभिसारिकां प्रति इयं सख्या उक्तिः । तत्र अभिसारिकाया उद्दीपनार्थं चन्द्रनिशयोदम्पतिव्यवहारप्रतिपादनं समासोक्तिः । अत्र रागमुखशब्दानां श्लेषेण, चन्द्रनिशयोः पुल्लिङ्गस्त्रीलिङ्गत्वेन च चन्द्रनिशयोर्दम्पतिव्यवहारः सक्षेपेणोक्तः।
Page #63
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् । 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ॥'
अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्ट्रपुरुषनिरूपणमाततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा-- 'मदनगणानास्थाने लेख्यप्रपञ्चमुदश्चय
निव किल बृहत्पत्रन्यस्तद्विरेफमषोलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रय
व्यधित विरहिप्राणेष्वायवयावधिकं मधुः॥'
अत्र हि पन्न-लिपि-कायस्थ-शब्देषु श्लेषगर्भ रूपकं द्विरेफमषीलवै. रित्येतद्पकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासो. क्तिबुद्धिःकार्या। तदेवं श्लिष्टविशेषणसमुत्थापितका साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषण समुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्नेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोप. । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः। तत्र शुद्धकार्य समारोपेण यथा
'विलिसति कुचावुच्चैर्गाढं करोति कचग्रह
लिखति ललिते वक्त्रे पत्रावलीमसमजसाम् । ... (१) अत्र मेघे पुरुषस्य, विद्युति नयनस्य, गर्जने आर्तरवस्य रूपकम् । “विद्युन्नयनैः” इत्यत्र विद्युन्नयने उभे उक्ते । पयोदः आर्ततरं ररास” इति चैकैकस्य कथनात् पुरुषगर्जनस्यानुक्तत्वादत्रकदेशविवर्तिरूपकम् ।
Page #64
--------------------------------------------------------------------------
________________
शारदा-ग्रन्य-माला।
VF
क्षितिप ? खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदशाम् ॥" अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः । विशेषणसाम्येनोदाहृतम् । उभयमयत्वेन यथा'निनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः
किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम् ॥' अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निनान्यलकानीत्यादिश्च कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं यथा'द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
रुद्धाम्बरां शशिकलामलिखत्कराः । अन्तर्निमग्नचरपुष्पशरोऽतितापा
त्किं किं चकार तरुण न यदीक्षणाग्निः ॥' लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यम् । 'यैरेकरूपमखिलास्वपि वृत्तिषु त्वां
पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥' अत्रागमशास्त्रप्रसिद्ध वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
न स्पृष्टं वचसा कदाचिदाप यदृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत्तत्किंचिदेणीद्वा
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकृत् ॥' अत्र लावण्ये लौकिके मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः। एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।
Page #65
--------------------------------------------------------------------------
________________
अलङ्कार सर्वस्वम् ।
स्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् । मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥' श्रत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः ।
પૃષ્ઠ
'मन्दमग्निमधुरर्य मोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमेोषधिपतेरसंनिधैा ॥ अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते
रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामत्यजतः स्थिति शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥' श्रत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । 'प्रसर्पन्तात्पर्यैरपि सदनुमानकर सिकै
रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत् । पूर्वव्यापारो गुरुवर बुधैरित्यवसिता
न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ॥'
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किंतु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्व व्यापारविषयतेोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पन्तात्पर्येरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् ।
'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युजिघासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं
देव्या ते परया प्रभो सह रहः क्रीडाद्दृढालिङ्गने ॥ श्रश्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्वदुभेद इत्युक्तं प्राकू । तत्र
Page #66
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला। .
५५
%3
-
शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषण. साम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु
'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥" इत्यत्रास्ति तावद्रविशशिनो यकत्वप्रतीतिः। न चात्र विशेषणसाम्यमिति सा कुतस्त्या। प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयाः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र व्यवस्था। उच्यते-एकदेशविव. तिन्युपमा यदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नेोपमानत्वेन नायकः स्वरूपेण प्रतीयते तथापि रविशशिनारेव नायकव्यवहारप्रतीतिः। तयारत्र नायकत्वात् । तदत्रानखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम् । इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः। यथा 'दद्ध्ना जुहोति' इत्यादौ दनि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः
'नेरिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' इत्यत्र सरः श्रियां नायिकात्वप्रतीतिर्न समासोक्या। विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधमत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या। गत्यन्तरासंभवात् । यैस्तु नोक्ता तेषामुपमाख्ययैव । यत्र तु 'केशपाशालिवृन्देन' इत्यादी समासोक्तायामुपमायां समासान्तरेण विशेषण - साम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।
सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकगतत्वेन भवति । क्रमेण यथा
Page #67
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिनः ।
अनाक्रम्य जगत्सवं नो संध्यां भजते रविः ॥' अत्रोपगृढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदो यकव्यवहारप्रतीतो समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते।
प्राकृष्टिवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दाकिनी चिरमवेष्टत पादमूले ॥' अत्र निर्माकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तश्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसी. यते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्यारेकः कालः। एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यव. हार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या ।
विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थक नाम।
Page #68
--------------------------------------------------------------------------
________________
शारदा-प्रन्य-माला।
-
यथा. 'राको मानधनस्य कार्मुकभृता दुर्योधनस्याप्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य । पीतं यस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः. .
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' अत्र राज्ञ इत्यादी सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् । एवं 'अङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षेनं भीमा. दुःशासनम्' इत्यादी ज्ञेयम् । .
विशेष्यस्यापि साम्ये योर्वोपादाने श्लेषः केवलविशेषणसाम्यं समासोक्तावुक्तम् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः। तत्राचं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य. एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त. रगतध्वनेविषयः स्यात् । श्राद्य तु प्रकारद्वये योरप्यर्थयोर्वाच्यत्वम् । अत एवाह-'द्वयोर्वोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् । 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् । क्रमेण यथा.. 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो . .: यश्चोवृत्तभुजंगहारवलया गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स खयमन्धकक्षयकरस्त्वां सर्वदामाधवः ॥' 'नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥' 'स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् । माहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥' अत्र हरिहरयाईयोरपि प्राकरणिकत्वम् । पनानां मृगाणां चोपमानस्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकामाकरणि.
Page #69
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
कत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः। तत्रोदा. तादिस्वरभेदात्प्रयत्नमेदाच शब्दान्यत्वे शब्दश्लेषः। यत्र प्रायेण पदमङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा
'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्तपुष्पेषु रुचि समयां पद्मा विरेजुः श्रमणा यथैव ॥'
अन रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । (उभयघटनायामुभयश्लेषः ।) ग्रन्थगौरवभयातु पृथङनोदाहृतम् ।
एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्वाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादी विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यमाधकत्वमित्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यबाधकत्व (ध्यत्व) मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत्प्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः। तृतीये तु प्रकारे दीपकं भवतीति तावद. लंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः। अत एवालंकारा. न्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादी तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्ति. कत्वादत्र शब्दभेदस्य प्रतीतरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । 'श्रतश्च पूर्ववैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लिष्टत्वम् । पूर्वत्रान्वयन्यतिरेकोभ्यां शब्दहेतुकत्वा
१. अयं सिद्धान्तः-सभङ्गपदे जतुकाष्ठन्यायेन शब्दद्वयमिलनाच्छन्दश्लेषः । अभङ्गपदे त्वेकवृन्तगतफलद्वयन्यायेनार्थद्वयस्यैकशब्दगतत्वादर्थश्लेषः।
Page #70
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
-
च्छब्दालंकारत्वमिति चेत्. न । श्राश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्वयवस्थानात् । एवं च 'सकलकलं पुरमेतजातं संप्रति सुधांशुबिम्बमिव' इत्यादी न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः। श्लेषगर्भ तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्ति. रिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छलेषस्य बाधिका समासोक्तिः । इह तु
'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद्विवस्वान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥'
अत्र श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्पतितत्वं यश्च वडवाग्निमध्यप्रवेशस्ते हे अपि त्रयीमयत्वसंबन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते । सोऽयमतक्रियायोगः । तद्धेतुका च मन्ये अत एव विशुद्ध्यै इत्युत्प्रेक्षा (क्षया), अत्रात एवेति परामृष्टो विरोधालंकारालंकृतोऽर्थो हेतुत्वेनात्प्रेक्ष्यते। विशुद्ध्यै इति च फलत्वेन । ततश्च हेतुफलयाईयोरप्यत्रोत्प्रेक्षा। विरोधालंकारस्य च विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम् । उत्तरकालं तु विरोधसमाधिः । श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि बाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छलेषः । अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षेप्यस्यार्थस्यासंबन्धाभावात्तेन सहापमानोपमेयभावस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र किं कर्तव्यम् । उच्यते-श्लेषस्योक्तनयेनात्रप्रवृत्ते नेरेवायं विषय इति निश्चयः । तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयमभिनिवेशस्तत्रोपमा ध्वनौ । वस्तुध्वनिरपि संबन्धान्तरेण तत्र समीचीनः स्यात् । अत एव
Page #71
--------------------------------------------------------------------------
________________
श्रलङ्कार सर्वस्वम् ।
'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवा द्विधा ॥
इति न्यायभर निबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि पत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः
यथा
'सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं रसात्यक्त्वा धूसर कान्तिवल्कलधरो राजास्तशैलं ययैौ । तत्कान्ताप्यथ सान्त्वयन्त्य लिकुलध्वानैः समुल्लासिभिः क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥ इति हरिश्चन्द्रचरितम् अत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया श्रौशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राशो विश्वामित्रसंपादितोपद्रववशात्प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति गमनं सूचितम् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सुचनीयार्थनैरपेचयेण सादृश्यसंभवमात्रेणैव संभवनीयम् । अतश्च प्रकृतेन सुचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च
'श्रीकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे
कण्ठे लग्नः सुकण्ठः प्रभवति कुचयेोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयेार्यः स तादृक्प्रियेा मे
बाले ? लज्जा निरस्ता नहि नहि सरले ? चालकः किं त्रपाकृत् ॥
इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अपहतेरत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यार्थमत्रप्रवृत्तेन यमहुत्यलंकार इति चेत्, न । उभयथाप्यपहुतिसंभवात् । सादृश्यपर्यवसायिना वापहवेनापह्नव पर्यवसायिना वा सादृश्येन भूतार्थापहुंचस्योभयत्र विद्यमानत्वात् ।
'सादृश्यव्यक्तये यत्रापह्नवाऽसावपद्धतिः । अपहवाय सादृश्यं यत्राप्येषाप्यपहृतिः ॥'
Page #72
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
-
इति संक्षेपः। श्राद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविको नास्य विषयोऽस्तीति सर्वालङ्कारापवादोऽयमिति स्थितम् ।
प्रस्तुतादप्रस्तुतप्रतीतो समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यतेअप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारू
प्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। इह प्रस्तुतस्य वर्णनमेवायुक्तं, अप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः, अतिप्र. सङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः-सामान्यविशेषभावः, कार्यकारणभावः, सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतीतो द्वैविध्यम् । कार्यकारणभावेऽ. प्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः। तत्रापि सारूप्यहेतुके भेदे साधयंवैधाभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः। श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छलेषाद्विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतो यथा
* "तएणत्थि किम्पि पदणे पकप्पिअं जंण णिश्रइघरणीए । प्रणवरअगमणसीलस्स कालपहिस्स पाहिजम् ॥"
अत्र प्रहस्तवधे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात्सा. मान्यप्रतीतो यथा- एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं धारिणी
... यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । .., अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः ... कुत्रोडीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा । .: अत्र जडानामस्थान एवोद्यम इति सामान्य प्रस्तुते विशेषोऽभिहितः। कारणात्कार्यप्रतीतो यथा* तन्नास्ति किमाप पत्युः प्रकल्पितं यन्न नियतिगृहिण्यां। अनवरतगमनशालस्य कालपथिकस्य पाथेयम् ॥ १॥
Page #73
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तथा ॥" धाराधिरूढा मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात्कारणप्रतीता यथा
६१
'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मा गीणामिव
प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलयापि को किलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' ser संभाव्यमानैरिन्द्वादिगतैरञ्जन लिप्तत्वादिभिः कार्यरूपैरप्रस्तु तैलेकातरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । 'ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशं सांषामिष्यमाणायाम्
'येन लम्बालकः सास्त्रः कराघातारुणस्तनः । कारि भग्नवलये। गजासुरवधूजनः ॥”
इति । तथा
'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । श्रालिङ्गनेाद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ॥'
इत्यादी सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रसङ्गः । श्रत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपी गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयो मतिः । यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र
(१) कार्यात् कारणस्य प्रतीती यद्यप्रस्तुतप्रशंसा स्यात्तदा वक्ष्यमाणस्य पर्यायोक्तालङ्कारस्य को विषय इत्याशङ्क्याह नन्दिस्यादि ।
Page #74
--------------------------------------------------------------------------
________________
शारदा-प्रन्थ-माला।
कार्यमुखेन कारणं पर्यायेणाक्तमिति पर्यायोक्तालंकारः । तत्र हि कार• णापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोतो. दाहरणद्वये । अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वाप्रस्तुत एष । एवं राहुवधूवृत्तान्तेऽपि शेयम् । ततश्च नायमप्रस्तुतप्रशंसाविषयः । यत्र पुनः कारणस्थ प्रस्तुतत्वे कार्यमप्रस्तुतं धय॑ते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा-'इन्दुर्लिप्त इवाखनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनान्द्वादिगतेनाअनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्यं सहृदयहृदयाह्नादि गम्यते इत्यप्र. स्तुतप्रशंसैवासा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपकारकत्वेनागरयति, तत्र पर्यायोक्तम् । यत्र पुनःस्वात्मानमेवाप्रस्तुतत्वाप्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः। ततश्चानया प्रक्रियया । (१) राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः । ___ कुब्जे ? भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽवगैः पञ्जरा
श्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥" इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽ
र्थोऽप्रस्तुत एव । राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति स्वात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधोदाहरणानि । वैधयेण यथा-.
. 'धन्याः खलु वने वाताः कतारस्पर्शशीतलाः । . राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥'
(१) शत्रुजयोद्यतं राजानं प्रति पलायितेषु राजपरिवारेषु प्रासादस्थितस्य राजशुकस्य । राजादिचित्रपटेषु राजादिबुद्धया आवेदनस्य तश्चारमुखेनोक्तिरियम्।। ............
Page #75
--------------------------------------------------------------------------
________________
६४
.. अलङ्कारसर्वस्वम् ।
अत्र वाता धन्या इत्यप्रस्तुतादादहमधन्य इति वैधम्येण प्रस्तुतोऽर्थः प्रतीयते । वाच्यस्य संभव उक्तान्येवोदाहरणानि । असंभवे यथा--
(१) 'कस्त्वं भोः ? कथयामि दैवहतकं मां विद्धि शाखोटकं __वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥". प्रत्राचेतनेन सह प्रश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव । प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् । उभयरूपत्वे यथा
'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥' अत्र वाच्येऽर्थे कण्टकानां गुणभङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम् । प्रस्तुतस्य तात्पर्येण प्रतीतेस्तध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किञ्चित् । एतदेव च श्लेषगर्भायामस्यामुदाहरणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्रेदपञ्चकमुद्दिष्टं, तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति, तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशं. सेति निर्णयः। उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह -
सामान्यविशेषभावकार्यकारणभावाभ्यां मिर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः।
निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिः । अतो ना. नुमानरूपोऽसावर्थान्तरन्यासः । तत्र सामान्यं विशेषस्य, विशेषो पा . . (१) शाखाटकं भूतावासवृक्षविशेष प्रति कस्यचित् प्रश्नः ।
(२) अर्थान्तरस्य न्यसनमित्यर्थान्तरन्यासः ।
Page #76
--------------------------------------------------------------------------
________________
शारदा-प्रन्थ-माला।
६५
-
सामान्यस्य समर्थक इति द्वौ भेदा । तथा कार्य कारणस्य कारणं या कार्यस्य समर्थकमित्यपि द्वौ भेदी । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां भेदद्वयेऽष्टौ भेदाः। हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तगणना । सहदयहृदयहारिणो वैचित्र्यस्याभावात् । तस्माद्भेदाष्टकमेवेहोहः कितम् । क्रमेण यथा
'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेग्विवाहः ॥'
'लोकोत्तरं चरितमर्पयति प्रतिष्टां पुंसां कुलं नहि निमित्तमुदात्ततायाः। वातापितापनमुनेः कलशात्प्रसूति
लीलायितं पुनरमुष्य समुद्रपानम् ॥' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव.संपदः ॥ . अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कायं साधम्र्येण समर्थकम् । तस्यैवैतत्काविरुद्धमापत्पद. त्वम् । सहसाविधानाभावविरुद्धाविवेककार्य वैधयेण समर्थकम् ।
'पृथ्वि ? स्थिरा भव भुजङ्गम ? धारयैनां त्वं कूर्मराज ? तदिदं द्वितयं दधीथाः। दिक्कुञ्जराः ? कुरुत तत्रितये दिधीषा
देवः करोति हरकार्मुकमाततज्यम् ॥' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं सम. र्थकत्वेनोक्तम् । वैधम्र्येण सामान्यविशेषभावो यथा(१) अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं जगत्यदृष्दैव हि ये क्षयं गताः ॥' , (१) कश्चिदापन्नं सुहृदं प्रति तदवस्थोचितमप्रियं वक्तुकामः खेदातिशयात् स्वजीवितं निन्दति । अहो आश्चर्य, मे प्रायुषा बहु अपराद्धं यन्मयाऽपि नामेदमीदशमप्रियकरं वाच्यम् । सम्प्रति त एव सुहदो धन्या ये स्वसुहृदाम्पराभवरूपापदमदृष्ट्वैव क्षयं गताः । .
Page #77
--------------------------------------------------------------------------
________________
— अलङ्कारसर्वस्वम् । अत्रायुःकर्तृकापराधाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतियुक्तंध. न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारण"तायां तु वैधयेणेदाहृतम् । हिशब्दाभिहितत्वानभिहितत्वादिभेदाः स्वयमेव बोद्धव्याः । चारुत्वातिशयाभावान्नेह प्रदर्शिताः।
एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरन्यासमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्तमुच्यते. गम्यस्यापि भङ्गायन्तरेणाभिधानं पर्यायोक्तम् ।
अत्र यदेव गम्यते तस्यैवाभिधानं पर्यायोक्तम् । गम्यस्यैव सतः कथमभिधानमिति चेत्, न । गम्यापेक्षया प्रकारान्तरेणाभिधानस्यसम्भवात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति । अतः कार्यमुखद्वारेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णनाईत्वात् । अत एवाप्रस्तुतप्रशंसातो भेदः । एतच वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदाहरणम्... 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः ।
. सावझं पारिजातस्य मार्यो यस्य सैनिकः ॥" अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजया वर्णितः । प्रभावातिशयप्रतिपादनं च कारणादिव कार्यादपि भवतीति कार्यमपि वर्णनीय. मेवेति पर्यायोक्तस्यायं विषयः । • गम्यत्वविच्छित्तिप्रस्तावाद्व्याजस्तुतिमाह
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। । यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाधितस्वरूपा निन्दायां
पर्यवस्यति, तत्रासत्यत्वाद्वयाजरूपा स्तुतिरित्यर्थानुगमेन तावदेका : व्याजस्तुतिः । यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद्वाधितरूपा - स्तुतिपर्यवसिता भवति, सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा--.
Page #78
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
(१) 'हे हेलाजितबोधिसत्त्व ? वचसां किं विस्तरैस्तोयधे? . ... नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।..
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः। इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि
दिनागानां मदजलमषीभाजि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक ? श्यामलिनानुलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ अत्र धवलताहेतुयशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवजं समस्तवस्तुधवलता. कारित्वं नृपयशसः प्रतीयते ।
'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ__ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया- .
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेव न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् । गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते-.
उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ निषेधाभास आक्षेपः। ... इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते। तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते । स कृतोऽपि बाधितस्वरूपत्वानिषेधायत इति निषेधाभासः संपन्नः। तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजस्तानतुल्यं स्यात् । सचाभासमानो. - (१) हेलया जिता बोधिसत्वा बौद्धा येन तत्सम्बुद्धौ । हे तोयधे? परः तृष्यतां पान्थजनानामुपकारस्य घटनायां सम्पादने वैमुख्येन परामखत्वेन लब्धं यदयशस्तद्भारस्य प्रोद्वहने मरोदेशस्य कृपया साहाय्यकं करोषोते स्तुतिपूर्विका व्याजस्तुतिर्निन्दापर्यवसायिनी ।
Page #79
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
-
ऽपि निषेधस्तत्रोक्तस्य वा स्यात् । श्रासूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात् । इत्यादेपस्य द्वयी गतिः। उक्तविषयत्वेन कैमर्थक्यपर• मालोचनमाक्षेपः । वत्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः । एवञ्च अर्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः। वक्ष्यमाणविषये त्विष्टस्य विशेषः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य निषेधः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते क्वचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते । तच्च सामान्यप्रतिक्षायां क्वचिद्विशेषनिछत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदा । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम् । क्रमेण यथा(१) बालपणाहं दूई तीए पिओसि त्ति ण मह्म वावारो।
सा मरह तुझ अयसो एअंधम्मक्खरं भणिमो ॥" 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेभ्युपगमः। न मे दोषोऽस्तीति त्वमिदमपि हि शास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥' (२) 'सुहन विलम्बसु थोत्रं जाव इमं विरहकापरं हिप्रभम् ।
संठविऊण भणिस्सं अहवा बोलेसु कि भणिमो॥' (१) बालक नाहं दृती तस्याः प्रियोऽसीति न मम व्यापारः ।
सा म्रियते तवायश एतं धर्मातरं भणामः ॥ धर्मातरं यथार्थवचनम् । दूतीत्वेन कथितात्मनः सख्या वचनमिदम् । अत्र स्वस्मिन् सतोऽपि दूतीत्वस्य निषेधेन दूत्यन्तरवनाई मिथ्या वदामीति स्ववैलक्षण्यं व्यज्यते । निषेधस्यारोप्यमाणत्वापामासत्वम् । ... (२) सुभग ? बिलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् । - ... संस्थापयित्वा भणियामि अथवा ब्रज किं भणामः ॥ .
Page #80
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्वं दुरन्तमिदमद्य शिरीषमृद्वी
सा नूनमाः किमथवा हतजल्पितेन ॥
श्राद्ये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणिति निषेधेन चाविषय आक्षेपः । तत्र चोकस्य दूतीत्वस्य वस्तुना निषेधमुखेनैव वास्तववादित्वादिविशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपराग निवर्तनेनावश्यस्वीकार्यत्वं विशेषः उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशो क्तावप्यंशान्तरस्य स्वरूपेण च भणिति निषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमा रास्येष्टस्य भणिस्समिति प्रतिज्ञातस्य सातिशयान्मरणशक्कोपजनकत्वादिविशेषः । तथैव ज्योत्स्नेत्यादावंशेोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च आक्षेपे इष्टोऽर्थः, तस्यैव निषेधः, निषेधस्यानुपपद्यमानत्वादसत्यत्वं, विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः, नापि विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते
अनुरूप देव्या इत्यात्मसंभावनेत्यादौ, तथा “ यामीति न स्नेहसदृशं मन्यते " इत्यादावुक्तविषय प्रक्षेपः । ' केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपअरं रक्षास्थानम् ' इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेध्यत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिः परित्यागनिषेधकत्वेन प्रतीयते । तेन नायमाक्षेपः । कस्तर्हि श्रयं विच्छित्तिप्रकारोऽलङ्कार इतिचेद्, व्याघाताख्यस्यालङ्कारस्यायं द्वितीया भेद इति वक्ष्यते ।
तदिष्टस्य निषेध्यत्वंमाक्षेपाक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः ॥
इति पिण्डार्थः इह तु —
'साहित्य पाथोनिधिमन्थनात्थं काव्यामृतं रक्षत हे कवीन्द्राः ? | यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचैाराः प्रगुणीभवन्ति ॥
Page #81
--------------------------------------------------------------------------
________________
७०
- अलङ्कारसर्वस्वम् ।।
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुवमत्रद्यापि रत्नाकर एव सिन्धुः ॥' इति तथा
'देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥ बाणेन हत्त्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीधरकंदरस्थः॥ यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥' इत्यत्र नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावा. क्षेपः। निषेधविधौ तस्य भावादित्युक्तत्वात् । चमत्कारोऽप्यत्र निषेध. हेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्य. मानोऽपि भवति । यथा
'गणिकासु विधेयो न विश्वासो वल्लभ ? त्वया।
कि किं न कुर्वतेऽत्यर्थमिमा धनपरायणाः ॥' अत्र हि गणिकाया एवोक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते । न चासो निषेध एव । गणिकात्वेनावस्थित [त ] तयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधो निषेधाभा. सरूपो वक्तुर्गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्यतीत्युक्तविषय श्राक्षेपध्वनिरयम् । न तु
“स वक्तुमखिलाशक्तो हयग्रीवाश्रितान् गुणान् ।
योम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातु महोदधेः ॥" इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषेधाभासस्य । महोदधेरभ्भःकुम्भपरिच्छेदशक्तिनिदर्शनेन हयग्रीव. गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या। सर्वथेष्टानिष्टस्य निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् ।
इत्थमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेप. माहः
Page #82
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
- अनिष्टविध्याभ्यासश्च
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिष्टस्यानिष्टत्वादेव विधानं नोपपद्यते । तत् क्रियमाणं प्रस्खलद्रपत्वाद् विध्याभासे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽ निष्टविशेष पर्यवसायी निषेधागरणात्माक्षेपः । यथाः--
“गच्छ गच्छसि चेत् कान्त ? पन्थानः सन्तु ते शिवाः । ..ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥
अत्र कयाचित् कान्तप्रस्थानमनिष्टमप्यनिराकरणमुखेन विधीयते । न चास्य विधिर्युक्तः । अनिष्टत्वात् । सेोऽयं प्रस्खलदूपत्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य कान्तप्रस्थानस्यासंर्विज्ञातपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यजितम् । यथा वा
'नो किंचित्कथनीयमस्ति सुभग ? प्रौढाः परं त्वादृशाः
___ पन्थानः कुशला भवन्तु भवतः को मादशामाग्रहः । किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया
स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् । स्मर्तव्या इत्यनेन च गमननिवृत्तिरेवोपोदलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः।
आक्षेपे इष्टनिषेधेऽनिष्टविधी चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रवि ष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते। तत्रापि विरोधालंकारस्तावलक्ष्यते_ विरुद्धाभासत्वं विरोधः।
इह जात्यादीनां चतुर्णा पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभासमामत्वाद्विरोधाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ ।
Page #83
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् । द्रव्यस्य द्रव्येण सहकः । तदेवं दश विरोधभेदाः। तत्र दिनात्रेणादाहरणं यथापरिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥' अत्र जडीकरणतापकरणयोः क्रिययाविरोधी वस्तुसौन्दर्येणाप्रा. प्तिपर्यवसानेन परिह्रियते । तथा
'अयं वारामेको निलय इति रत्नाकर इति । - श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥' अत्र जलनिधिः पीत इति द्रव्यक्रिययाविरोधो मुनिगतेन महाप्रभावत्वेन समाधीयते । एवमन्यदपि शेयम् ।
विविक्तविषयत्वेन चास्य दृष्टेः श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा--'संनिहितवालान्धकाराभास्वन्मूर्तिश्च' इत्यादौ विरोधिनोईयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ । एकविषयत्वे चायमिष्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते ।
एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह--
कारणाभावे कार्यस्योत्पत्तिर्विभावना। इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदा तु कयाचिद्भङ्गया तयाभाव उपनिबध्यते तदा विभावनांख्योऽलंकारः। विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिर्विशिष्टकारणाभावोपनिषद्धा । अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोपक्रान्तत्वाद्वलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन तत्र कारलाभावः । इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकारान्द्रेदः । एवं
Page #84
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थमाला ।
विशेषाक्त कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुम्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं, तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । श्रतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा
'असंभृतं मण्डनमङ्गयष्प्रेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ '
द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यव - सायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उत्थानम्, अपि 'तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदु कानुक्तनिमित्तभेदाद्विधैव । तत्रोक्त निमित्तोदाहृता । अनुक्तनिमित्ता
यथा
'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामाष्ठलेखां च बिभ्रतीम् ॥'
अत्र सहजत्वं निमित्तं गम्यमानम् । * श्रसंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमित्यत्र च विवदन्ते- इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वाङ्गात्रमेतत् । एकगुणहानौ विशेषेोक्तिरित्यन्ये । रूपकमेवा धिरोपितवैशिष्टयमिति त्वपरे । श्रारोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः ।
1
विभावनां लक्षयित्वा तद्विपर्यस्वरूपां विशेषोक्तिं लक्षयतिकारणसामध्ये कार्यानुत्पत्तिर्विशेषोक्तिः ।
इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । श्रन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् ।
यातु सत्यपि सामथ्र्ये न जनयति कार्य, सा कंचिद्विशेषमभिव्यङ्कं
* श्रसम्भृतमित्यादौ द्वितीय पाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्त मित्याः श्रसम्भृत मित्यादि ।
१०
Page #85
--------------------------------------------------------------------------
________________
- अलङ्कारसर्वस्वम् ।
प्रयुज्यमाना विशेषाक्तिः । सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचि. न्स्यत्वेन वैविध्यात् । क्रमेण यथा_ 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥' 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥'
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तर्नु यस्य शंभुना न हृतं बलम् ॥ अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु. त्पत्तिः शक्तिमत्त्वस्वरूपेणविरुद्धेन धर्मेणेपनिबद्धा । अवार्यवीयंत्वं चात्रोक्तनिमित्तम् । तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सश्चिन्त्य. निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते तथा च सति,
'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा__ स्ते चान्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥" इत्यत्र विभावनाविशोषोक्त्योः संदेहसंकरः । तथाहि उत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कएठाख्यं निबद्धमिति विशेषोक्तिः। विरुद्धमुखेनोपनिबन्धात्केवलमस्पटत्वम् । साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः ।
या तु "एकगुणहानिकल्पनायां साम्यदाढयं विशेषोक्तिः” इति विशेषोक्तिलक्षिता सास्मदर्शने रूपकभेद एवेति पृथङ् न वाच्या।
अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्ताबेनेहोच्यते
Page #86
--------------------------------------------------------------------------
________________
शारदा-अन्ध-माला।
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चाति. शयोक्तिः।
इह नियतपूर्वकालभावि कारणं नियतपश्चात्कालभावि कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयोरेतद्पापगमः क्रियते, तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः, कालविपर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति । क्रमेण यथा
'पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं ___ भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । . कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे ?
हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥' 'पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा ..
पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥' पूर्वत्र प्राढोक्ति निर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तयोस्तुल्यत्वेनोपपन्नं पौर्वापयं व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते ।
तयोस्तु भिन्नदेशत्वेऽसंगतिः । . तयोरिति कार्यकारणयोः यद्देशमेव कारणं, तद्देशमेव कार्य दृष्टम् । नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदाचितसंगतिनिवृत्तेरसंगत्या ख्योऽलंकारः। स च विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा
'प्रायः पथ्यपराङमुखा विषयिणा भूपा भवन्त्यात्मना
निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः । ... धन्याः श्लाघ्यगुणास्त एव विपिने संतोषभाजः परं
बायोऽयं वरमेव सेवकजनो- धिक्सर्वथा मद्रियः॥
Page #87
--------------------------------------------------------------------------
________________
•
श्रलङ्कारसर्वस्वम् ।
अत्र पथ्यपराङ्कखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरि
त्यसंगतिः । एवम् —
१७६
'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयेोधरभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' इत्यत्र ज्ञेयम् । अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यद्न्यश्च स्मरनिमित्तकमित्यनयेोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् । विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् ।
.
विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भः, यावदनर्थप्राप्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूप संघटनयोर्विरूपयोध संघटनं तत्तृतीयं विषमम् । श्रननुरूपसंसर्गे हि विषमम् । क्रमेण
पथा
'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥
'तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनुस्तनुभृतः सहसा लभन्ते । वाराणसि त्वयि तु मुक्तकलेवराणां
लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥' 'अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता निभृतनिभृतं कन्दलयति ॥
श्रत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमभ्यूह्यम् । यथा
Page #88
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
'परहिअनं मग्गन्ती इभारिनं अत्तोतए हिअत्रम् ।
अव्योल्लाहस्स कए मूलाओ विछेइ जात्रा ।' इति तत्रोदाहार्यम् ।
तद्विपर्ययः समम् । - विषमवैधादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्तं तथापि तच्छब्देन संभवादन्त्यो भेदः परामृष्यते । पूर्वभेदद्वयविपर्ययस्यानलंकारत्वात् । अन्त्यभेदे विपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चाभिरूपानभिरूपविषयत्वेन द्विविधः । श्राद्यो यथा
'त्वमेवं सौन्दर्या स च रुचिरतायां परिचितः
कलानां सीमानं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्टया तदिह सुभगे ? संवदति वा
मतः शेषं यत्स्याजितमथनदानी गुणितया ॥' - अत्राभिरूपस्यैव नायकयुगलस्याचितं संघटनमाशंसितम्। द्वितीयो यथा
'चित्रं चित्रं बत बत महश्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता। यनिम्बानां परिणतफलस्फीतिराखादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलेोकः ॥' अत्रानभिरूपाणां निम्बानां काकानां च समागमः प्रशंसितः । आनुरूप्यात्समत्वव्यपदेशः। विरोधमूलं विचित्रं लक्षयति
स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । यस्य हेतोर्यत्फलं, तस्य यदा तद्विपरीतं भवति, तदा तद्विपरीत. फलनिष्पत्त्यर्थं कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः । आश्चर्यप्रतीतिहेतुत्वात् । न चायं प्रथमो विषमालंकारप्रकारः । खनिषेधमुखेन वैपरीत्य प्रतीतेः विपरीतप्रतीत्या तु खनिषेधस्तस्य विषयः। यथा'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसृते' इत्यादि । इह त्वन्यथा प्रतीतिः । यथा
Page #89
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
# 'घेत्तुं मुञ्चर अहरो अण्णत्तो वलइ पेक्खिउं दिट्ठी । घडिदु विहडन्ति भुना रान सुरअम्मि वीसामो ॥" अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमः . णानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा
'उन्नत्यै नमति प्रभुप्रभुगृहान्द्रष्टुं बहिस्तिष्ठति
स्वद्रव्यव्ययमातनोति जडधीरागामिपित्ताशया। प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया
सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदक्सेवकः ॥' . अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः ।
आश्रयायिणोरमानुरूप्पमधिकम् । विरोधप्रस्तावादिह निर्देशः। अनानुरूष्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि
क्वाप्यत्रैव धरा धराधरजलाधारावलिवर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत
ष्टकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां घुप्रभृतीनां पारिमित्यं चारुत्वहेतुः। उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् । ... परस्परं क्रियाजननेऽन्योन्यम् । . * ग्रहीतुं मुच्यतेऽधरोन्यतो वलति प्रेक्षितुं दृष्टिः । घटितुं विघदेते भुजौ इत्यद्याः सुरतेषु विश्रमः ॥ .
Page #90
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
इहापि विरोधप्रस्ताव एव निर्दशकारणम् । परस्परजननस्य विरुद्धत्वात् । क्रियाद्वारकं यत्र परस्परोत्पादकत्वं, न स्वरूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात, तत्रान्योन्याख्योऽलंकारः ।। यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारण भूषणभूष्यभावः ।' अत्र शोभाख्यक्रियामुखकं परस्परजननम् । अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तकरणं विशेषः।
इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधा वर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किञ्चिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं, स तृतीयो विशेषः । श्रानुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा
"दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥" 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
पर्यड़े सा दिशि दिशि च सा तद्वियोगाकुलस्य।... हंहो चेतःप्रकृतिरपरा नास्ति ते कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥" निमेषमपि यद्येकं क्षीणदोष करिष्यसि ।
पदं चित्ते तदा शंभो ? किं न संपादयिष्यसि ॥' अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरन्यत्र भावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्; एकस्या एव योषितः प्रासादादी युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण शेयम् ।
यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः ।
यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते, स निष्पा दितवस्तुव्याहतिहेतुत्वा द्वयाघातः। यथा
Page #91
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'दृशा दग्धं मनसिजं जीवयन्ति दशैव याः। __. विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ॥' ' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीविषयत्वं क्रियते । तश्च दाहविषयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलंकारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह प्रकरणलक्षणम् ।
प्रकारान्तरेणाप्ययं भवतीत्याहसौकण कार्यविरुहक्रिया च व्याघात इत्येव ।
किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकायव्याहति. निबन्धनत्वाव्याघातः । कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाझेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु
'यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणोय इति भवद्भुजपअरमेव रक्षास्थानम्' इत्यादि ।
अत्र राज्यवर्धनस्य श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युताप्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः ।
एवं विरोधमूलानलंकारान्निीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्रपूर्वस्य पूर्वस्पोत्तरोत्तरहेतुत्वे कारणमाला।
यदा पूर्व पूर्व क्रमेणेत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः । यथा
'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ ..
