SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। 'प्रारोपादभेदेनाध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आधं केवलंमालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविघर्तिचेति द्विधैव । तृतीयं तु क्लिष्टाश्लिष्टशब्दनिवन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाश्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । 'अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । क्रमेण यथा(३) दासे कृतागसि भवत्युचितः प्रभूणां . पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्करकण्टकारें यद्भिद्यते तव पदं ननु सा व्यथा मे ॥" १. ननु चाध्यवसायगर्भाणामप्यलंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्याशङ्कयाहआरोपादित्यादि। २. केवलमेकधैव रूपितमित्यर्थः । यत्र एकस्मिन बहव आरोप्यन्ते तन्मालारूपकम् । ३. समस्तं वस्तु प्रारोप्यमाणविषयः शब्दप्रतिपाद्यो यत्र तत् । एकस्मिन्देशेऽशे विवर्तनाद् विशेषेण वर्तनात् अर्थात् अारोप्यमाणस्य सर्वत्र शब्दवशलभ्यत्वे एकांशेऽर्थवशलभ्यत्वस्य विशेषस्य सद्भावादेकदेशविवर्ति । ४. तत्रादौ निरवयवं, सावयवं परम्परितञ्चेति त्रिविधम् । प्रथमं केवलं मालारूपकञ्चेति द्विविधम् । द्वितीयं समस्तबस्तुविषय. मेकदेशविवर्तिचेति द्विविधम् । .. ५. अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः। चिरन्तनालंकारप्रन्थेज्वेव संभवन्तीति भावः।। ६.मानिनी प्रसादयितुः कस्यचिन्नायकस्याक्तिरियम् । तव पादप्रहारोपि मे पुलकोद्गमो भवति तथापि मयि तव क्रोध इत्यर्थः । अत्र एकस्यैव पुलकाङ्करस्य एकेनैव कण्टकेन रूपणात् निरषयवत्वं केवलत्वश्च।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy