________________
शारदाप्रन्ध-माला।
-
-
गमख्यात्यसम्भवात्सांख्यीयपरिणामवैलक्षण्यम् । तस्य च सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् दैविभ्यम् । श्राद्यो यथा'तीर्वा भूतेशमौलिनजममरधुनीमात्मनासी तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं
कृच्छादन्योयमानस्त्वरितमथ गिरि चित्रकूटं प्रतस्थे । अत्र सौमित्रिमैत्री प्रकृता भारोप्यमाणसमानाधिकरणातररूप. स्वेन परिणता । श्रातरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तत्र यथा समासोक्तावारोप्यमाण प्रकृतोपयोगि तारोपविषयात्मतया स्थितम्, अत एव तत्र तदुव्यवहारसमारोपः, न तु रूपसमारोपः । एवमिहापि क्षेयम् । केवलं तत्र विषयस्यैव प्रयोगः। विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं, तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा
'अथ पत्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमायः॥ अराजसंघटने उपायनमुचितम् । तात्र वचोरूपमिति वचसा व्यधिकरणोपायनरूपत्वेन परिणामः ।
विषयस्य संदिद्यमानत्वे सन्देहः ।
अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः, यद्भित्तित्धेनाप्रकृतः सन्दिह्यते । अप्रकृते संदेहे विषयोऽपि सन्दिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। सच त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् । यथा'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लोलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे ।
-
-
१. तीत्वैतिःमद्यास्तरणमूल्यमातर इत्युच्यते । अत्र प्रकृता अर्थात् प्रकरणस्थिता तु गुहेन सह लक्ष्मणस्य मैत्रो, सा चाप्रकृता तरीभूता अर्थात् सोमित्रिमैत्री तरणस्य मूल्यं जाता। तात्पर्यमिदं यत् समिविभव गुहो