Page #92
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
कार्यकारणक्रम एवात्र चारुत्वहेतुः । यथापूर्व परस्य विशेषणनया स्थापनापोहने एकावली।
यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा'पुराणि यम्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा. 'न तजलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट् गदम् ।
न षट्पदोऽसौ न जुगुज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निवेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पद वं ज्ञेयम् ।
पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । . उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कपहेतुत्वम् । यथा
'संग्रामाङ्गणमागतेन भवता चापे समारोपिते . देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षोऽभिहितः। समा. सादनलक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम् ।
उत्तरोत्तरमुत्कर्षणमुदारः।
Page #93
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
-
पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिबन्धनत्वमुदाराख्योऽलंकारः । यथा'जये धरियाः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः। तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥'
अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् । यथा
'राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम्।
सोधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥' - अत्र राज्यापेक्षया वसुन्धरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् ।
एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः। अधुना तकन्यायायेणालंकारद्वयमुच्यते । तत्र
हेतोर्वाक्यपदार्थता काव्यलिङ्गम् ।। यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्ध्यते, तत्काव्यलिङ्गम् । तर्कवैलक्षण्याथं काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मतेोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबन्धव्यः। अन्यथार्थान्तरन्यासान्नास्य भेदः स्यात् । क्रमेण यथा
'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ 'मृग्यश्च दर्भाङ्करनियंपेक्षास्तवागतिशं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पत्मराजीनि विलोचनानि ।'
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः । चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेक. पदार्थों हेतुत्वेनोक्तः।
एवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाहियते । यथा--...
Page #94
--------------------------------------------------------------------------
________________
शारदा-प्रन्थ-माला।
'मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । ..पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतन्त्रिणः ॥'
'यद्विस्मयस्तिमितमस्तमितान्यभाव
मानन्दमन्दममृतप्लवनादिवाभूत् । तत्संनिधौ तदधुना हृदयं मदीय
मङ्गारचुम्बितमिव व्यथमानमास्ते ॥' पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिता' इति वाक्यार्थरूपो हेतुर्निदिष्टः। उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः ।
साध्यसाधननिर्देशोऽनुमानम् । यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानालंकारः । विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः। अन्यथा तर्कानुमानार्तिक वैलक्षण्यम् । उदाहरणम्'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ.
स्तथा मन्ये लग्नः पथिकतरुषएडे स्मरदवः॥ अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वाइव. शब्दप्रतिपादितं वह्नि गमयन्तीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरगर्भीकारेण विच्छित्त्याश्रयणात्तर्वानुमानवैलक्षण्यम् । .. क्वचित्तु शुद्धमपि भवति । यथा
... 'यत्रता लहरी चलाचलदृशो व्यापारयन्ति भ्रुवं ... यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः।
तञ्चक्रीकृतचापसञ्चितशरप्रेत्करः क्रोधनो ... धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ।।"
अत्र योषितां भ्रव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम् । प्रौढाक्तिमात्रनिष्पनार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिएडार्थः । इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः।
Page #95
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
-
. तत्राप्रतातप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतसमर्थने तु समर्थ्यसमर्थकभावः। तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वांच कर्कशत्वादकान्तरोत्यात्कदलाविषाः' इत्यादाविव न कश्चिदलंकारः। यत्र तूपात्तस्य हेतुत्वं यथोदाहने विषये 'मृग्यश्वदर्भाकुरनियंपेक्षाः' इत्यादा, तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्याले काव्यलिङ्गमेव । तटस्थत्वे. नोपन्यस्तस्य हेतुत्वेऽर्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणयार्वाक्यार्थयार्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थ्यवाक्यस्य सापेक्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुकम्, तदुक्तलक्षणकाव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तरस्यौद्भटेराश्रितत्वात् । ___ उक्तलक्षणाश्रयणे तु यत्वन्नेत्रेत्यादिविविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समथ्यं समर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयतो गमनिकाश्रयितव्या ।
एवं तकन्यायमूलमलंकारद्वयमुक्त्वा वाक्यन्यायमूला अलंकारा उच्यन्ते
उद्दिशनामर्थानां क्रमेणानुनि गो यथासंख्यम् । ऊचं निर्दिष्टा उद्दिष्टाः। पश्चानिर्देशोऽनूद्देशः । स चार्थादर्थान्तरगतः । संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्व निर्दिष्टानामर्थानां पश्चानिर्दिष्टरथैः क्रमेण सम्बन्धी यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थ च द्विधा । शाब्दं यत्रासमस्तानां पदानामसमस्तैः पदैरर्थद्वारकः संबन्धः, तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । श्रार्थ तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादानुगुण्यपर्यालोचनया त्ववयवगतः क्रमसंबन्धः प्रतीयते । ततोऽत्र यथासंख्यस्यार्थत्वम् । श्राद्यस्योदाहरणम्
'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा ।
Page #96
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
-
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः॥" अत्र लावण्याकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् । द्वितीयस्य यथा
'कजलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥" अत्र कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धे हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानु. गमानुसारेण त्ववयवानां क्रमसंबन्धावगतरित्यार्थं यथासंख्यम् ।
एकमन कस्मिन्ननेकमेकस्मिन्वा क्रमेण पर्यायः । क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः । तत्किमर्थमिदमुन्यते इत्याशयोक्तम्-क्रमेणेति । इह च क्रमोपादानादात्तत्र योगपद्यप्रतीतिः। तेनास्य ततो विविक्तविषयत्वम् । तथा
एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः ।
नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थं क्रमेणेति योज्यम् । अत एव 'गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रहणम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् ।
विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते । तत्रानेकोऽसंहनरूपः संहतरूपश्चेति द्विविधः । तच द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणदाहरणानि
'नन्वाश्रयस्थितिरियं किल कालकूट ?
. केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागणवस्य हृदये वृषलक्ष्मणोऽथ
__कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' 'विसृष्टरागादधरानिवर्तितः स्तनाङ्गरागारुणिताच कन्दुकात् । कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयो तया करः ॥'
Page #97
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'निशासु भावत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव देवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ।'
अत्र कालकूटमेकमनेकस्मिन्नसंहते श्राश्रये क्रमेण स्थितिमनिबद्धम् । करश्चैकोऽनेकस्मिन्संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्युपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपो. ऽनेकः क्रमवानुपनिबद्धः। समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः।
विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहणम् । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः। तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभाससंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा
'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत।
हिरण्याक्षवधायेषु यशः साकं जयश्रिया ॥' अनोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥'
अत्रोत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरिवृत्तिर्यथा'अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिष शोच्यते बुधैः । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणज्ज्वलं यशः ॥'
अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । : 'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः।
कि त्वपहरसि मनो यद्ददासि रणरणकमेतदसत्"
Page #98
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
अत्राद्येऽधें समपरिवृत्तिः । द्वितीयार्थे न्यूनपरिवृतिः । एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्या ।
एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन कुत्रचित्संख्या वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा चेतिप्रथमं द्विधा । प्रत्येकं च वर्जनीयः स्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुः प्रभेदाः । क्रमेण यथाकिं भूषणं सुदृढमत्र यशेो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वदपरः सदसद्विवेकम् ॥' 'किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥ 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ॥
29
श्रत्र चालैौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थञ्चेति नियमाभावः । श्रलौकिकत्वाभिप्रायेणैव क्वचित्प्रश्नपूर्वकं ग्रहणम् । यथा
'विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनात्पलानि । बिभर्ति यस्यामपि वक्रमाणमेको महाकालजटार्धचन्द्रः ॥
यथा - 'चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि इत्यादि श्लेष संपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । श्रत्र च नियमपरिसंख्ययेोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनेोक्तिः । श्रत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।
Page #99
--------------------------------------------------------------------------
________________
अलङ्कारसवस्वम् ।
दण्डापूपिकयाथान्तरापननमर्थापत्तिः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च' इति कुञ् । पृषोदरादित्वाञ्च वृद्ध्यभावः । यथा-अहमहमिकेत्यादाविति केचित् । अन्ये तु दण्डपूपौ विद्यते यस्यां नीती सा दण्डापूपिका नीतेः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेति वन्मत्वर्थीबष्टनिन्याहुः। अपरे दण्डापूपाविव दण्डापूपिकेति “इवे प्रतिकृती" इति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तत्सहभाव्यपूपभक्षणमात्सिद्धम् । एवं न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणाद्यदर्थान्तरमापतति सार्थापत्तिः ।
न चेदमनुमानम्। समानन्यायस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानम् । अर्थापत्तिश्च वाक्यविदां न्याय इति तन्नयेनेह भिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः । अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः।
आयो यथा'पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥'
अत्र विभुवृत्तान्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादातिपति। द्वितीयो यथा
"धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंक्षकेषु गणना कैव वराकेषु काकेषु ।' अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थादाचिपति । क्वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते
'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्को भृङ्गी वसु च वृष एका बहुवयाः ।
Page #100
--------------------------------------------------------------------------
________________
• '
शारदा-ग्रन्थ-माला।
अवस्थेयं स्थाणारपि भवति सर्वामरगुरो
विधौ वक्र मूनि प्रभवति वयं के पुनरमी ।'' अत्र विधौ वक्र इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्माकरणिकार्थापतनम् ।
तुल्यबल विरोधो विकल्पः । विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यवलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव योगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाश्चात्र चारुत्वम्। यथा-'नमयन्तु शिरांसि धनूंषि वा कर्णपूरी क्रियन्तामाक्षा मौव्यों वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम् । संधिविग्रही चात्र क्रमेण तुल्ये प्रमाणे। प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयायुगपत्प्रवृत्तिः । प्राप्नुवतश्चात्र युगपत्प्रवृत्ति प्रकारान्तरस्यात्रानाशयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । ___ नमनकृतं च तयाः सादृश्यमित्यलंकारता । एवं कर्णपूरीकियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छ्लेषावलम्बनाप्ययं दृश्यते । यथा
'भक्तिप्रहविलोकनप्रणयिनी मीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । - लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशस्तन्वती
- युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥" अत्र नेत्रे तनुर्वेति विकल्पः। उत्तमत्वाञ्च तुल्यप्रमाणं विशिष्टत्वम् । न चात्र समुच्चये वाशब्दः। संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः । कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव न कार्यम् । कृतं च सत्स्पर्धिभावं गमयति । स्पर्धिभावाश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्ययत्वात् । स चात्र श्लेषाश्लिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः । पूर्वैरकृतविवेकाऽत्र दर्शित इत्यवगन्तव्यम् ।
Page #101
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
गुणक्रियायोगपचं समुच्चयः। गुणानां वैमल्यादीनां योगपद्यनावस्थानम्, तथैव च कियाणां समुच्चयोऽलंकारः । विकल्पप्रतिपक्षणास्य स्थितिः । क्रमेण यथा
'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च ।
प्रखलमुखानि नराधिप ? मलिनानि च तानि जातानि ।' .......'अयमेकपदे तथा वियोगः प्रियया चोपनतोऽतिदुःसहो मे।
नववारिधरोदयादहाभिर्भवितव्यं च निरातपार्धरम्यैः ॥'
एतविभिन्नविषयत्वेनोदाहरणद्वयम् । एकाधिकरणत्वेनाप्ययमलं. कारो दृश्यते । यथा
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं ... शल्यं यद्विदधाति सा विधुरिता साधो ? तदाकर्यताम् ।
शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति .
