________________
अलकारसर्वस्वम् । इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो' विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधक इति पूर्व सिद्धत्वाभावान्न तनि बन्धनम् । विषशद्धे श्लिष्टशद्वं परम्परितमिति श्लेष एवात्रेत्याहुः ।
आरोप्पमाणस्य प्रकृतोपयोगित्वे परिणामः । 'आरोग्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतया आरोपायमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविइव इतस्ततो भ्रमणां, अरति = सर्वत्र मनःप्रसादाभावं, अलसहृदयतां=अनुत्साहहतमानसतां, प्रलयं = नष्टचेष्टतां, मृच्छा = इन्द्रियव्यापारनिरोध, तमः = मोहं, शरीरसादः = शरीरपीड़ां मरणञ्च कुरुत इत्यर्थः ।
१. प्रथममेव प्रतीतिविषयीभूत इत्यर्थः । २. श्लेषप्रतीतिमन्तरेण सन्दिग्धत्वान्न रूपकनिबन्धनमित्यर्थः ।
३. निजस्थितेरन्यथाभावः परिणामः, यथा मृत्तिका खाकारं प्राप्नोति अथ च खोयां मृत्तिकात्वजातिं विहाय घटत्वादि जाति लभत इति भावः।
४. आरोप्यमाखं प्रकृतात्मतां प्राप्याचरणं करोतीत्यर्थः । विमर्शनीकारः स्पष्टीकरोतिः-एकं वस्तु उचितं भवति एकं वस्तु उपयोगि भवति । तत्र उचितं तु सिद्धस्य पोषकम् । उपयोगि तु प्रकृतार्थस्य सिद्धौ साधकम् । यथा-अनन्वयालङ्कारे "इन्दुरिन्दुरिव” इत्यत्र " इन्दुश्चन्द्र इव " इति कथनेऽपि अनन्वयः सिद्धयति । अतोऽनन्य. यसिद्धौ शब्देक्यस्य नोपयोगित्वं तथाप्यनन्वयेऽप्यर्थैक्यवत् “इन्दु. रिन्दुरिव" इतोदृशशब्दैक्येऽर्थस्य सुगमता अत्रेदमेव पोषकत्वम् । अतोऽत्र शब्दैक्यमुचितरूपम् । किञ्च लाटानुप्रासे शब्दैक्यस्योपयोगित्वम् । यतः शब्दैक्यमन्तरा लाटानुप्रासो न सिद्धयति । तथा परम्परितरूपकेऽन्यरूपकाकरणेऽपि प्रथमरूपकस्यासिद्धिर्नास्ति । परन्त्वन्यरूपकं प्रथमरूपकस्य पोषकत्वादुचितरूपम् । - एवञ्च क्रियाकरणे आरोप्यमाणस्यौचित्ये रूपकम् । उपयोगित्वे तु परिणामः।