प्रेत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' . एवं गुणसमुश्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्
'न्यश्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकर __व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' - अत्राकेकरादयो गुणशब्दाः न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायोगपद्यम् । - प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्। तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणशब्देन गुणयोगपद्यमिति द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः । एक समुच्चयं त्रिप्रकारभिन्न लक्षयित्वा द्वितीयं लक्षयतिएकस्य सिद्भिहेतुत्वेऽन्यस्य तत्करत्वं च ।
Page #102
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
'
1
समुच्चय इत्येव । यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति । यत्र होकस्य कार्य प्रति पूर्ण साधकत्वम् । श्रन्यस्तु सौकर्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते । यत्र तु खले कपोतिकया बहूनामवतरस्तत्रायं समुच्चयः । श्रतः सुमहान्भेदोऽनयोः । स एष समुच्चयः सद्योगे - सद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा
'कुलममलिनं भद्रा मूर्तिर्मतिः श्रतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा एते भावा श्रमीभिरयं जना
व्रजति नितरां दर्पं राजस्त एव तवाङ्कुशाः ॥' श्रत्रमालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम् । यथा'दुर्वाराः स्मरमार्गणाः प्रियतमा दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥" अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः । नववयः प्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, तथापि विरहविषयत्वेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा -
शशी दिवसधूसरो गलितयौवना कामिनी
समुच्चयः ।
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि में ॥"
अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सद्सतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः शोभनः अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः
Page #103
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् । ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः । नैतत् । “नृपाङ्गणगतः खलः" इति प्रत्युत प्रक्रमभङ्गाष्टमेव, न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । . . अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्टमेवेत्युक्तम् । प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रकान्तम् । विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् । ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽ. शोभनत्वमिति विवक्षा । तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोमेंदः । अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् ।।
कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सोकयं यत्, स सम्य. गाधानात्समाधिः। समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्. 'मानमस्या निराकतु पादयोम पतिष्यतः।
उपकाराय दिष्टयेदमुदीर्णं घनगर्जितम् ॥' माननिराकरणे कार्य पादपतनं हेतुः।
तत्सोकर्याथं तु घनगर्जितस्य कारणान्तरस्य प्रक्षेपः। सौकर्य चोपकारायेति प्रकाशितम् ।
एवं बाह्यन्यायानपिणेऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणाऽलंकारा उच्यन्ते । तत्रप्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम्
यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षण प्रतीकारः कतुन शक्यते इति तत्सम्बन्धिना दुर्बलस्य तं बाधितं तिरस्कारः क्रियते, तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते ।
Page #104
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
-
यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते। तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा. “यस्य किचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥' - अत्र राहोः सकाशाद्भगवान्कृष्ण बलवान्विपक्षः। तदीयः पुनर्वस्त्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः। तत्तिरस्काराद्भगवतः प्रकर्षावगतिः ।
उपमानस्थाक्षेप उपमेयताकल्पनं वा प्रतीपम् । उपमेयस्यैवोपमानभारोद्वहनसामर्थ्याद् यदुपमानस्य कैमर्थक्येमाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्नरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रती. पम् । क्रमेण यथा
'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि ! यथा वा'लावण्याकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलदमाभृतः॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । (१) ए एहि दाव सुन्दरि करणं दाऊण सुणसु वणिजम् ।
तुज्ज्ञ मुहेण किसोअरि? चन्दो उअमिजइ जणेण ॥' अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं करिप. तम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम् । यथा
(१) “अयि एहि तावत् सुन्दरि ? कर्ण दत्त्वा गृणु वचनीयम् । ..... तब मुखेन कृशोदरि ? चन्द्र उपमीयते जनेन ॥"
Page #105
--------------------------------------------------------------------------
________________
अलकारसर्वस्वम् ।
'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नोलमलिनानि ।' अवोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमानत्वकल्पनेऽपि प्रतीपमेव । यथा- . 'अहमेव गुरुः सुदारुणानामिति हालाहल ? तात ? मा स्म गुप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥"
अत्र हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्योपमानभावमप्युपमानत्वेन निबद्धम्।
वस्तुना वस्त्वन्तरनिगूहनं मीलितम् । . सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा
'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मृगदृशां स्वतो लीलया
यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र द्वक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दूक्ता. रल्यादि तिरोधीयते । आगन्तुकेन यथा- 'ये कन्दरासु निवसन्ति सदा हिमाद्रे
स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो वत भियां न बुधोऽप्यभिक्षः॥" . अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्यादेव च मीलितव्यपदेशः।
प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।
Page #106
--------------------------------------------------------------------------
________________
शारदा-प्रन्थ-माला।
-
(१) यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादेकात्म्यं, अभेदेनाध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेदमपहनुतिः । किंचिन्निषिध्य कस्यचिदप्रतिष्ठापनात् । यथा(२) मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपन्नकृतवक्त्ररुचा रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता।
स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः। . यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टगुणवस्तुगुणस्थ स्वीकरणं स तदुगणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रती. यते, इह त्वनपन्हुतस्वरूपमेव प्रकृतवस्त्वन्तरगुणापरक्ततया प्रतीयत इत्यस्त्यनयो दः । यथा. 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या।
रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ।" अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् ।
सति हेतौ तद्रूपाननुहारोऽतद्गुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्या न्याय्यः। यदा पुनरुत्कृष्ट(१) यत्र प्रस्तुतस्य प्राधान्येन वर्णनीयस्यान्येनाप्रस्तुतपदार्थेन यो
गात् सम्पर्काद्यदैकात्म्यमपृथक् प्रतीयमानत्वं निबध्यते तत्र सा
मान्यालङ्कारो भवतीतिभावः। (२) पत्र प्रस्तुताप्रस्तुतयोरभिसारिकाचन्द्रिकयो(वक्षिकगुणसाम्ये
नैकात्मतावर्णनात्सामान्यालङ्कारः।।
Page #107
--------------------------------------------------------------------------
________________
श्रलङ्कार सर्वस्वम् ।
गुरुपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्ट गुणस्थाननुहरणं न्यूनगुणेनाननुवर्तनं भवति सेोऽतद्गुणः । तस्योत्कृष्ट गुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुहारः सत्यनुहरण हेतावतद्वगुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा । क्रमेण
यथा
६
(१) 'धवल सि जइ वि सुन्दर तह वि तुए मम्भ रजिनं हिश्रश्रम् । भरिए विहिए सुहा लिहितो ण रत्तो सि ॥ 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस ? तव सैव शुभ्रता चीयते न च न चापचीयते ॥
पूर्वत्रातिरक्त हृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यत दूगुण एव । धवलेोऽसीति त्वतद्गुण एव ।
कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।
उत्तरात्प्रइनोन्नयन मसकृदसम्भाव्यमुत्तरं चोत्तरम् ।
यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुत्तरम् । न चेदमनुमानम् । पक्षधर्मतादेरनिर्देशात् । यत्र च प्रश्नपूर्वकम संभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेः । अतश्वासकृन्निबन्धे द्वितीयमुत्तरम् ।
न चेदं परिसंख्या । व्यवच्छेद्यव्यवच्छेदक परत्वाभावात् । क्रमेण
यथा
(१) सि यद्यपि सुन्दर ! तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग ! निहितो नरक्तोऽसि ॥"
श्रोत्तरार्ध प्रस्तुतेन गायकेन निवेदनीयवृत्तान्ततया प्रकृतस्य हृदयस्य गुणाननुहरणादत दुगुणेोऽलङ्कारः । गाङ्गमित्यादा प्रस्तुतेन हंसनाप्रस्तुत गुणाननुहणाद्भेदः ।
(२) प्रतिवचनश्रवणादेव यत्र प्रश्नः कल्प्यते तदेकमुत्तरम् । प्रश्नानन्तरं चेदसकृद्विचित्रमुत्तरं स्यात्तदा द्वितीयमुत्तरमिति भावः ।
Page #108
--------------------------------------------------------------------------
________________
शारदा - प्रन्थ-माला ।
'एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिश्च गतो विदेशम् ।
कं याचसे तदिह वासमियं वराकी श्वभूमान्धबधिरा ननु मूढ पान्थ ॥' ( १ ) ' का विसमा देवगई किं लद्धं जं जो गुणग्गाही । किं सोक्खं सुकलतं किं दुक्खं जं खलो लोश्रो ॥"
पूर्वत्र मम वासा दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र देवगत्यादि निगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् । ( २ ) इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम् - संतचितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् ।
६७
इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्या योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः । तत्रेङ्गिताद्यथा
( ३ ) 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्म निमीलितम् ॥'
अत्र विटसम्बन्धी संकेतकालाभिप्रायेो भ्रूक्षेपादिना इङ्गितेन लक्षितः, रजनीकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । श्राका
राद्यथा
'वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तव्या व्यञ्जयन्ति वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख ॥"
(१) " का विषमा दैवगतिः किं लब्धं यजना गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः "
(२) उत्तरालङ्कारादारभ्येत्यर्थः ।
(३) अत्र प्रथमे पद्ये नेत्रेङ्गितेन लक्षितः सूक्ष्मोऽभिप्रायः कामिन्या निशासूचकेन पद्मनिमीलनेन प्रकाशितः । द्वितीये च श्राकारेण लक्षितं सद्बुद्धिवेद्यतया सूक्ष्मं पुरुषायितं पाणौ खड्गलेखनेन प्रकाशितम् ।
१३
Page #109
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम्।
• अत्र स्वेदबिन्दुकृतकुङ्कमभेदरूपेणकारेण संलतितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् ।।
उद्भिनविस्तुनिगृहनं व्याजोक्तिः । यत्र निगढं वस्तु कुतश्चिन्निमित्तादुद्भिन्न प्रकटतां प्राप्तं सहस्त्वन्तरप्रक्षेपेण निगृह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्या. जस्य वचनाद्व्याजोक्तिः । यथा(१) शैलेन्द्रप्रतिपाद्यमानगिारजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासंगभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥" अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यपहनुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः। तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपहनुतिग्रन्ये 'यथा सादृश्याय योऽपह्नवः सापह नुतिः, तथापह्नवायापि यत्सादृश्यं लाप्यपहनुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते । तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयणेन तत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति । इह तु तस्य संभवाव्यतिरिक्तापहनुतिरिति पृथगयमलंकारो निर्दिष्टः।
अन्यथोक्तस्थ वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः।
उक्तिव्यपदेशसाम्यावयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केनचिदन्यथाभिप्रायेणेाक्तंसदपरेण वक्त्रा काकुप्रयोगेण श्लेषप्रयोगेण वान्य थान्यार्थघटनया योज्यते, तदुक्तिः सा वक्रोक्तिः । काकुप्रयोगेण यथा(२) 'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । (१) अत्र शृङ्गारानुभावत्वेनाभिव्यक्तयोः कम्परोमाञ्चयोः हिमवत्कर
स्पर्शनिमित्तकत्वेन गोपनाद्वयाजोक्तिः। (२) अत्र गुरुपराधीनतया दूरतरं देशं गन्तुमुघतोऽयं मे कान्तः,
ललितवसन्तसमये नागमिष्यतीति नायिकयोक्तं वाक्यं, तस्याः सखी, काक्वा, न एष्यति अपितु एण्यत्येवेत्यन्यथा योजयतीति काकुवक्रोक्तिः।
Page #110
--------------------------------------------------------------------------
________________
शारदा-प्रन्ध-मालो।
अलिकुलकोकिलललिते नैष्यति सखि ? सुरभिसमयेऽसौ ॥ अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः।
तत्र श्लेषोऽभङ्गसभङ्गत्वेनाभयमयत्वेन त्रिविधः। तत्रामङ्गश्लेषमुखेन यथा(१) 'अहो केनेदशी बुद्धिरुणा तव निर्मिता।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥' अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभन्या तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा(२) । त्वं हालाहलभृत्करोषि मनसो मूर्छा समालिङ्गितो . हालां नैव विभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः।" (३) उभयमुखेन यथा
'विजये ? कुशलस्यतो न क्रीडितुमहमनेन सह शक्ता। . विजये कुशलोऽस्मि न तु ब्यक्षोऽक्षद्वयमि पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः ।
क इह द्वेष्टि विनायकमहिलोकं कि न जानासि ॥ (१) अत्र दारुणेति करेत्यर्थकत्वेन वक्तुरभिप्रेतं, काष्ठेनेत्यथनान्यो
ऽन्यथा योजितवानित्यभङ्गश्लेषः । (२) अत्र कालकूटार्थे देव्या प्रयुक्तोऽखण्डः हालाहलशदः देवेन
विभागपूर्वकं हालाहलयोर्द्वन्द्वपरत्वेन योजित इति सभङ्गश्लेषः । (३) सभङ्गाभङ्गश्लेषमुखेनेत्यर्थः । (8) विजय इतिः- ..
देवीवाक्ये "विजये” इति सखी सम्बोधनं, त्र्यक्ष इति च त्रिनेत्रत्वादीश्वरवाचकः । देववाक्ये तु “ विजये " इति सप्तम्यन्तम् । व्यक्ष इति कीडाथं अक्षत्रयविशिष्टश्च । ___ मेदुरोदरेण मम दुरोदरेण लम्बोदरेण च । विनायकं विघ्नेश्वर, वीनां पक्षिणां नायकं गरुडश्च ।
Page #111
--------------------------------------------------------------------------
________________
१००
अलङ्कार सर्वस्वम् ।
चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥ हा राशितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य । यदि नेच्छसि संत्यक्तः संप्रत्येवैव हाराहिः ॥ वसुरहितेन क्रीडा भवता सह कीदृशो न जिह्वेषि । किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः || आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य । दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ॥ इति कृतपशुपति पेलवपाशकलीलाप्रयुक्तवक्रोक्तः । हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥ वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीद्दालंकारविशेषे
संशितः । सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः ।
इह वस्तुस्वभाववर्णनमात्रं नालंकारः । तत्त्वे सति सर्व काव्यमलंकारि स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थं सूक्ष्म ग्रहणम् । सूक्ष्मः कवयितृमात्रस्य गम्यः । श्रत एव तन्निर्मित इव यो वस्तुस्वभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्तिवचनप्रस्तावादिहास्या लक्षणम् | भाविकरसवदलंकाराभ्यामस्य भेदो भाविक प्रसङ्गेन निर्णेष्यते । यथा
'हुङ्कारो नखकोटिचञ्चुपुट कव्याघट्टनोट्टङ्कित
स्तन्व्याः कुन्तल कौतुक व्यतिकरे सीत्कारसीमन्तितः । - पृष्ठश्लिष्यदवामनस्तनभरोत्सेधाङ्कपालीसुधा
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ।
चन्द्रग्रहणेन चन्द्रस्यादानेन चन्द्रोपरागेण च । नास्मि रमे नाहं रतिं करोमि ।
हाहा । हेत्यव्ययम् । राहौ स्वर्भानौ । हाररूपे अहौ च । वसुरहितेन - धनरहितेन, अष्टवसुरहितेन च । अङ्कश्चिन्हम् । उत्सङ्गश्च ।
श्रत्र मेदुरोदरेण- हाराहावित्यादौ सभङ्गत्वमन्यत्राभङ्गत्वम् ।
Page #112
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
१०१
अतीतानागतयोर्भतभाविनोरथयारलौकिकत्वेनात्यद्भुतत्वाद्वयस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाश्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव प्राशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि विनिवेशनं सोऽत्रास्तीति। न चेदं भ्रान्तिः, भूतभाविनोभूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवस्तुवृत्तमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वाख्यस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् । नापीदमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाविनावभूतभावित्वेनाध्यवसीयेते, अभूतभाविनी वा भूतभावित्वेन । नापि, प्रत्यक्षमप्रत्यक्षत्वेन, अप्रत्यक्ष वा प्रत्यतत्वेन।
न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्रपेक्षयैव वस्तुनि तथाभावात्। यदाहुः-'तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः' इति । केवलं वस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावा योगिनामती. न्द्रियार्थदर्शने भावनारूपा। काव्यार्थविदां च भावनाखभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्ता । अत्यद्भुतानां च वस्तूनामा. दरप्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीरिवार्थगर्भीकारेणेयं प्रतीयमानोत्प्रेक्षा । तस्या अभिमानरूपाध्यवसायखभावत्वात् । न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्य. वसीयते। किं तर्हि काव्यार्थविद्भिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगत इवार्थ उत्प्रेक्षाप्रयोजकः। तस्या अभिमानरूपायाः प्रतिपत्तधर्मत्वात् । यदाहुः–'अभिमाने च सा योज्याज्ञानधर्मेसुखादिवत्! इति । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यद्भुतपदार्थदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गिभावेन प्रतीत्यभावात् । योगिवत्प्रत्यक्षतया प्रतीतेः।
नाप्ययं परिस्फुरदूपतया सचमत्कारप्रतिपत्ते रसवदलंकारः । रित्यादिचित्तवृत्तीनांतदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह तु ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वशवत्प्रतीतेः। स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतो स्फुटप्रतिपत्तेनिमित्तक औत्तरकालिको रसबद
Page #113
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
लंकारः स्यात् । नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः। तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् ।
इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतेः । क्वचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतो भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकार योरभेदः ।वस्तुस्वभावसंवादरूपत्वात्स्वभावोक्तः। चित्तवृत्तिसमाधिरूपत्वाच रसवदलंकारस्य, उभयसंवादसंभवेतु समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावाक्तिः, अन्यत्र तु रसवद. लंकार एव ।
नाप्ययं शब्दानाकुलत्वहेतुको झटित्यर्थसमर्पणारूपः प्रसादाख्यो गुणः। तस्य हि स्फुटास्फुटोभयरूपवाक्यार्थगतत्वेन झटिति समर्पणं रूपम् । अस्य तु झटिति समर्पितस्य सतः स्फुटत्वेन प्रतीतो स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो
दृश्यते।
. 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' . - यथा वा-हर्षचरितप्रारम्भे ब्रह्मसदसि वेदखरूपवर्णने । तत्र हि प्रत्यक्षमिव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्दवर्णनादौ च शेयम् । अयं तु तत्र विचारलेशः संभवति-इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम् । आद्यं यथोदाहृतं प्राक् । - द्वितीयं यथा..'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपरिव सर्वतो वृतः । - अचामरोऽप्येष सदैव वीज्यते विलासवालव्यजनेन कोऽप्ययम् ॥'
इति । अत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। . कविसमर्पितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि भाविकम्' इति चोटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविक स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति,
Page #114
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला। नायमत्रालंकारः। यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्त्रगोचरीभूतं स्वभावोक्तिवदलंकारतया वण्येत तदायमपि प्रकारो नातीव दुःश्लिष्टः। अत एव 'प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः। तद्भाविकम्' इति, एवमन्यैर्भाविकलक्षणमकारि । स्वभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम्।
समृद्धिमवस्तुवर्णनमुदात्तम् । ___ स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्तुवर्णनात्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । यथा-- (१) 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिः कृताः
प्रातः प्राङ्गणसीन्नि मन्थरचलद्वालाङ्ग्रिलाक्षारुणाः।। दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' अङ्गभूतमहापुरुषचरितवर्णनं च । उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गीभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम् । महापुरुषचरितस्योदाररूपत्वात् । यथा(२) 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी।
निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः॥" अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ।
रसभावतदाभासतत्पशमानांनिबन्धनेन रसवत्प्रे. यऊर्जस्विसमाहितानि ।
उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाञ्चित्तवृत्तिविशेषस्व. भावत्वाच्च रसादीनामिह तद्वदलंकाराणां प्रस्तावः । अत एव चत्वारोऽ
(१) अत्रोत्करसमृद्धिवर्णनादुदात्तालङ्कारः। (२) यस्मिन्नरण्ये निवसन्रामो बाहुमात्रसहायो रक्षसां यं चकार
तदिदमरण्यमिति महतः श्रीरामस्यारण्योत्कर्षकतया तदङ्गभावादपर उदात्तभेदः।
Page #115
--------------------------------------------------------------------------
________________
१०४
अलङ्कार सर्वस्वम् |
लंकारा युगपल्लक्षिताः । तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषेो रसः । भावो विभावानुभावाभ्यां सूचितेो निर्वेदादित्रयस्त्रिंशद्भेदः । देवादिविषयश्च रत्यादिर्भावः ।
तदाभासेो रसाभासेा भावाभासश्च । श्राभासत्वमविषयप्रवृत्त्यानौचित्यात् । तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परं विश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयेोऽयं द्रष्टव्यः । एषामुपनिबन्धे क्रमेण रसवदादयोऽलंकाराः । रसो विद्यते यत्र निबन्धने व्यापारात्मनि तद्रसवत् । प्रियतरं प्रेयो निबन्धनमेव । एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वादत्र बलयेोगः । समाहितं परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः । तंत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्राङ्गभूतरसादिविषये द्वितीये उदात्तालंकारः । यन्मते त्वङ्गभूतरसादिविषये रसवदाद्यलंकाराः, अन्यत्र रसादिध्वनिना व्याप्तत्वात्तत्र द्वितीयेोदात्तालंकारस्य विषयो नावशिष्यते । तद्विषयस्य रसवदादिना व्याप्तत्वात् । तत्र रसवत उदाहरणम्
'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
केयं निष्करुण ? प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुध्वा रोदिति रिक्त बाहुवलयस्तारं रिपुस्त्रीजनः ॥" एतन्मतद्वयेऽप्युदाहरणम् । तत्र वाक्यार्थी भूतोऽत्र करुणो रसः । श्रङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंकारादौ विशेषमनपेच्यादाह्रियते । प्रेयालंकारो यथा 'गाढा लिङ्गनवामनीकृत कुचोद्भिन्नरोमोद्रमा सान्द्रस्वेदरसातिरेक विगलच्छ्रीमन्नितम्बाम्बरा । मामा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ ar नायिकायां हर्षाख्यो व्यभिचारिभावः । यथा वा
'त्वद्वक्त्रामृतपान दुर्ललितया दृष्टया क्व विश्रम्यतां त्वद्वाक्यश्रवणाभियेोगपरयोः श्राव्यं कुतः कर्णयेाः । एभिस्तत्परिरम्भनिर्भरतरैरङ्गः कथं स्थीयतां कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः ॥'
-
Page #116
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
१०५
अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुति
चेतः कालकलामपि प्रकुरुते नावस्थितियां विना। एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन वेमि स्फुटम् ॥" अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः । अनौचित्येन प्रवृत्तौ समाहितं यथा'अक्षणाः स्फुटाश्रुकलुषोऽरुणिमा निलीनः
शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य तव चण्डि ? गतोऽपि रोषो
नोगाढवासनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः। एवमन्यत्राप्युदाहार्यम् । भावोदयो भावसंधिर्भावशबलताश्चैते पृथगलंकाराः।
भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयाविरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्दैन निबन्धः। एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः।
एतत्प्रतिपादनं चौद्भटादिभिरेषां पृथगलंकारत्वेन निर्दिष्टत्वात् । अथ च संसृष्टिसंकरवैलक्षण्येनैते च सर्वालंकाराः पृथक्केवलत्वेन, अलंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततया सिद्धानामलंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावो. दयो यथा
'एकस्मिन्छयने विपक्षरमणीनाममहे मुग्धया
सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णी स्थितस्तत्क्षणान्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनीक्षितः॥" अत्रौत्सुक्यस्योदयः। भावसंधिर्यथा'वामेन नारीनयनाश्रुधारां कृपाणधारामथ दक्षिणेन । उत्पँसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ।'
Page #117
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
::श्रत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः । भावशबलता यथा(१) 'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥" अत्र वितर्कीत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबखता । तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः। . अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते। तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम् । तत्रोत्कटत्वेन स्थिती तिलतण्डुलन्यायः, इतरत्र तु क्षीरनीरसादृश्यम् । क्रमेणैतदुच्यते
एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद् युगपद् संघटना स्यात्, तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते--तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते । तेनालंकारान्तरप्रा. दुर्भावान पृथक्पर्यवसानमिति निर्णयः। अलंकारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः। अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामेव गमयतः। तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा(१) अत्र क्वाकार्यमित्यादी वितर्कः, भूयोऽपीत्यौत्सुक्य, दोषाणामिति मतिः, कोपोऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, स्वप्ने - पीति दैन्यम् । चेतः स्वास्थ्यमिति धृतिः, कः खल्विति चिन्ता इति स्फुटं भावानां पूर्वपूर्वोपमर्दैन प्रतीयमानाऽवस्थितिरूपा शबलता। . ....... . . . . .
Page #118
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला ।
कुसुम सौरभलाभपरिभ्रम भ्रमर संभ्रमसंभृतशोभया । वनितया विदधे कलमेखला कलकलोऽलकले लदृशान्यया ॥१ श्रत्रानुप्रासयमकयोर्विजातीययेोः संसृष्टिः । अत्रैव 'अलकलालकलोल' इति, तथा 'कलोलकलाल' इति सजातीययाः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा
'देवि ? क्षपा गलति चक्षुरमन्दतारमुन्मीलयाशु नलिनीव सभृङ्गमब्जम् । एष त्वदाननरुचेव विलुण्ठ्यमानः
पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥
श्रत्र सजातीयथारुपमेोत्प्रेक्षयोः संसृष्टिः . 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । श्रसत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ श्रत्रोत्प्रेक्षयाः सजातीययोरुत्प्रेक्षोपमयेोर्विजातीययोश्च संसृष्टिः । उभयसंसृष्टिर्यथा
'श्रानन्दमन्थरपुरंदर मुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जुमञ्जीरशिञ्जितमनोहर मम्बिकायाः ॥
श्रत्रोपमानुप्रासयेोः संसृष्टिः । पादाम्बुजमित्यत्र ह्युपमायां मीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादुपमां प्रसाधयति । तदेवं संसृष्टिस्त्रिधा निर्णीता । अधुना क्षीरनीरन्यायेन संकर उच्यते
क्षीरनीरन्यायेन तु संकरः ।
।
मिश्रत्व इत्येव । तत्र - अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः । तत्रो। त्कटभेदा संसृष्टिरुक्ता । श्रनुत्कंटभेदः संकरः । तच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन एकवाचकानुप्रवेशेन च त्रिधाभवत्संकरं त्रिभेदमुत्थापयति । क्रमेण यथा
'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्खलीकृत सरोज लोचनं चुम्बतीव रजनीमुखं शशी ॥"
Page #119
--------------------------------------------------------------------------
________________
१०८
अलङ्कारसर्वस्वम् ।
अत्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः। प्रारम्भवदनाख्ययोर्मुख्ययोरभेदाध्यवसायात् । अत एव तयोरङ्गाङ्गिभावः। एवं च वाक्योक्तसमासोक्ते उपमे श्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षायाः 'चुम्बतीव' इति प्रकाशिताया अनुमाहिका। तबलेन तस्याः समुत्थानात्। सा च समुत्थापिता समुत्थापकानां चमत्कारकारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः । यथा वा
'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद्विवस्वान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥'
अत्र प्रथमाधैं विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ । तदनुगृहीता च द्वितीयेऽधैं मन्येपदप्रका. शितोत्प्रेक्षा । अतश्चात्राङ्गाङ्गिभावः ।
तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः। यश्चात्र कार्यमुत्प्रेक्षानिमित्तं, तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ शेयौ। तेनात्राकाङ्गिभावः संकरः । न च विरोधप्रतिभोत्पत्तिहेतौ श्लेषे श्लेषस्य वि. रोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहाङ्गाङ्गिभावः संकरः, ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद्धाधकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति । यतो न बमो विरोधमन्तरेणापि श्लेषो न भवतीति । किं तहलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाधः । तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद्दोषः । एव मर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा
'राजति तटीयमभिहतदानवरासातिपातिसारावनदा।
गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षित्वेनाशाहिसंकर इति। एतत्तु न सम्यगावर्जकम् । शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालंकारसंघष्टिस्त्वत्र श्रेयसी । यथोदाहृतं पूर्वम् ।
Page #120
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
१०४
यद्वा, अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः । यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विशेयः। यथा'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा.
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ अत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणा. भावेऽप्युत्कण्ठाया उत्पत्तौ विभावना । स च कारणाभावो 'यः कौमार. हरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः इत्यादावनुत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तो विशेषोक्तिः। सा चानुत्पत्तिः समुत्कण्ठते' इति विरोधोत्पत्तिमुखेनोका । अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साध कबाधकप्रमाणयोग इति संदेहसंकरोऽयम् । यथा वा
'यद्वक्रचन्द्र नवयौवनेन श्मश्रच्छलादुल्लिखितश्चकास्ति। उद्दामरामागृढमानमुद्राविद्रावण मन्त्र इव स्मरस्य ॥' अत्र वक्त्रं चन्द्र इवेति किमुपमा, उत वक्त्रमेव चन्द्र इति किं रूपकमिति संशयः। उभयथापि समासस्य भावात्। 'उपमितं व्याघ्रादिभिः' इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात् । मयूरख्यसकादित्वात्तु रूपकसमासः। मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः । __ यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वाप्रमाणं विद्यते तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकत्वम्, प्रातिकूल्यं बाधकत्वम् । तत्र साधकत्वं यथा
'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥' अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम्। शंकरेऽपि तस्योपचरितस्य संभवात् । यथा वा
Page #121
--------------------------------------------------------------------------
________________
अलङ्कारसर्वस्वम् ।
'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि ।
संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥ .. .... अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम्। बाधकं यथा--
'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृती। -:. विनिद्रजम्भितहरिविन्ध्योदधिरजायत ।'
अत्र विन्ध्य उद्धिरिवेत्युपमापरिग्रहे विनिद्रजम्भितहरिरिति सा. धारणं विशेषणं बाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सह सामा. ज्याप्रयोग' इति वचनात् । उपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्याद्रपकपरिग्रहः । न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्यौपम्येन कदाचिदर्थसिद्धिः न ह्यौपम्येनालंकारेण प्रक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाह स्योचितत्वात्। विपर्ययस्तु दुष्ट एव । यथा-'येनेन्दुर्दहनो विषंमलयजं हारः कुठारायते । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकादेशकृतिगणत्वाद्रपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं 'भाष्याब्धिः क्वातिगम्भीरः' इत्यादी द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः। यथोदाहृतम् । ... तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचके - नेकालंकारानुप्रवेशः, न च संदेहो नाप्यङ्गाङ्गिभावः । यथा-- . 'मुरारिनिर्गता नूनं नरकप्रतिबन्धिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥" .. अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकप्रतिबन्धिनीति श्लिष्टविशेषणसमुत्थश्वोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्नेव शब्दे प्रविष्टौ, तस्योभयोपकारित्वात् । अत्र च यथार्थश्लेषण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा
'सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये। , उद्यानवापीपयसीव यस्यामेणीगृशो नाट्यगृहे रमन्ते ॥" . अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना। सत्पुष्करद्योतितरङ्ग इति शब्दश्लेषेण सहकस्मिन्नेव शब्दे
Page #122
--------------------------------------------------------------------------
________________
शारदा-ग्रन्थ-माला।
१११
सङ्कीर्णा । शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहतो 'राजति तटीयम्' इत्यादिना। एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् ।
अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीययोरप्यलंकारयोरेकवाचकानुप्रवेशे संभवात् । शब्दार्थवृत्यलंकारस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम्
एवमेते शब्दार्थोभयालंकाराःसंक्षेपतः सूत्रिताः। एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रक्रान्तस्वरूपनिर्देशः । सूत्रिता। अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः ।
तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभयालंकारा लाटानुप्रासादयः। संसृष्टिसंकरप्रकारौ कौचिदलंकारौ। तद् पत्वात् । लोकवदाश्रयाश्रयिभावश्च तदलंकारनिबन्धनम् । अन्वयव्यतिरेकी तु तत्कार्यत्वे प्रयोजकौ । न तदलङ्कारत्वे । तदलंकारप्र. योजकत्वे तु श्रौतापमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुस्मृतिः ॥
संपूर्णमिदमलंकारसर्वस्वम् ।
Printed by Rameshwar Pathak at the Tara Printing Works,
Benares.
Page #123
--------------------------------------------------------------------------
Page #124
--------------------------------------------------------------------------
________________
अलंकारसूत्राणि
( १ ) इहार्थपैौनरुक्त्यं शब्दार्थपैौनरुत्त्यश्चेति त्रयः पैौनरुक्तय
प्रकाराः ।
(२) तत्रार्थपैौनरुक्त्यं प्ररूढं दोषः
(३) श्रामुखावभासनं पुनरुक्तवदाभासम् । (४) सङ्ख्यानियमे पूर्वं छेकानुप्रासः । (५) अन्यथातु वृत्त्यनुप्रासः । (६) स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् । (७) शद्वार्थपैानरुक्त्यं प्ररूढं दोषः । (८) तात्पर्यभेदवत्तु लाटानुप्रासः । ( 8 ) तदेवं पैौनरुक्तये पञ्चालङ्काराः ।
(१०) वर्णानां खड्गाद्या कृतिहेतुत्वे चित्रम् । (११) उपमानोपमेययेाः साधर्म्य भेदाभेदतुल्यत्वे उपमा । (१२) एकस्यैवोपमानोपमेयत्वेऽनन्वयः ।
(१३) द्वयेाः पर्यायेण तस्मिन्नुपमेयोपमा । (१४) सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् । (१५) अभेदप्राधान्य श्रारोपे श्रारोपविषयानपह्नवे रूपकम् । ( १६ श्रारोप्यमाणस्य प्रकृतेापयेोगित्वे परिणामः ।
(१७) विषयस्य सन्दिह्यमानत्वे सन्देहः ।
(१८) सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ।
(१६) एकस्यापि निमित्तवशादनेकधा ग्रहणं उल्लेखः । (२०) विषया पहवेऽपहनुतिः ।
(२१) अध्यवसाये व्यापारप्रधान्य उत्प्रेक्षा ।
(२२) अध्यवसितप्राधान्ये त्वतिशयोक्तिः ।
(२३) औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता ।
Page #125
--------------------------------------------------------------------------
________________
(२४) प्रस्तुतानामप्रस्तुतानाच दीपकम् । (२५) वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रति
वस्तूपमा (२६) तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः। (२७) सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्ब
करणं निदर्शना। (२८) भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । (२६) उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे
सहोक्तिः। (३०) विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः । (३१) विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । (३२) विशेषणसाभिप्रायत्वं परिकरः । (३३) विशेष्यस्यापि साम्ये द्वयोवळपादाने श्लेषः। (१४) अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्येच
प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। (३५) सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्था
न्तरन्यासः। (३६) गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् । (३७) स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । (३८) उक्तवक्ष्यमाणयोः प्राकरणिकयाविशेषप्रतिपत्त्यर्थं निषेधाभास
आक्षेपः। (३६) अनिष्टविध्याभासश्च । (४०) विरुद्धाभासत्वं विरोधः । (४२) कारणाभावे कार्यस्योत्पत्तिविभावना । (४२) कारणसामग्र्ये कार्यानुत्पत्तिविशेषोक्तिः। (४३) कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। (४४) तयोविभिन्न देशत्वेऽसङ्गतिः। (४५) विरूपकार्यानर्थयोरुत्पत्तिविरूपसंघटना च विषमम् । (४६) तद्विपर्ययः समम् । (४७) स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । (४८) आश्रयाश्रयिणारनानुरूप्यमधिकम् ।
Page #126
--------------------------------------------------------------------------
________________
( ३ ) (४) परस्परं क्रिया जननेऽन्योन्यम् । (५०) अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणञ्च विशेष (५१) यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः । (५२) सौकर्येण कार्यविरुद्धक्रिया च । (५३) पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला । (५४) यथापूर्व परस्य विशेषणतया स्थापनेऽपोहनेवैकावली । (५५) पूर्वपूर्वस्योत्तरोत्तर गुणावहत्वे मालादीपकम् । (५६) उत्तरोत्तरमुत्कर्षः सारः। (५७) हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् । . .. (५८) साध्यसाधननिर्देशोऽनुमानम् । (५४) उद्दिष्टानामर्थानां क्रमेणानुनिर्देशो यथासंङ्ख्यम् । (६०) एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्यायः । (६१) समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः। (६२) एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसङ्ख्या । (६३) दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः। , (६४) तुल्यबलविरोधो विकल्पः । (६५) गुणक्रियायोगपद्यं समुच्चयः । (६६' एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वञ्च । (६७) कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । (६८) प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् । (६४) उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् । (७०) वस्तुना वस्त्वन्तरनिगृहनं निमीलितम् । (७१) प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् । (७२. स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः । (७३) सति हेतौ तद्रपाननुहारोऽतद्गुणः । (७४) उत्तरात्प्रश्नोनयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् । (७५) संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । (७६) उद्न्निवस्तुनिगूहनं व्याजोक्तिः । (७७) अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं
वक्रोक्तिः। (७८) सूक्ष्मवस्तुस्वभावस्य यथाववर्णनं स्वभावोक्तिः ।
Page #127
--------------------------------------------------------------------------
________________
( ४ )
(७६) श्रतीतानागतयेोः प्रत्यक्षायमाणत्वं भाविकम् । (E) समृद्धिमद्वस्तुवर्णनमुदात्तम् ।
(८१) अङ्गभूतमहापुरुषचरितवर्णनञ्च ।
(८२) रसभावतदाभास तत्प्रशमानां निबन्धे रसवत्प्रेयऊर्ज्जस्विसमाहितानि ।
(८३) भावोदयसन्धिशबलताश्चैते पृथगलङ्काराः । (८४) एषां तिलतण्डुलन्यायेन संसृष्टिः ।
(५) क्षीरनीरन्यायेन तु सङ्करः ।
(८६) एवमेते शद्वार्थोभयालङ्काराः संक्षेपतः सूत्रिताः ।
Page #128
--------------------------------------------------------------------------
________________
अलंकार सर्वस्वस्य श्लोकानुक्रमणिका ।
१०५ अस्य हि प्रवय ७३ | श्रस्याः सर्ग
१०७ श्रहमेव गुरुः
श्रक्ष्णेोः स्फुटास्नु... अङ्गलेखा
अङ्गुलीभिरिव
श्ररणं लडह
अतिशयित
अत्रानुगोदं
अथ पत्रिमता
श्रथेोपगूढे
अनन्तरन
अनन्यसामान्य
अनन्वयेच
श्रातपत्रो
श्रन्तछिद्राणि
अब्धिर्लङ्गित
अपाङ्गतरले श्रमुष्मिल्लावण्या
श्रयं मार्तण्डः किं ...
श्रयं वारामे
श्रयमेकपदे
अरण्यानी
अलंकारः शङ्का अलंकारोऽथ श्रविरल
श्रव्यात्स वो
असमाप्त
असंभृतं
...
...
...
...
३६ श्रहीनभुजगा
२३ अहो केद्रशी
२३ | श्रहो हि मे २६ श्राकृष्टिवेग ५६ श्रीकृष्यादाव
६५ श्रटोपेन
३६ | श्रामन्दसुन्दर १६ | श्रभाति
१०२ श्रा मुण्डशिरसि
६४ श्रारोपयसि
४५ श्रतोऽपि
६४ इति कृतपशु ३४ इन्दुः किं क्व
३० इन्दुर्लिप्त ७२ इन्दोर्लक्ष्म
६० उत्कोपे त्वयि ७६ उत्क्षिप्त सह
उद्भ्रान्तोज्झित ६० उन्नत्यै नमति ४१ | उपोढरागेण ४६ | उरो दत्त्वा ५६ ए एहि दाव ७३ | एकस्मिञ्छयने
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
....
⠀⠀⠀⠀⠀⠀⠀:
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀:
...
४०
६४
१६
६६
६५
५६
६०
१८
१०७
२६
४७
१००
७४
१००
३०
६२
४७
छुह
३३
७८
५१
5
६३
૨૦૫
Page #129
--------------------------------------------------------------------------
________________
एकाकिनी
एतत्तस्य
:
:::::::::::::::
... ...
एतान्यवन्ती एषा स्थली यत्र ... ऐन्द्रं धनुः ... भोष्ठे बिम्बफ कजलहिम कण्ठस्य तस्याः ... कपोलफलका कमलमनम्भसि ... कर्पूर इव कस्तूरोतिल कस्त्वं भोः का विसमा काशाः काशा काकार्य शश किमासेव्यं । किमित्यपास्या किवणाण किं तारुण्यतरो ... किं नाम दर्दुर ... किं पद्मस्य रुचिं किं भूषणं किं मे दुरोद ... किं वृत्तान्तः किं हास्येन न कुबेरजुष्टां कुलममलिनं कुसुमसौरभ कृतं च गर्वामि हुकारो नख
३७
8 | कौटिल्यं कच ६१ क्षीणः क्षीण .... | खमिव जलं गच्छ गच्छसि गणिकासु गएडान्ते मद गतासु तीरं गर्वमसंवाद्य गाङ्गमम्बु गाढालिङ्गन गुरुपरतत्र गृह्णन्तु सर्वे घेत्तुं मुञ्चइ चकार्य एव चक्राभिघात चन्द्रग्रहणेन चित्रं चित्रं | चूड़ामणिपदे ...
चोलस्य यद्भीति ... जये धरियाः जितेन्द्रियत्वं ज्योत्स्ना तमः ... | ज्योनाभस्म णाराणो त्ति तएणत्थि किम्पि ... तदिदमरण्यं
... ... १०३ तन्वी मनोरमा ... .... ५१ त्वं हालाहल .... ... 8 त्वत्पादनख
... ... ४६ त्वदङ्गमार्दव १०० | त्वद्वक्रामृत
: :: :: :: : :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :
त्व
::::::::
Page #130
--------------------------------------------------------------------------
________________
त्वमेवं सौन्दर्या ... ... ७७ निरीक्ष्य विद्यु ... ... ताला जाअन्ति
| निनान्य ... ... तीर्थान्तरेषु
निशासु भास्व तीर्खा भूतेश
नीतानामा ... प्रयीमयोऽपि
नेरिवोत्पलैः प्रयीमयोऽपि ___ ... ... १०%
नो किंचित्कथ दत्वा दर्शन ___ ... ... ८६ न्यश्चत्कुञ्चित दन्तप्रभा ... ... ५१
पथि पथि ... दामोदरकरा
परहिअअं ... दारुणः काष्ठतो
परिच्छेदातीतः दासे कृता ... ... २५
पर्यको राज ... दाहोऽम्भः
पशुपतिरपि ... ... दिदृक्षवः ... ... ४८ पश्यत्सूद्रत ... दिवमप्युप
पश्यन्ती त्रपयेव दुर्वाराः स्मर ... ... ६१ पश्यामः किमियं दूराकर्षण ... ... १०५ पाण्ड्योऽयमंसा दृशा दग्धं
पातालमेत ... देया शिलापट्ट
पीयूषप्रसृति देवि तपा
... ... १०७ पृथ्वि स्थिरा दोर्दण्डाञ्चित
पुराणि यस्यां धुजनो मृत्युना
पुष्पं प्रवालोप द्यामालिलिङ्ग
| पूर्णेन्दोः परि द्यौरत्र क्वचि
७८ प्रभामहत्या ... ... धवलोऽसि
प्रसरद्विन्दु ... ... धन्याः खलु
प्रसपत्तात्पर्य धावत्त्वदश्व
| प्रसीदेति ... धृतधनुषि . ... ... ८८ प्राप्याभिषेक ... न तजलं
.... ... ८१ प्रायः पथ्य .... नन्वाश्रय
प्रासादे सा .... निमेषमपि ...
| बाणेन हत्वा निरर्थकं ...
| वालश्रणाहं
: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ::
Page #131
--------------------------------------------------------------------------
________________
बिभ्राणा हृदये कियन्नय
ब्रूमः भक्तिप्रह्नविलो
भक्तिर्भवे
भासते प्रतिभा भुजंगकुण्डली
भ्रमिमरति मग्गिश्रद्ध
मदनगणना मनीषिता: मन्दमग्नि
...
...
मलयजरजसा
महिलासहस्स मानमस्या
मुक्ताः केलि
मुनिर्जयति मुरारिनिर्गता' मृगलोचनया
....
...
मृग्यश्वदर्भा यः कौमारहरः यत्त्वन्ने समान या लहरी यत्रैव मुग्धेति यथा रन्ध्र यदि नेच्छसि यदेतच्चन्द्रा
चन्द्रे
...
...
यद्वा मृषा यद्विस्मयस्ति यस्य किंचिद
यान्त्या मुहुर्व
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
⠀⠀
...
...
...
....
⠀⠀⠀
1000
...
...
...
( = )
६० । यामि मनोवा
१६
युद्धेऽर्जुना
...
58
ये
कन्दरासु ..
८७
येन लम्बालकः
२०
यैरेकरूप
१६ यैर्दृष्टोऽसि २७ योगपट्टो ४० | यो यः पश्यति ५२ रञ्जिता नु ८३ | रक्तच्छदत्वं ५४ रथस्थितानां
...
६५ राजति तटीय ३६ |राजन्राजसुता २ राज्ञो मान १०३ | राज्ये सारं १०२ | हर महि ११० लावण्यद्रविण ५० लावण्यौकसि
...
८२ लिम्पतीव तमो ७४ लोकोत्तरं ८२ वक्त्रस्यन्दि ८३ वसुरहितेन ८६ वामेन नारी ८३ विजये कुशल १०० विदलितसकला ३३ . विद्वन्मानस ... विनयेन विना ७० विभिन्नवर्णा ८३ | वियोगे गौड ६३ | विलङ्घयन्ति २१ विलसदमर ...
१०६
...
1000
...
...
...
⠀⠀⠀⠀
⠀⠀⠀⠀
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
www
....
...
:::
⠀⠀⠀⠀⠀
...
...
...
...
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
...
२७
२२
६४
६२
५३
२३
४२
१८
३०
५८
३८
१०८
६३
५७
८२
४४
४०
८४
३५
६५.
وع
१००
१०५
हह
६०
२७
४६
पू
४७ /
のほ
३३
Page #132
--------------------------------------------------------------------------
________________
...
३५
विलिखति .... ... ... ५२ सवः पायादि ... विसृष्टरागा ...
| स वक्तुमखि विस्तारशालिनि
सहसा विदधीत वृषपुंगवल ...
सह्याः पन्नग शरदीव ...
साधूनामुपकर्तु शशी दिवस ... ... १ सा बाला वय शुद्धान्तदुर्लभ
साहित्यपाथो शैलेन्द्रप्रतिपाद्य
सीमानं न जगाम .... स एकत्रीणि ... , ... ७४
सुहश्र विलम्बसु संकेतकाल ... ... ... ७
सौजन्याम्बु ... संग्रामाङ्गन
स्पृष्टास्ता नन्दने संचारपूतानि ... ... ४४
स्वपक्षलीला सच्छायाम्भोज
| स्वेच्छोपजात सजातपत्र ...
| हा राही शित सत्पुष्करद्योति
हृदयमधिष्ठित सधः करस्पर्श
| हे हेलाजित ... सद्यः कौशिक
Page #133
--------------------------------------------------------------------------
Page #134
--------------------------------------------------------------------------
________________ विक्रयार्थ प्रस्तुत पुस्तकें। -O:-*-::(1) रघुवंश (प्रथमादि चतुर्थ सर्ग पर्यन्त ) सुबोधिनी टीका, सरलार्थ, सरलभाषा, विस्तृतभूमिका, उपयोगी संक्षिप्त इतिहास, विशेष टिप्पणी तथा बारह वर्ष के अर्थात् सन् 1425 तक के प्रश्नपत्र, श्लोक बद्ध प्रति सर्ग की संक्षिप्त कथा एवं भाषा में विस्तृत कथासार सहित। (2) मेघदूत ( पूर्वार्ध) सुबोधिनी टीका, सरलार्थ, सरलभाषा, संक्षिप्त इतिहास, पौराणिक कथा एवं प्रश्न पत्र सहित // (3) श्रुतबोध-सुबोधिनी टीका, उदाहरण और उसकी टीका, छन्दोमरी तथा पिङ्गल सूत्र के लक्षण सहित। (4) श्रुतबोध (अश्लीलपद परिवतित) सुबोधिनी टीका, उदाहरण और उसकी टीका, छन्दोमञ्जरी, तथा पिङ्गल सूत्र के लक्षण सहित। (5) रामायण महाभारत-सुबोधिनीटीका। (6) किरातार्जुनीय (1-3 सर्ग) सुबोधिनी और मल्लिनाथी टीका, विषयसूची, सुभाषित, कथासंक्षेप, सरलार्थ, समास, वाच्यपरिवर्तन और विस्तृत भूमिका सहित ) शिशुपालवध (प्रथम-द्वितीय सर्ग) सुबोधिनी टीका सरलार्थ, समास, व्याकरण, वाच्यपरिवर्तन, संक्षिप्त कथा भाग श्लोकवद्ध, हिन्दी में विस्तृत कथासार तथा अत्युपयोगी विस्तृत भूमिका सहित। (8) पञ्चतन्त्र-टिप्पणी सहित सजिल्द / (8) अलङ्कार-सर्वस्व-टिप्पणी और विस्तृत भूमिका सहित 1 // ) (10) महाकवि-माघ (माघ विषयक प्राचीन गवेषणा) (11) रतिरहस्य-संस्कृत टीका हरप्रकार के पुस्तकों के प्राप्ति का स्थानः मैनेजर, शारदा भवन 46 अगस्तकुण्ड-बनारस / 11) リリー